chevron_left शान्ति पर्व अध्याय ११०
युधिष्ठिर उवाच:
कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत |
१ क
युधिष्ठिर उवाच:
विद्वञ्जिज्ञासमानाय़ प्रव्रूहि भरतर्षभ ||
१ ख
युधिष्ठिर उवाच:
सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः |
२ क
युधिष्ठिर उवाच:
तय़ोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः ||
२ ख
युधिष्ठिर उवाच:
किं स्वित्सत्यं किमनृतं किं स्विद्धर्म्यं सनातनम् |
३ क
युधिष्ठिर उवाच:
कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत् ||
३ ख
भीष्म उवाच:
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् |
४ क
भीष्म उवाच:
यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत ||
४ ख
भीष्म उवाच:
भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत् |
५ क
भीष्म उवाच:
यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत् ||
५ ख
भीष्म उवाच:
तादृशे मुह्यते वालो यत्र सत्यमनिष्ठितम् |
६ क
भीष्म उवाच:
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ||
६ ख
भीष्म उवाच:
अप्यनार्योऽकृतप्रज्ञः पुरुषोऽपि सुदारुणः |
७ क
भीष्म उवाच:
सुमहत्प्राप्नुय़ात्पुण्यं वलाकोऽन्धवधादिव ||
७ ख
भीष्म उवाच:
किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित् |
८ क
भीष्म उवाच:
सुमहत्प्राप्नुय़ात्पापं गङ्गाय़ामिव कौशिकः ||
८ ख
भीष्म उवाच:
तादृशोऽय़मनुप्रश्नो यत्र धर्मः सुदुर्वचः |
९ क
भीष्म उवाच:
दुष्करः प्रतिसङ्ख्यातुं तर्केणात्र व्यवस्यति ||
९ ख
भीष्म उवाच:
प्रभावार्थाय़ भूतानां धर्मप्रवचनं कृतम् |
१० क
भीष्म उवाच:
यत्स्यादहिंसासंय़ुक्तं स धर्म इति निश्चय़ः ||
१० ख
भीष्म उवाच:
धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः |
११ क
भीष्म उवाच:
यत्स्याद्धारणसंय़ुक्तं स धर्म इति निश्चय़ः ||
११ ख
भीष्म उवाच:
श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः |
१२ क
भीष्म उवाच:
न तु तत्प्रत्यसूय़ामो न हि सर्वं विधीय़ते ||
१२ ख
भीष्म उवाच:
येऽन्याय़ेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित् |
१३ क
भीष्म उवाच:
तेभ्यस्तन्न तदाख्येय़ं स धर्म इति निश्चय़ः ||
१३ ख
भीष्म उवाच:
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन |
१४ क
भीष्म उवाच:
अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात् ||
१४ ख
भीष्म उवाच:
श्रेय़स्तत्रानृतं वक्तुं सत्यादिति विचारितम् |
१५ क
भीष्म उवाच:
यः पापैः सह सम्वन्धान्मुच्यते शपथादिति ||
१५ ख
भीष्म उवाच:
न च तेभ्यो धनं देय़ं शक्ये सति कथञ्चन |
१६ क
भीष्म उवाच:
पापेभ्यो हि धनं दत्तं दातारमपि पीडय़ेत् ||
१६ ख
भीष्म उवाच:
स्वशरीरोपरोधेन वरमादातुमिच्छतः |
१७ क
भीष्म उवाच:
सत्यसम्प्रतिपत्त्यर्थं ये व्रूय़ुः साक्षिणः क्वचित् |
१७ ख
भीष्म उवाच:
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः ||
१७ ग
भीष्म उवाच:
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् |
१८ क
भीष्म उवाच:
अर्थस्य रक्षणार्थाय़ परेषां धर्मकारणात् |
१८ ख
भीष्म उवाच:
परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः ||
१८ ग
भीष्म उवाच:
प्रतिश्रुत्य तु दातव्यं श्वःकार्यस्तु वलात्कृतः |
१९ क
भीष्म उवाच:
यः कश्चिद्धर्मसमय़ात्प्रच्युतोऽधर्ममास्थितः ||
१९ ख
भीष्म उवाच:
शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम् |
२० क
भीष्म उवाच:
सर्वोपाय़ैर्निहन्तव्यः पापो निकृतिजीवनः ||
२० ख
भीष्म उवाच:
धनमित्येव पापानां सर्वेषामिह निश्चय़ः |
२१ क
भीष्म उवाच:
येऽविषह्या ह्यसम्भोज्या निकृत्या पतनं गताः ||
२१ ख
भीष्म उवाच:
च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते |
२२ क
भीष्म उवाच:
धनादानाद्दुःखतरं जीविताद्विप्रय़ोजनम् ||
२२ ख
भीष्म उवाच:
अय़ं वो रोचतां धर्म इति वाच्यः प्रय़त्नतः |
२३ क
भीष्म उवाच:
न कश्चिदस्ति पापानां धर्म इत्येष निश्चय़ः ||
२३ ख
भीष्म उवाच:
तथागतं च यो हन्यान्नासौ पापेन लिप्यते |
२४ क
भीष्म उवाच:
स्वकर्मणा हतं हन्ति हत एव स हन्यते |
२४ ख
भीष्म उवाच:
तेषु यः समय़ं कश्चित्कुर्वीत हतवुद्धिषु ||
२४ ग
भीष्म उवाच:
यथा काकश्च गृध्रश्च तथैवोपधिजीविनः |
२५ क
भीष्म उवाच:
ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु ||
२५ ख
भीष्म उवाच:
यस्मिन्यथा वर्तते यो मनुष्य; स्तस्मिंस्तथा वर्तितव्यं स धर्मः |
२६ क
भीष्म उवाच:
माय़ाचारो माय़या वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेय़ः ||
२६ ख