सञ्जय़ उवाच:
अर्जुनस्तु रणे शल्यं यतमानं महारथम् |
१ क
सञ्जय़ उवाच:
छादय़ामास समरे शरैः संनतपर्वभिः ||
१ ख
सञ्जय़ उवाच:
सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत |
२ क
सञ्जय़ उवाच:
प्राग्ज्योतिषं च समरे सैन्धवं च जय़द्रथम् ||
२ ख
सञ्जय़ उवाच:
चित्रसेनं विकर्णं च कृतवर्माणमेव च |
३ क
सञ्जय़ उवाच:
दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ ||
३ ख
सञ्जय़ उवाच:
एकैकं त्रिभिरानर्छत्कङ्कवर्हिणवाजितैः |
४ क
सञ्जय़ उवाच:
शरैरतिरथो युद्धे पीडय़न्वाहिनीं तव ||
४ ख
सञ्जय़ उवाच:
जय़द्रथो रणे पार्थं भित्त्वा भारत साय़कैः |
५ क
सञ्जय़ उवाच:
भीमं विव्याध तरसा चित्रसेनरथे स्थितः ||
५ ख
सञ्जय़ उवाच:
शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः |
६ क
सञ्जय़ उवाच:
विव्यधाते महावाहुं वहुधा मर्मभेदिभिः ||
६ ख
सञ्जय़ उवाच:
चित्रसेनादय़श्चैव पुत्रास्तव विशां पते |
७ क
सञ्जय़ उवाच:
पञ्चभिः पञ्चभिस्तूर्णं संय़ुगे निशितैः शरैः |
७ ख
सञ्जय़ उवाच:
आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष ||
७ ग
सञ्जय़ उवाच:
तौ तत्र रथिनां श्रेष्ठौ कौन्तेय़ौ भरतर्षभौ |
८ क
सञ्जय़ उवाच:
अपीडय़ेतां समरे त्रिगर्तानां महद्वलम् ||
८ ख
सञ्जय़ उवाच:
सुशर्मापि रणे पार्थं विद्ध्वा वहुभिराय़सैः |
९ क
सञ्जय़ उवाच:
ननाद वलवन्नादं नादय़न्वै नभस्तलम् ||
९ ख
सञ्जय़ उवाच:
अन्ये च रथिनः शूरा भीमसेनधनञ्जय़ौ |
१० क
सञ्जय़ उवाच:
विव्यधुर्निशितैर्वाणै रुक्मपुङ्खैरजिह्मगैः ||
१० ख
सञ्जय़ उवाच:
तेषां तु रथिनां मध्ये कौन्तेय़ौ रथिनां वरौ |
११ क
सञ्जय़ उवाच:
क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् |
११ ख
सञ्जय़ उवाच:
आमिषेप्सू गवां मध्ये सिंहाविव वलोत्कटौ ||
११ ग
सञ्जय़ उवाच:
छित्त्वा धनूंषि वीराणां शरांश्च वहुधा रणे |
१२ क
सञ्जय़ उवाच:
पातय़ामासतुर्वीरौ शिरांसि शतशो नृणाम् ||
१२ ख
सञ्जय़ उवाच:
रथाश्च वहवो भग्ना हय़ाश्च शतशो हताः |
१३ क
सञ्जय़ उवाच:
गजाश्च सगजारोहाः पेतुरुर्व्यां महामृधे ||
१३ ख
सञ्जय़ उवाच:
रथिनः सादिनश्चैव तत्र तत्र निसूदिताः |
१४ क
सञ्जय़ उवाच:
दृश्यन्ते वहुधा राजन्वेष्टमानाः समन्ततः ||
१४ ख
सञ्जय़ उवाच:
हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः |
१५ क
सञ्जय़ उवाच:
रथैश्च वहुधा भग्नैः समास्तीर्यत मेदिनी ||
१५ ख
सञ्जय़ उवाच:
छत्रैश्च वहुधा छिन्नैर्ध्वजैश्च विनिपातितैः |
१६ क
सञ्जय़ उवाच:
अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ||
१६ ख
सञ्जय़ उवाच:
केय़ूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा |
१७ क
सञ्जय़ उवाच:
उष्णीषैरपविद्धैश्च चामरव्यजनैरपि ||
१७ ख
सञ्जय़ उवाच:
तत्र तत्रापविद्धैश्च वाहुभिश्चन्दनोक्षितैः |
१८ क
सञ्जय़ उवाच:
ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ||
१८ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् |
१९ क
सञ्जय़ उवाच:
शरैः संवार्य तान्वीरान्निजघान वलं तव ||
१९ ख
सञ्जय़ उवाच:
पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम् |
२० क
सञ्जय़ उवाच:
गाङ्गेय़स्य रथाभ्याशमुपजग्मे महाभय़े ||
२० ख
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च सैन्धवश्च जय़द्रथः |
२१ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यावाजग्मुः संय़ुगं तदा ||
२१ ख
सञ्जय़ उवाच:
ततो भीमो महेष्वासः फल्गुनश्च महारथः |
२२ क
सञ्जय़ उवाच:
कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ||
२२ ख
सञ्जय़ उवाच:
ततो वर्हिणवाजानामय़ुतान्यर्वुदानि च |
२३ क
सञ्जय़ उवाच:
धनञ्जय़रथे तूर्णं पातय़न्ति स्म संय़ुगे ||
२३ ख
सञ्जय़ उवाच:
ततस्ताञ्शरजालेन संनिवार्य महारथान् |
२४ क
सञ्जय़ उवाच:
पार्थः समन्तात्समरे प्रेषय़ामास मृत्यवे ||
२४ ख
सञ्जय़ उवाच:
शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः |
२५ क
सञ्जय़ उवाच:
आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः ||
२५ ख
सञ्जय़ उवाच:
तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः |
२६ क
सञ्जय़ उवाच:
अथैनं साय़कैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ||
२६ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ समरे भारसाधनम् |
२७ क
सञ्जय़ उवाच:
मद्रेश्वरो रणे जिष्णुं ताडय़ामास रोषितः ||
२७ ख
सञ्जय़ उवाच:
त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः |
२८ क
सञ्जय़ उवाच:
भीमसेनं च नवभिर्वाह्वोरुरसि चार्पय़त् ||
२८ ख
सञ्जय़ उवाच:
ततो द्रोणो महाराज मागधश्च महारथः |
२९ क
सञ्जय़ उवाच:
दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः ||
२९ ख
सञ्जय़ उवाच:
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः |
३० क
सञ्जय़ उवाच:
कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ ||
३० ख
सञ्जय़ उवाच:
जय़त्सेनस्तु समरे भीमं भीमाय़ुधं युवा |
३१ क
सञ्जय़ उवाच:
विव्याध निशितैर्वाणैरष्टभिर्भरतर्षभ ||
३१ ख
सञ्जय़ उवाच:
तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध सप्तभिः |
३२ क
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन रथनीडादपाहरत् ||
३२ ख
सञ्जय़ उवाच:
उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः |
३३ क
सञ्जय़ उवाच:
मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः ||
३३ ख
सञ्जय़ उवाच:
द्रोणस्तु विवरं लव्ध्वा भीमसेनं शिलीमुखैः |
३४ क
सञ्जय़ उवाच:
विव्याध वाणैः सुशितैः पञ्चषष्ट्या तमाय़सैः ||
३४ ख
सञ्जय़ उवाच:
तं भीमः समरश्लाघी गुरुं पितृसमं रणे |
३५ क
सञ्जय़ उवाच:
विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत ||
३५ ख
सञ्जय़ उवाच:
अर्जुनस्तु सुशर्माणं विद्ध्वा वहुभिराय़सैः |
३६ क
सञ्जय़ उवाच:
व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः ||
३६ ख
सञ्जय़ उवाच:
ततो भीष्मश्च राजा च सौवलश्च वृहद्वलः |
३७ क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनधनञ्जय़ौ ||
३७ ख
सञ्जय़ उवाच:
तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः |
३८ क
सञ्जय़ उवाच:
अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ||
३८ ख
सञ्जय़ उवाच:
शिखण्डी तु समासाद्य भारतानां पितामहम् |
३९ क
सञ्जय़ उवाच:
अभ्यद्रवत संहृष्टो भय़ं त्यक्त्वा यतव्रतम् ||
३९ ख
सञ्जय़ उवाच:
युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् |
४० क
सञ्जय़ उवाच:
अय़ोधय़न्रणे भीष्मं संहताः सह सृञ्जय़ैः ||
४० ख
सञ्जय़ उवाच:
तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् |
४१ क
सञ्जय़ उवाच:
शिखण्डिप्रमुखान्पार्थान्योधय़न्ति स्म संय़ुगे ||
४१ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं कौरवाणां भय़ावहम् |
४२ क
सञ्जय़ उवाच:
तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजय़ं प्रति ||
४२ ख
सञ्जय़ उवाच:
तावकानां रणे भीष्मो ग्लह आसीद्विशां पते |
४३ क
सञ्जय़ उवाच:
तत्र हि द्यूतमाय़ातं विजय़ाय़ेतराय़ वा ||
४३ ख
सञ्जय़ उवाच:
धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदय़त् |
४४ क
सञ्जय़ उवाच:
अभिद्रवत गाङ्गेय़ं मा भैष्ट नरसत्तमाः ||
४४ ख
सञ्जय़ उवाच:
सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी |
४५ क
सञ्जय़ उवाच:
भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ||
४५ ख
सञ्जय़ उवाच:
भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् |
४६ क
सञ्जय़ उवाच:
आपतन्तीं महाराज वेलामिव महोदधिः ||
४६ ख