भीष्म उवाच:
छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः |
५१ क
भीष्म उवाच:
सर्वेषामेव सोऽस्माकं वृत्तिभङ्गेषु वर्तते ||
५१ ख
भीष्म उवाच:
इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते |
५२ क
भीष्म उवाच:
श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः ||
५२ ख
भीष्म उवाच:
वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः |
५३ क
भीष्म उवाच:
धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः |
५३ ख
भीष्म उवाच:
कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ्श्रमम् ||
५३ ग
भीष्म उवाच:
मांसापनय़नं ज्ञात्वा व्याघ्रस्तेषां तु तद्वचः |
५४ क
भीष्म उवाच:
आज्ञापय़ामास तदा गोमाय़ुर्वध्यतामिति ||
५४ ख
भीष्म उवाच:
शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः |
५५ क
भीष्म उवाच:
मृगराजं हितैर्वाक्यैः सम्वोधय़ितुमागमत् ||
५५ ख
भीष्म उवाच:
पुत्र नैतत्त्वय़ा ग्राह्यं कपटारम्भसंवृतम् |
५६ क
भीष्म उवाच:
कर्मसङ्घर्षजैर्दोषैर्दुष्यत्यशुचिभिः शुचिः ||
५६ ख
भीष्म उवाच:
नोच्छ्रितं सहते कश्चित्प्रक्रिय़ा वैरकारिका |
५७ क
भीष्म उवाच:
शुचेरपि हि युक्तस्य दोष एव निपात्यते ||
५७ ख
भीष्म उवाच:
लुव्धानां शुचय़ो द्वेष्याः कातराणां तरस्विनः |
५८ क
भीष्म उवाच:
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः |
५८ ख
भीष्म उवाच:
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः ||
५८ ग
भीष्म उवाच:
वहवः पण्डिता लुव्धाः सर्वे माय़ोपजीविनः |
५९ क
भीष्म उवाच:
कुर्युर्दोषमदोषस्य वृहस्पतिमतेरपि ||
५९ ख
भीष्म उवाच:
शून्यात्तच्च गृहान्मांसं यदद्यापहृतं तव |
६० क
भीष्म उवाच:
नेच्छते दीय़मानं च साधु तावद्विमृश्यताम् ||
६० ख
भीष्म उवाच:
असत्याः सत्यसङ्काशाः सत्याश्चासत्यदर्शिनः |
६१ क
भीष्म उवाच:
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ||
६१ ख
भीष्म उवाच:
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव |
६२ क
भीष्म उवाच:
न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः ||
६२ ख
भीष्म उवाच:
तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् |
६३ क
भीष्म उवाच:
परीक्ष्य ज्ञापय़न्ह्यर्थान्न पश्चात्परितप्यते ||
६३ ख
भीष्म उवाच:
न दुष्करमिदं पुत्र यत्प्रभुर्घातय़ेत्परम् |
६४ क
भीष्म उवाच:
श्लाघनीय़ा च वर्या च लोके प्रभवतां क्षमा ||
६४ ख
भीष्म उवाच:
स्थापितोऽय़ं पुत्र त्वय़ा सामन्तेष्वधि विश्रुतः |
६५ क
भीष्म उवाच:
दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत् ||
६५ ख
भीष्म उवाच:
दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम् |
६६ क
भीष्म उवाच:
स्वय़ं सन्दूषितामात्यः क्षिप्रमेव विनश्यति ||
६६ ख
भीष्म उवाच:
तस्मादथारिसङ्घाताद्गोमाय़ोः कश्चिदागतः |
६७ क
भीष्म उवाच:
धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम् ||
६७ ख
भीष्म उवाच:
ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः |
६८ क
भीष्म उवाच:
परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः ||
६८ ख
भीष्म उवाच:
अनुज्ञाप्य मृगेन्द्रं तु गोमाय़ुर्नीतिशास्त्रवित् |
६९ क
भीष्म उवाच:
तेनामर्षेण सन्तप्तः प्राय़मासितुमैच्छत ||
६९ ख
भीष्म उवाच:
शार्दूलस्तत्र गोमाय़ुं स्नेहात्प्रस्रुतलोचनः |
७० क
भीष्म उवाच:
अवारय़त्स धर्मिष्ठं पूजय़ा प्रतिपूजय़न् ||
७० ख
भीष्म उवाच:
तं स गोमाय़ुरालोक्य स्नेहादागतसम्भ्रमम् |
७१ क
भीष्म उवाच:
वभाषे प्रणतो वाक्यं वाष्पगद्गदय़ा गिरा ||
७१ ख
भीष्म उवाच:
पूजितोऽहं त्वय़ा पूर्वं पश्चाच्चैव विमानितः |
७२ क
भीष्म उवाच:
परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वय़ि ||
७२ ख
भीष्म उवाच:
स्वसन्तुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः |
७३ क
भीष्म उवाच:
स्वय़ं चोपहृता भृत्या ये चाप्युपहृताः परैः ||
७३ ख
भीष्म उवाच:
परिक्षीणाश्च लुव्धाश्च क्रूराः काराभितापिताः |
७४ क
भीष्म उवाच:
हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः ||
७४ ख
भीष्म उवाच:
सन्तापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः |
७५ क
भीष्म उवाच:
अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः ||
७५ ख
भीष्म उवाच:
अवमानेन युक्तस्य स्थापितस्य च मे पुनः |
७६ क
भीष्म उवाच:
कथं यास्यसि विश्वासमहमेष्यामि वा पुनः ||
७६ ख
भीष्म उवाच:
समर्थ इति सङ्गृह्य स्थापय़ित्वा परीक्ष्य च |
७७ क
भीष्म उवाच:
कृतं च समय़ं भित्त्वा त्वय़ाहमवमानितः ||
७७ ख
भीष्म उवाच:
प्रथमं यः समाख्यातः शीलवानिति संसदि |
७८ क
भीष्म उवाच:
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता ||
७८ ख
भीष्म उवाच:
एवं चावमतस्येह विश्वासं किं प्रय़ास्यसि |
७९ क
भीष्म उवाच:
त्वय़ि चैव ह्यविश्वासे ममोद्वेगो भविष्यति ||
७९ ख
भीष्म उवाच:
शङ्कितस्त्वमहं भीतः परे छिद्रानुदर्शिनः |
८० क
भीष्म उवाच:
अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्वहुच्छलम् ||
८० ख
भीष्म उवाच:
दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते |
८१ क
भीष्म उवाच:
भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते ||
८१ ख
भीष्म उवाच:
कश्चिदेव हि भीतस्तु दृश्यते न परात्मनोः |
८२ क
भीष्म उवाच:
कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास्तु दुर्लभाः ||
८२ ख
भीष्म उवाच:
सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम् |
८३ क
भीष्म उवाच:
समर्थो वाप्यशक्तो वा शतेष्वेकोऽधिगम्यते ||
८३ ख
भीष्म उवाच:
अकस्मात्प्रक्रिय़ा नॄणामकस्माच्चापकर्षणम् |
८४ क
भीष्म उवाच:
शुभाशुभे महत्त्वं च प्रकर्तुं वुद्धिलाघवात् ||
८४ ख
भीष्म उवाच:
एवं वहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत् |
८५ क
भीष्म उवाच:
प्रसादय़ित्वा राजानं गोमाय़ुर्वनमभ्यगात् ||
८५ ख
भीष्म उवाच:
अगृह्यानुनय़ं तस्य मृगेन्द्रस्य स वुद्धिमान् |
८६ क
भीष्म उवाच:
गोमाय़ुः प्राय़मासीनस्त्यक्त्वा देहं दिवं यय़ौ ||
८६ ख