जनमेजय़ उवाच:
प्रभासतीर्थं सम्प्राप्य वृष्णय़ः पाण्डवास्तथा |
१ क
जनमेजय़ उवाच:
किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन ||
१ ख
जनमेजय़ उवाच:
ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः |
२ क
जनमेजय़ उवाच:
वृष्णय़ः पाण्डवाश्चैव सुहृदश्च परस्परम् ||
२ ख
वैशम्पाय़न उवाच:
प्रभासतीर्थं सम्प्राप्य पुण्यं तीर्थं महोदधेः |
३ क
वैशम्पाय़न उवाच:
वृष्णय़ः पाण्डवान्वीरान्परिवार्योपतस्थिरे ||
३ ख
वैशम्पाय़न उवाच:
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः |
४ क
वैशम्पाय़न उवाच:
वनमाली हली रामो वभाषे पुष्करेक्षणम् ||
४ ख
वैशम्पाय़न उवाच:
न कृष्ण धर्मश्चरितो भवाय़; जन्तोरधर्मश्च पराभवाय़ |
५ क
वैशम्पाय़न उवाच:
युधिष्ठिरो यत्र जटी महात्मा; वनाश्रय़ः क्लिश्यति चीरवासाः ||
५ ख
वैशम्पाय़न उवाच:
दुर्योधनश्चापि महीं प्रशास्ति; न चास्य भूमिर्विवरं ददाति |
६ क
वैशम्पाय़न उवाच:
धर्मादधर्मश्चरितो गरीय़ा; नितीव मन्येत नरोऽल्पवुद्धिः ||
६ ख
वैशम्पाय़न उवाच:
दुर्योधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये |
७ क
वैशम्पाय़न उवाच:
किं न्वद्य कर्तव्यमिति प्रजाभिः; शङ्का मिथः सञ्जनिता नराणाम् ||
७ ख
वैशम्पाय़न उवाच:
अय़ं हि धर्मप्रभवो नरेन्द्रो; धर्मे रतः सत्यधृतिः प्रदाता |
८ क
वैशम्पाय़न उवाच:
चलेद्धि राज्याच्च सुखाच्च पार्थो; धर्मादपेतश्च कथं विवर्धेत् ||
८ ख
वैशम्पाय़न उवाच:
कथं नु भीष्मश्च कृपश्च विप्रो; द्रोणश्च राजा च कुलस्य वृद्धः |
९ क
वैशम्पाय़न उवाच:
प्रव्राज्य पार्थान्सुखमाप्नुवन्ति; धिक्पापवुद्धीन्भरतप्रधानान् ||
९ ख
वैशम्पाय़न उवाच:
किं नाम वक्ष्यत्यवनिप्रधानः; पितॄन्समागम्य परत्र पापः |
१० क
वैशम्पाय़न उवाच:
पुत्रेषु सम्यक्चरितं मय़ेति; पुत्रानपापानवरोप्य राज्यात् ||
१० ख
वैशम्पाय़न उवाच:
नासौ धिय़ा सम्प्रतिपश्यति स्म; किं नाम कृत्वाहमचक्षुरेवम् |
११ क
वैशम्पाय़न उवाच:
जातः पृथिव्यामिति पार्थिवेषु; प्रव्राज्य कौन्तेय़मथापि राज्यात् ||
११ ख
वैशम्पाय़न उवाच:
नूनं समृद्धान्पितृलोकभूमौ; चामीकराभान्क्षितिजान्प्रफुल्लान् |
१२ क
वैशम्पाय़न उवाच:
विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं वत पश्यति स्म ||
१२ ख
वैशम्पाय़न उवाच:
व्यूढोत्तरांसान्पृथुलोहिताक्षा; न्नेमान्स्म पृच्छन्स शृणोति नूनम् |
१३ क
वैशम्पाय़न उवाच:
प्रस्थापय़द्यत्स वनं ह्यशङ्को; युधिष्ठिरं सानुजमात्तशस्त्रम् ||
१३ ख
वैशम्पाय़न उवाच:
योऽय़ं परेषां पृतनां समृद्धां; निराय़ुधो दीर्घभुजो निहन्यात् |
१४ क
वैशम्पाय़न उवाच:
श्रुत्वैव शव्दं हि वृकोदरस्य; मुञ्चन्ति सैन्यानि शकृत्समूत्रम् ||
१४ ख
वैशम्पाय़न उवाच:
स क्षुत्पिपासाध्वकृशस्तरस्वी; समेत्य नानाय़ुधवाणपाणिः |
१५ क
वैशम्पाय़न उवाच:
वने स्मरन्वासमिमं सुघोरं; शेषं न कुर्यादिति निश्चितं मे ||
१५ ख
वैशम्पाय़न उवाच:
न ह्यस्य वीर्येण वलेन कश्चि; त्समः पृथिव्यां भविता नरेषु |
१६ क
वैशम्पाय़न उवाच:
शीतोष्णवातातपकर्शिताङ्गो; न शेषमाजावसुहृत्सु कुर्यात् ||
१६ ख
वैशम्पाय़न उवाच:
प्राच्यां नृपानेकरथेन जित्वा; वृकोदरः सानुचरान्रणेषु |
१७ क
वैशम्पाय़न उवाच:
स्वस्त्यागमद्योऽतिरथस्तरस्वी; सोऽय़ं वने क्लिश्यति चीरवासाः ||
१७ ख
वैशम्पाय़न उवाच:
यो दन्तकूरे व्यजय़न्नृदेवा; न्समागतान्दाक्षिणात्यान्महीपान् |
१८ क
वैशम्पाय़न उवाच:
तं पश्यतेमं सहदेवमद्य; तपस्विनं तापसवेषरूपम् ||
१८ ख
वैशम्पाय़न उवाच:
यः पार्थिवानेकरथेन वीरो; दिशं प्रतीचीं प्रति युद्धशौण्डः |
१९ क
वैशम्पाय़न उवाच:
सोऽय़ं वने मूलफलेन जीव; ञ्जटी चरत्यद्य मलाचिताङ्गः ||
१९ ख
वैशम्पाय़न उवाच:
सत्रे समृद्धेऽति रथस्य राज्ञो; वेदीतलादुत्पतिता सुता या |
२० क
वैशम्पाय़न उवाच:
सेय़ं वने वासमिमं सुदुःखं; कथं सहत्यद्य सती सुखार्हा ||
२० ख
वैशम्पाय़न उवाच:
त्रिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्यथ वाश्विनोश्च |
२१ क
वैशम्पाय़न उवाच:
एषां सुराणां तनय़ाः कथं नु; वने चरन्त्यल्पसुखाः सुखार्हाः ||
२१ ख
वैशम्पाय़न उवाच:
जिते हि धर्मस्य सुते सभार्ये; सभ्रातृके सानुचरे निरस्ते |
२२ क
वैशम्पाय़न उवाच:
दुर्योधने चापि विवर्धमाने; कथं न सीदत्यवनिः सशैला ||
२२ ख