लोमश उवाच:
सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धय़े |
१ क
लोमश उवाच:
सन्देशाच्चैव नृपतेः स्ववुद्ध्या चैव भारत ||
१ ख
लोमश उवाच:
नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम् |
२ क
लोमश उवाच:
नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ||
२ ख
लोमश उवाच:
अतीव रमणीय़ं तदतीव च मनोहरम् |
३ क
लोमश उवाच:
चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम् ||
३ ख
लोमश उवाच:
ततो निवध्य तां नावमदूरे काश्यपाश्रमात् |
४ क
लोमश उवाच:
चारय़ामास पुरुषैर्विहारं तस्य वै मुनेः ||
४ ख
लोमश उवाच:
ततो दुहितरं वेश्या समाधाय़ेतिकृत्यताम् |
५ क
लोमश उवाच:
दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्वुद्धिसंमताम् ||
५ ख
लोमश उवाच:
सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ |
६ क
लोमश उवाच:
आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् ||
६ ख
वेश्यो उवाच:
कच्चिन्मुने कुशलं तापसानां; कच्चिच्च वो मूलफलं प्रभूतम् |
७ क
वेश्यो उवाच:
कच्चिद्भवान्रमते चाश्रमेऽस्मिं; स्त्वां वै द्रष्टुं साम्प्रतमागतोऽस्मि ||
७ ख
वेश्यो उवाच:
कच्चित्तपो वर्धते तापसानां; पिता च ते कच्चिदहीनतेजाः |
८ क
वेश्यो उवाच:
कच्चित्त्वय़ा प्रीय़ते चैव विप्र; कच्चित्स्वाध्याय़ः क्रिय़ते ऋश्यशृङ्ग ||
८ ख
ऋश्यशृङ्ग उवाच:
ऋद्धो भवाञ्ज्योतिरिव प्रकाशते; मन्ये चाहं त्वामभिवादनीय़म् |
९ क
ऋश्यशृङ्ग उवाच:
पाद्यं वै ते सम्प्रदास्यामि कामा; द्यथाधर्मं फलमूलानि चैव ||
९ ख
ऋश्यशृङ्ग उवाच:
कौश्यां वृस्यामास्स्व यथोपजोषं; कृष्णाजिनेनावृताय़ां सुखाय़ाम् |
१० क
ऋश्यशृङ्ग उवाच:
क्व चाश्रमस्तव किं नाम चेदं; व्रतं व्रह्मंश्चरसि हि देववत्त्वम् ||
१० ख
वेश्यो उवाच:
ममाश्रमः काश्यपपुत्र रम्य; स्त्रिय़ोजनं शैलमिमं परेण |
११ क
वेश्यो उवाच:
तत्र स्वधर्मोऽनभिवादनं नो; न चोदकं पाद्यमुपस्पृशामः ||
११ ख
ऋश्यशृङ्ग उवाच:
फलानि पक्वानि ददानि तेऽहं; भल्लातकान्यामलकानि चैव |
१२ क
ऋश्यशृङ्ग उवाच:
परूषकानीङ्गुदधन्वनानि; प्रिय़ालानां कामकारं कुरुष्व ||
१२ ख
लोमश उवाच:
सा तानि सर्वाणि विसर्जय़ित्वा; भक्षान्महार्हान्प्रददौ ततोऽस्मै |
१३ क
लोमश उवाच:
तान्यृश्यशृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर्हि ||
१३ ख
लोमश उवाच:
ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति |
१४ क
लोमश उवाच:
पानानि चाग्र्याणि ततो मुमोद; चिक्रीड चैव प्रजहास चैव ||
१४ ख
लोमश उवाच:
सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव |
१५ क
लोमश उवाच:
गात्रैश्च गात्राणि निषेवमाणा; समाश्लिषच्चासकृदृश्यशृङ्गम् ||
१५ ख
लोमश उवाच:
सर्जानशोकांस्तिलकांश्च वृक्षा; न्प्रपुष्पितानवनाम्यावभज्य |
१६ क
लोमश उवाच:
विलज्जमानेव मदाभिभूता; प्रलोभय़ामास सुतं महर्षेः ||
१६ ख
लोमश उवाच:
अथर्श्यशृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च काय़मस्य |
१७ क
लोमश उवाच:
अवेक्षमाणा शनकैर्जगाम; कृत्वाग्निहोत्रस्य तदापदेशम् ||
१७ ख
लोमश उवाच:
तस्यां गताय़ां मदनेन मत्तो; विचेतनश्चाभवदृश्यशृङ्गः |
१८ क
लोमश उवाच:
तामेव भावेन गतेन शून्यो; विनिःश्वसन्नार्तरूपो वभूव ||
१८ ख
लोमश उवाच:
ततो मुहूर्ताद्धरिपिङ्गलाक्षः; प्रवेष्टितो रोमभिरा नखाग्रात् |
१९ क
लोमश उवाच:
स्वाध्याय़वान्वृत्तसमाधिय़ुक्तो; विभाण्डकः काश्यपः प्रादुरासीत् ||
१९ ख
लोमश उवाच:
सोऽपश्यदासीनमुपेत्य पुत्रं; ध्याय़न्तमेकं विपरीतचित्तम् |
२० क
लोमश उवाच:
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं; विभाण्डकः पुत्रमुवाच दीनम् ||
२० ख
लोमश उवाच:
न कल्प्यन्ते समिधः किं नु तात; कच्चिद्धुतं चाग्निहोत्रं त्वय़ाद्य |
२१ क
लोमश उवाच:
सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः; कच्चित्सवत्सा च कृता त्वय़ाद्य ||
२१ ख
लोमश उवाच:
न वै यथापूर्वमिवासि पुत्र; चिन्तापरश्चासि विचेतनश्च |
२२ क
लोमश उवाच:
दीनोऽतिमात्रं त्वमिहाद्य किं नु; पृच्छामि त्वां क इहाद्यागतोऽभूत् ||
२२ ख