लोमश उवाच:
एषा देवनदी पुण्या कौशिकी भरतर्षभ |
१ क
लोमश उवाच:
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ||
१ ख
लोमश उवाच:
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः |
२ क
लोमश उवाच:
ऋश्यशृङ्गः सुतो यस्य तपस्वी संय़तेन्द्रिय़ः ||
२ ख
लोमश उवाच:
तपसो यः प्रभावेन वर्षय़ामास वासवम् |
३ क
लोमश उवाच:
अनावृष्ट्यां भय़ाद्यस्य ववर्ष वलवृत्रहा ||
३ ख
लोमश उवाच:
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः |
४ क
लोमश उवाच:
विषय़े लोमपादस्य यश्चकाराद्भुतं महत् ||
४ ख
लोमश उवाच:
निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः |
५ क
लोमश उवाच:
लोमपादो दुहितरं सावित्रीं सविता यथा ||
५ ख
युधिष्ठिर उवाच:
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः |
६ क
युधिष्ठिर उवाच:
विरुद्धे योनिसंसर्गे कथं च तपसा युतः ||
६ ख
युधिष्ठिर उवाच:
किमर्थं च भय़ाच्छक्रस्तस्य वालस्य धीमतः |
७ क
युधिष्ठिर उवाच:
अनावृष्ट्यां प्रवृत्ताय़ां ववर्ष वलवृत्रहा ||
७ ख
युधिष्ठिर उवाच:
कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता |
८ क
युधिष्ठिर उवाच:
लोभय़ामास या चेतो मृगभूतस्य तस्य वै ||
८ ख
युधिष्ठिर उवाच:
लोमपादश्च राजर्षिर्यदाश्रूय़त धार्मिकः |
९ क
युधिष्ठिर उवाच:
कथं वै विषय़े तस्य नावर्षत्पाकशासनः ||
९ ख
युधिष्ठिर उवाच:
एतन्मे भगवन्सर्वं विस्तरेण यथातथम् |
१० क
युधिष्ठिर उवाच:
वक्तुमर्हसि शुश्रूषोरृष्यशृङ्गस्य चेष्टितम् ||
१० ख
लोमश उवाच:
विभाण्डकस्य व्रह्मर्षेस्तपसा भावितात्मनः |
११ क
लोमश उवाच:
अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः ||
११ ख
लोमश उवाच:
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् |
१२ क
लोमश उवाच:
महाह्रदे महातेजा वालः स्थविरसंमतः ||
१२ ख
लोमश उवाच:
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः |
१३ क
लोमश उवाच:
दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसंमतः ||
१३ ख
लोमश उवाच:
तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम् |
१४ क
लोमश उवाच:
अप्सूपस्पृशतो राजन्मृगी तच्चापिवत्तदा ||
१४ ख
लोमश उवाच:
सह तोय़ेन तृषिता सा गर्भिण्यभवन्नृप |
१५ क
लोमश उवाच:
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् ||
१५ ख
लोमश उवाच:
तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः |
१६ क
लोमश उवाच:
ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत ||
१६ ख
लोमश उवाच:
तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः |
१७ क
लोमश उवाच:
तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ||
१७ ख
लोमश उवाच:
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः |
१८ क
लोमश उवाच:
तस्मात्तस्य मनो नित्यं व्रह्मचर्येऽभवन्नृप ||
१८ ख
लोमश उवाच:
एतस्मिन्नेव काले तु सखा दशरथस्य वै |
१९ क
लोमश उवाच:
लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत् ||
१९ ख
लोमश उवाच:
तेन कामः कृतो मिथ्या व्राह्मणेभ्य इति श्रुतिः |
२० क
लोमश उवाच:
स व्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः ||
२० ख
लोमश उवाच:
पुरोहितापचाराच्च तस्य राज्ञो यदृच्छय़ा |
२१ क
लोमश उवाच:
न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ||
२१ ख
लोमश उवाच:
स व्राह्मणान्पर्यपृच्छत्तपोय़ुक्तान्मनीषिणः |
२२ क
लोमश उवाच:
प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः ||
२२ ख
लोमश उवाच:
कथं प्रवर्षेत्पर्जन्य उपाय़ः परिदृश्यताम् |
२३ क
लोमश उवाच:
तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः ||
२३ ख
लोमश उवाच:
तत्र त्वेको मुनिवरस्तं राजानमुवाच ह |
२४ क
लोमश उवाच:
कुपितास्तव राजेन्द्र व्राह्मणा निस्कृतिं चर ||
२४ ख
लोमश उवाच:
ऋश्यशृङ्गं मुनिसुतमानय़स्व च पार्थिव |
२५ क
लोमश उवाच:
वानेय़मनभिज्ञं च नारीणामार्जवे रतम् ||
२५ ख
लोमश उवाच:
स चेदवतरेद्राजन्विषय़ं ते महातपाः |
२६ क
लोमश उवाच:
सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशय़ः ||
२६ ख
लोमश उवाच:
एतच्छ्रुत्वा वचो राजन्कृत्वा निस्कृतिमात्मनः |
२७ क
लोमश उवाच:
स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु |
२७ ख
लोमश उवाच:
राजानमागतं दृष्ट्वा प्रतिसञ्जगृहुः प्रजाः ||
२७ ग
लोमश उवाच:
ततोऽङ्गपतिराहूय़ सचिवान्मन्त्रकोविदान् |
२८ क
लोमश उवाच:
ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चय़े ||
२८ ख
लोमश उवाच:
सोऽध्यगच्छदुपाय़ं तु तैरमात्यैः सहाच्युतः |
२९ क
लोमश उवाच:
शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः ||
२९ ख
लोमश उवाच:
तत आनाय़यामास वारमुख्या महीपतिः |
३० क
लोमश उवाच:
वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः ||
३० ख
लोमश उवाच:
ऋश्यशृङ्गमृषेः पुत्रमानय़ध्वमुपाय़तः |
३१ क
लोमश उवाच:
लोभय़ित्वाभिविश्वास्य विषय़ं मम शोभनाः ||
३१ ख
लोमश उवाच:
ता राजभय़भीताश्च शापभीताश्च योषितः |
३२ क
लोमश उवाच:
अशक्यमूचुस्तत्कार्यं विवर्णा गतचेतसः ||
३२ ख
लोमश उवाच:
तत्र त्वेका जरद्योषा राजानमिदमव्रवीत् |
३३ क
लोमश उवाच:
प्रय़तिष्ये महाराज तमानेतुं तपोधनम् ||
३३ ख
लोमश उवाच:
अभिप्रेतांस्तु मे कामान्समनुज्ञातुमर्हसि |
३४ क
लोमश उवाच:
ततः शक्ष्ये लोभय़ितुमृश्यशृङ्गमृषेः सुतम् ||
३४ ख
लोमश उवाच:
तस्याः सर्वमभिप्राय़मन्वजानात्स पार्थिवः |
३५ क
लोमश उवाच:
धनं च प्रददौ भूरि रत्नानि विविधानि च ||
३५ ख
लोमश उवाच:
ततो रूपेण सम्पन्ना वय़सा च महीपते |
३६ क
लोमश उवाच:
स्त्रिय़ आदाय़ काश्चित्सा जगाम वनमञ्जसा ||
३६ ख