chevron_left अनुशासन पर्व अध्याय १११
युधिष्ठिर उवाच:
यद्वरं सर्वतीर्थानां तद्व्रवीहि पितामह |
१ क
युधिष्ठिर उवाच:
यत्र वै परमं शौचं तन्मे व्याख्यातुमर्हसि ||
१ ख
भीष्म उवाच:
सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम् |
२ क
भीष्म उवाच:
यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ||
२ ख
भीष्म उवाच:
अगाधे विमले शुद्धे सत्यतोय़े धृतिह्रदे |
३ क
भीष्म उवाच:
स्नातव्यं मानसे तीर्थे सत्त्वमालम्व्य शाश्वतम् ||
३ ख
भीष्म उवाच:
तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम् |
४ क
भीष्म उवाच:
अहिंसा सर्वभूतानामानृशंस्यं दमः शमः ||
४ ख
भीष्म उवाच:
निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः |
५ क
भीष्म उवाच:
शुचय़स्तीर्थभूतास्ते ये भैक्षमुपभुञ्जते ||
५ ख
भीष्म उवाच:
तत्त्ववित्त्वनहम्वुद्धिस्तीर्थं परममुच्यते |
६ क
भीष्म उवाच:
शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षणम् ||
६ ख
भीष्म उवाच:
रजस्तमः सत्त्वमथो येषां निर्धौतमात्मनः |
७ क
भीष्म उवाच:
शौचाशौचे न ते सक्ताः स्वकार्यपरिमार्गिणः ||
७ ख
भीष्म उवाच:
सर्वत्यागेष्वभिरताः सर्वज्ञाः सर्वदर्शिनः |
८ क
भीष्म उवाच:
शौचेन वृत्तशौचार्थास्ते तीर्थाः शुचय़श्च ते ||
८ ख
भीष्म उवाच:
नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीय़ते |
९ क
भीष्म उवाच:
स स्नातो यो दमस्नातः सवाह्याभ्यन्तरः शुचिः ||
९ ख
भीष्म उवाच:
अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः |
१० क
भीष्म उवाच:
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ||
१० ख
भीष्म उवाच:
प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः |
११ क
भीष्म उवाच:
तथा निष्किञ्चनत्वं च मनसश्च प्रसन्नता ||
११ ख
भीष्म उवाच:
वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम् |
१२ क
भीष्म उवाच:
ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं मतम् ||
१२ ख
भीष्म उवाच:
मनसाथ प्रदीपेन व्रह्मज्ञानवलेन च |
१३ क
भीष्म उवाच:
स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शिनः ||
१३ ख
भीष्म उवाच:
समारोपितशौचस्तु नित्यं भावसमन्वितः |
१४ क
भीष्म उवाच:
केवलं गुणसम्पन्नः शुचिरेव नरः सदा ||
१४ ख
भीष्म उवाच:
शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत |
१५ क
भीष्म उवाच:
पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि ||
१५ ख
भीष्म उवाच:
यथा शरीरस्योद्देशाः शुचय़ः परिनिर्मिताः |
१६ क
भीष्म उवाच:
तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च ||
१६ ख
भीष्म उवाच:
प्रार्थनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् |
१७ क
भीष्म उवाच:
धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम् ||
१७ ख
भीष्म उवाच:
परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा |
१८ क
भीष्म उवाच:
अतीव पुण्यास्ते भागाः सलिलस्य च तेजसा ||
१८ ख
भीष्म उवाच:
मनसश्च पृथिव्याश्च पुण्यतीर्थास्तथापरे |
१९ क
भीष्म उवाच:
उभय़ोरेव यः स्नातः स सिद्धिं शीघ्रमाप्नुय़ात् ||
१९ ख
भीष्म उवाच:
यथा वलं क्रिय़ाहीनं क्रिय़ा वा वलवर्जिता |
२० क
भीष्म उवाच:
नेह साधय़ते कार्यं समाय़ुक्तस्तु सिध्यति ||
२० ख
भीष्म उवाच:
एवं शरीरशौचेन तीर्थशौचेन चान्वितः |
२१ क
भीष्म उवाच:
ततः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् ||
२१ ख