नारद उवाच:
ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणौ |
१ क
नारद उवाच:
शाण्डिलीं व्राह्मणीं तत्र ददृशाते तपोन्विताम् ||
१ ख
नारद उवाच:
अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम् |
२ क
नारद उवाच:
तय़ा च स्वागतेनोक्तौ विष्टरे संनिषीदतुः ||
२ ख
नारद उवाच:
सिद्धमन्नं तय़ा क्षिप्रं वलिमन्त्रोपवृंहितम् |
३ क
नारद उवाच:
भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावन्नमोहितौ ||
३ ख
नारद उवाच:
मुहूर्तात्प्रतिवुद्धस्तु सुपर्णो गमनेप्सय़ा |
४ क
नारद उवाच:
अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः ||
४ ख
नारद उवाच:
मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः |
५ क
नारद उवाच:
गालवस्तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत ||
५ ख
नारद उवाच:
किमिदं भवता प्राप्तमिहागमनजं फलम् |
६ क
नारद उवाच:
वासोऽय़मिह कालं तु किय़न्तं नौ भविष्यति ||
६ ख
नारद उवाच:
किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् |
७ क
नारद उवाच:
न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ||
७ ख
नारद उवाच:
सुपर्णोऽथाव्रवीद्विप्रं प्रध्यातं वै मय़ा द्विज |
८ क
नारद उवाच:
इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः ||
८ ख
नारद उवाच:
यत्र देवो महादेवो यत्र विष्णुः सनातनः |
९ क
नारद उवाच:
यत्र धर्मश्च यज्ञश्च तत्रेय़ं निवसेदिति ||
९ ख
नारद उवाच:
सोऽहं भगवतीं याचे प्रणतः प्रिय़काम्यया |
१० क
नारद उवाच:
मय़ैतन्नाम प्रध्यातं मनसा शोचता किल ||
१० ख
नारद उवाच:
तदेवं वहुमानात्ते मय़ेहानीप्सितं कृतम् |
११ क
नारद उवाच:
सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि ||
११ ख
नारद उवाच:
सा तौ तदाव्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ |
१२ क
नारद उवाच:
न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज सम्भ्रमम् ||
१२ ख
नारद उवाच:
निन्दितास्मि त्वय़ा वत्स न च निन्दां क्षमाम्यहम् |
१३ क
नारद उवाच:
लोकेभ्यः स परिभ्रश्येद्यो मां निन्देत पापकृत् ||
१३ ख
नारद उवाच:
हीनय़ालक्षणैः सर्वैस्तथानिन्दितय़ा मय़ा |
१४ क
नारद उवाच:
आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेय़मुत्तमा ||
१४ ख
नारद उवाच:
आचाराल्लभते धर्ममाचाराल्लभते धनम् |
१५ क
नारद उवाच:
आचाराच्छ्रिय़माप्नोति आचारो हन्त्यलक्षणम् ||
१५ ख
नारद उवाच:
तदाय़ुष्मन्खगपते यथेष्टं गम्यतामितः |
१६ क
नारद उवाच:
न च ते गर्हणीय़ापि गर्हितव्याः स्त्रिय़ः क्वचित् ||
१६ ख
नारद उवाच:
भवितासि यथापूर्वं वलवीर्यसमन्वितः |
१७ क
नारद उवाच:
वभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ ||
१७ ख
नारद उवाच:
अनुज्ञातश्च शाण्डिल्या यथागतमुपागमत् |
१८ क
नारद उवाच:
नैव चासादय़ामास तथारूपांस्तुरङ्गमान् ||
१८ ख
नारद उवाच:
विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितम् |
१९ क
नारद उवाच:
उवाच वदतां श्रेष्ठो वैनतेय़स्य संनिधौ ||
१९ ख
नारद उवाच:
यस्त्वय़ा स्वय़मेवार्थः प्रतिज्ञातो मम द्विज |
२० क
नारद उवाच:
तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् ||
२० ख
नारद उवाच:
प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् |
२१ क
नारद उवाच:
यथा संसिध्यते विप्र स मार्गस्तु निशम्यताम् ||
२१ ख
नारद उवाच:
सुपर्णोऽथाव्रवीद्दीनं गालवं भृशदुःखितम् |
२२ क
नारद उवाच:
प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् ||
२२ ख
नारद उवाच:
तदागच्छ द्विजश्रेष्ठ मन्त्रय़िष्याव गालव |
२३ क
नारद उवाच:
नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वय़ासितुम् ||
२३ ख