धृतराष्ट्र उवाच:
कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
अय़ुध्यत महावीर्यैः पाण्डवैः सहसृञ्जय़ैः ||
१ ख
धृतराष्ट्र उवाच:
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारय़न् |
२ क
धृतराष्ट्र उवाच:
आचक्ष्व मे महाय़ुद्धं भीष्मस्याहवशोभिनः ||
२ ख
सञ्जय़ उवाच:
कुरवः पाण्डवैः सार्धं यथाय़ुध्यन्त भारत |
३ क
सञ्जय़ उवाच:
यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः ||
३ ख
सञ्जय़ उवाच:
प्रेषिताः परलोकाय़ परमास्त्रैः किरीटिना |
४ क
सञ्जय़ उवाच:
अहन्यहनि सम्प्राप्तास्तावकानां रथव्रजाः ||
४ ख
सञ्जय़ उवाच:
यथाप्रतिज्ञं कौरव्यः स चापि समितिञ्जय़ः |
५ क
सञ्जय़ उवाच:
पार्थानामकरोद्भीष्मः सततं समितिक्षय़म् ||
५ ख
सञ्जय़ उवाच:
कुरुभिः सहितं भीष्मं युध्यमानं महारथम् |
६ क
सञ्जय़ उवाच:
अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशय़िता जनाः ||
६ ख
सञ्जय़ उवाच:
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे |
७ क
सञ्जय़ उवाच:
अवर्तत महारौद्रः सततं समितिक्षय़ः ||
७ ख
सञ्जय़ उवाच:
तस्मिन्नय़ुतशो राजन्भूय़श्च स परन्तपः |
८ क
सञ्जय़ उवाच:
भीष्मः शान्तनवो योधाञ्जघान परमास्त्रवित् ||
८ ख
सञ्जय़ उवाच:
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव |
९ क
सञ्जय़ उवाच:
ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ||
९ ख
सञ्जय़ उवाच:
दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम् |
१० क
सञ्जय़ उवाच:
निरविद्यत धर्मात्मा जीवितेन परन्तपः ||
१० ख
सञ्जय़ उवाच:
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे |
११ क
सञ्जय़ उवाच:
न हन्यां मानवश्रेष्ठान्सङ्ग्रामेऽभिमुखानिति ||
११ ख
सञ्जय़ उवाच:
चिन्तय़ित्वा महावाहुः पिता देवव्रतस्तव |
१२ क
सञ्जय़ उवाच:
अभ्याशस्थं महाराज पाण्डवं वाक्यमव्रवीत् ||
१२ ख
सञ्जय़ उवाच:
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद |
१३ क
सञ्जय़ उवाच:
शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ||
१३ ख
सञ्जय़ उवाच:
निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत |
१४ क
सञ्जय़ उवाच:
घ्नतश्च मे गतः कालः सुवहून्प्राणिनो रणे ||
१४ ख
सञ्जय़ उवाच:
तस्मात्पार्थं पुरोधाय़ पाञ्चालान्सृञ्जय़ांस्तथा |
१५ क
सञ्जय़ उवाच:
मद्वधे क्रिय़तां यत्नो मम चेदिच्छसि प्रिय़म् ||
१५ ख
सञ्जय़ उवाच:
तस्य तन्मतमाज्ञाय़ पाण्डवः सत्यदर्शनः |
१६ क
सञ्जय़ उवाच:
भीष्मं प्रतिय़यौ यत्तः सङ्ग्रामे सह सृञ्जय़ैः ||
१६ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः |
१७ क
सञ्जय़ उवाच:
श्रुत्वा भीष्मस्य तां वाचं चोदय़ामासतुर्वलम् ||
१७ ख
सञ्जय़ उवाच:
अभिद्रवत युध्यध्वं भीष्मं जय़त संय़ुगे |
१८ क
सञ्जय़ उवाच:
रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ||
१८ ख
सञ्जय़ उवाच:
अय़ं चापि महेष्वासः पार्षतो वाहिनीपतिः |
१९ क
सञ्जय़ उवाच:
भीमसेनश्च समरे पालय़िष्यति वो ध्रुवम् ||
१९ ख
सञ्जय़ उवाच:
न वै भीष्माद्भय़ं किञ्चित्कर्तव्यं युधि सृञ्जय़ाः |
२० क
सञ्जय़ उवाच:
ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ||
२० ख
सञ्जय़ उवाच:
तथा तु समय़ं कृत्वा दशमेऽहनि पाण्डवाः |
२१ क
सञ्जय़ उवाच:
व्रह्मलोकपरा भूत्वा सञ्जग्मुः क्रोधमूर्छिताः ||
२१ ख
सञ्जय़ उवाच:
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जय़म् |
२२ क
सञ्जय़ उवाच:
भीष्मस्य पातने यत्नं परमं ते समास्थिताः ||
२२ ख
सञ्जय़ उवाच:
ततस्तव सुतादिष्टा नानाजनपदेश्वराः |
२३ क
सञ्जय़ उवाच:
द्रोणेन सहपुत्रेण सहसेना महावलाः ||
२३ ख
सञ्जय़ उवाच:
दुःशासनश्च वलवान्सह सर्वैः सहोदरैः |
२४ क
सञ्जय़ उवाच:
भीष्मं समरमध्यस्थं पालय़ां चक्रिरे तदा ||
२४ ख
सञ्जय़ उवाच:
ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम् |
२५ क
सञ्जय़ उवाच:
शिखण्डिप्रमुखान्पार्थान्योधय़न्ति स्म संय़ुगे ||
२५ ख
सञ्जय़ उवाच:
चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः |
२६ क
सञ्जय़ उवाच:
यय़ौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ||
२६ ख
सञ्जय़ उवाच:
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् |
२७ क
सञ्जय़ उवाच:
युधामन्युः सहामात्यं दुर्योधनमय़ोधय़त् ||
२७ ख
सञ्जय़ उवाच:
विराटस्तु सहानीकः सहसेनं जय़द्रथम् |
२८ क
सञ्जय़ उवाच:
वृद्धक्षत्रस्य दाय़ादमाससाद परन्तपः ||
२८ ख
सञ्जय़ उवाच:
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः |
२९ क
सञ्जय़ उवाच:
भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत् ||
२९ ख
सञ्जय़ उवाच:
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् |
३० क
सञ्जय़ उवाच:
द्रोणं प्रति यय़ौ यत्तः पाञ्चाल्यः सह सोमकैः ||
३० ख
सञ्जय़ उवाच:
कर्णिकारध्वजं चापि सिंहकेतुररिन्दमः |
३१ क
सञ्जय़ उवाच:
प्रत्युज्जगाम सौभद्रं राजपुत्रो वृहद्वलः ||
३१ ख
सञ्जय़ उवाच:
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जय़म् |
३२ क
सञ्जय़ उवाच:
राजभिः समरे सार्धमभिपेतुर्जिघांसवः ||
३२ ख
सञ्जय़ उवाच:
तस्मिन्नतिमहाभीमे सेनय़ोर्वै पराक्रमे |
३३ क
सञ्जय़ उवाच:
सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत ||
३३ ख
सञ्जय़ उवाच:
तान्यनीकान्यनीकेषु समसज्जन्त भारत |
३४ क
सञ्जय़ उवाच:
तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ||
३४ ख
सञ्जय़ उवाच:
ततस्तेषां प्रय़ततामन्योन्यमभिधावताम् |
३५ क
सञ्जय़ उवाच:
प्रादुरासीन्महाञ्शव्दो दिक्षु सर्वासु भारत ||
३५ ख
सञ्जय़ उवाच:
शङ्खदुन्दुभिघोषैश्च वारणानां च वृंहितैः |
३६ क
सञ्जय़ उवाच:
सिंहनादैश्च सैन्यानां दारुणः समपद्यत ||
३६ ख
सञ्जय़ उवाच:
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा |
३७ क
सञ्जय़ उवाच:
वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत ||
३७ ख
सञ्जय़ उवाच:
रजोमेघाश्च सञ्जज्ञुः शस्त्रविद्युद्भिरावृताः |
३८ क
सञ्जय़ उवाच:
धनुषां चैव निर्घोषो दारुणः समपद्यत ||
३८ ख
सञ्जय़ उवाच:
वाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः |
३९ क
सञ्जय़ उवाच:
रथगोषश्च सञ्जग्मुः सेनय़ोरुभय़ोरपि ||
३९ ख
सञ्जय़ उवाच:
प्रासशक्त्यृष्टिसङ्घैश्च वाणौघैश्च समाकुलम् |
४० क
सञ्जय़ उवाच:
निष्प्रकाशमिवाकाशं सेनय़ोः समपद्यत ||
४० ख
सञ्जय़ उवाच:
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे |
४१ क
सञ्जय़ उवाच:
कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातय़ः ||
४१ ख
सञ्जय़ उवाच:
तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह |
४२ क
सञ्जय़ उवाच:
भीष्महेतोर्नरव्याघ्र श्येनय़ोरामिषे यथा ||
४२ ख
सञ्जय़ उवाच:
तय़ोः समागमो घोरो वभूव युधि भारत |
४३ क
सञ्जय़ उवाच:
अन्योन्यस्य वधार्थाय़ जिगीषूणां रणाजिरे ||
४३ ख