सञ्जय़ उवाच:
चूर्णीकृता विशीर्यन्ती पपात वसुधातले ||
४९ ख
सञ्जय़ उवाच:
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः |
५० क
सञ्जय़ उवाच:
द्रोणाय़ शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ||
५० ख
सञ्जय़ उवाच:
तां द्रोणो नवभिर्वाणैश्चिच्छेद युधि भारत |
५१ क
सञ्जय़ उवाच:
पार्षतं च महेष्वासं पीडय़ामास संय़ुगे ||
५१ ख
सञ्जय़ उवाच:
एवमेतन्महद्युद्धं द्रोणपार्षतय़ोरभूत् |
५२ क
सञ्जय़ उवाच:
भीष्मं प्रति महाराज घोररूपं भय़ानकम् ||
५२ ख
सञ्जय़ उवाच:
अर्जुनः प्राप्य गाङ्गेय़ं पीडय़न्निशितैः शरैः |
५३ क
सञ्जय़ उवाच:
अभ्यद्रवत संय़त्तं वने मत्तमिव द्विपम् ||
५३ ख
सञ्जय़ उवाच:
प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् |
५४ क
सञ्जय़ उवाच:
त्रिधा भिन्नेन नागेन मदान्धेन महावलः ||
५४ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा महेन्द्रगजसंनिभम् |
५५ क
सञ्जय़ उवाच:
परं यत्नं समास्थाय़ वीभत्सुः प्रत्यपद्यत ||
५५ ख
सञ्जय़ उवाच:
ततो गजगतो राजा भगदत्तः प्रतापवान् |
५६ क
सञ्जय़ उवाच:
अर्जुनं शरवर्षेण वारय़ामास संय़ुगे ||
५६ ख
सञ्जय़ उवाच:
अर्जुनस्तु रणे नागमाय़ान्तं रजतोपमम् |
५७ क
सञ्जय़ उवाच:
विमलैराय़सैस्तीक्ष्णैरविध्यत महारणे ||
५७ ख
सञ्जय़ उवाच:
शिखण्डिनं च कौन्तेय़ो याहि याहीत्यचोदय़त् |
५८ क
सञ्जय़ उवाच:
भीष्मं प्रति महाराज जह्येनमिति चाव्रवीत् ||
५८ ख
सञ्जय़ उवाच:
प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज |
५९ क
सञ्जय़ उवाच:
प्रय़यौ त्वरितो राजन्द्रुपदस्य रथं प्रति ||
५९ ख
सञ्जय़ उवाच:
ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् |
६० क
सञ्जय़ उवाच:
शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ||
६० ख
सञ्जय़ उवाच:
ततस्ते तावकाः शूराः पाण्डवं रभसं रणे |
६१ क
सञ्जय़ उवाच:
सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ||
६१ ख
सञ्जय़ उवाच:
नानाविधान्यनीकानि पुत्राणां ते जनाधिप |
६२ क
सञ्जय़ उवाच:
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ||
६२ ख
सञ्जय़ उवाच:
शिखण्डी तु समासाद्य भरतानां पितामहम् |
६३ क
सञ्जय़ उवाच:
इषुभिस्तूर्णमव्यग्रो वहुभिः स समाचिनोत् ||
६३ ख
सञ्जय़ उवाच:
सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् |
६४ क
सञ्जय़ उवाच:
न्यवारय़त सैन्यं च पाण्डवानां महारथः ||
६४ ख
सञ्जय़ उवाच:
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः |
६५ क
सञ्जय़ उवाच:
शरसङ्घमहाज्वालः क्षत्रिय़ान्समरेऽदहत् ||
६५ ख
सञ्जय़ उवाच:
यथा हि सुमहानग्निः कक्षे चरति सानिलः |
६६ क
सञ्जय़ उवाच:
तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरय़न् ||
६६ ख
सञ्जय़ उवाच:
सुवर्णपुङ्खैरिषुभिः शितैः संनतपर्वभिः |
६७ क
सञ्जय़ उवाच:
नादय़न्स दिशो भीष्मः प्रदिशश्च महाय़शाः ||
६७ ख
सञ्जय़ उवाच:
पातय़न्रथिनो राजन्गजांश्च सह सादिभिः |
६८ क
सञ्जय़ उवाच:
मुण्डतालवनानीव चकार स रथव्रजान् ||
६८ ख
सञ्जय़ उवाच:
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संय़ुगे |
६९ क
सञ्जय़ उवाच:
चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः ||
६९ ख
सञ्जय़ उवाच:
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः |
७० क
सञ्जय़ उवाच:
निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ||
७० ख
सञ्जय़ उवाच:
अमोघा ह्यपतन्वाणाः पितुस्ते मनुजेश्वर |
७१ क
सञ्जय़ उवाच:
नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः ||
७१ ख
सञ्जय़ उवाच:
निर्मनुष्यान्रथान्राजन्सुय़ुक्ताञ्जवनैर्हय़ैः |
७२ क
सञ्जय़ उवाच:
वाताय़मानान्पश्याम ह्रिय़माणान्विशां पते ||
७२ ख
सञ्जय़ उवाच:
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश |
७३ क
सञ्जय़ उवाच:
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ||
७३ ख
सञ्जय़ उवाच:
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः |
७४ क
सञ्जय़ उवाच:
सङ्ग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः |
७४ ख
सञ्जय़ उवाच:
जग्मुस्ते परलोकाय़ व्यादितास्यमिवान्तकम् ||
७४ ग
सञ्जय़ उवाच:
न तत्रासीन्महाराज सोमकानां महारथः |
७५ क
सञ्जय़ उवाच:
यः सम्प्राप्य रणे भीष्मं जीविते स्म मनो दधे ||
७५ ख
सञ्जय़ उवाच:
तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति |
७६ क
सञ्जय़ उवाच:
नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ||
७६ ख
सञ्जय़ उवाच:
न कश्चिदेनं समरे प्रत्युद्याति महारथः |
७७ क
सञ्जय़ उवाच:
ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् |
७७ ख
सञ्जय़ उवाच:
शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ||
७७ ग
सञ्जय़ उवाच:
शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ |
७८ क
सञ्जय़ उवाच:
दशभिर्दशभिर्वाणैराजघान महाहवे ||
७८ ख
सञ्जय़ उवाच:
शिखण्डिनं तु गाङ्गेय़ः क्रोधदीप्तेन चक्षुषा |
७९ क
सञ्जय़ उवाच:
अवैक्षत कटाक्षेण निर्दहन्निव भारत ||
७९ ख
सञ्जय़ उवाच:
स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः |
८० क
सञ्जय़ उवाच:
न जघान रणे भीष्मः स च तं नाववुद्धवान् ||
८० ख
सञ्जय़ उवाच:
अर्जुनस्तु महाराज शिखण्डिनमभाषत |
८१ क
सञ्जय़ उवाच:
अभित्वरस्व त्वरितो जहि चैनं पितामहम् ||
८१ ख
सञ्जय़ उवाच:
किं ते विवक्षय़ा वीर जहि भीष्मं महारथम् |
८२ क
सञ्जय़ उवाच:
न ह्यन्यमनुपश्यामि कञ्चिद्यौधिष्ठिरे वले ||
८२ ख
सञ्जय़ उवाच:
यः शक्तः समरे भीष्मं योधय़ेत पितामहम् |
८३ क
सञ्जय़ उवाच:
ऋते त्वां पुरुषव्याघ्र सत्यमेतद्व्रवीमि ते ||
८३ ख
सञ्जय़ उवाच:
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ |
८४ क
सञ्जय़ उवाच:
शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ||
८४ ख
सञ्जय़ उवाच:
अचिन्तय़ित्वा तान्वाणान्पिता देवव्रतस्तव |
८५ क
सञ्जय़ उवाच:
अर्जुनं समरे क्रुद्धं वारय़ामास साय़कैः ||
८५ ख
सञ्जय़ उवाच:
तथैव च चमूं सर्वां पाण्डवानां महारथः |
८६ क
सञ्जय़ उवाच:
अप्रैषीत्समरे तीक्ष्णैः परलोकाय़ मारिष ||
८६ ख
सञ्जय़ उवाच:
तथैव पाण्डवा राजन्सैन्येन महता वृताः |
८७ क
सञ्जय़ उवाच:
भीष्मं प्रच्छादय़ामासुर्मेघा इव दिवाकरम् ||
८७ ख
सञ्जय़ उवाच:
स समन्तात्परिवृतो भारतो भरतर्षभ |
८८ क
सञ्जय़ उवाच:
निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् ||
८८ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् |
८९ क
सञ्जय़ उवाच:
अय़ोधय़त यत्पार्थं जुगोप च यतव्रतम् ||
८९ ख
सञ्जय़ उवाच:
कर्मणा तेन समरे तव पुत्रस्य धन्विनः |
९० क
सञ्जय़ उवाच:
दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ||
९० ख
सञ्जय़ उवाच:
यदेकः समरे पार्थान्सानुगान्समय़ोधय़त् |
९१ क
सञ्जय़ उवाच:
न चैनं पाण्डवा युद्धे वाय़रामासुरुल्वणम् ||
९१ ख
सञ्जय़ उवाच:
दुःशासनेन समरे रथिनो विरथीकृताः |
९२ क
सञ्जय़ उवाच:
सादिनश्च महाराज दन्तिनश्च महावलाः ||
९२ ख
सञ्जय़ उवाच:
विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले |
९३ क
सञ्जय़ उवाच:
शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ||
९३ ख
सञ्जय़ उवाच:
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्वणः |
९४ क
सञ्जय़ उवाच:
तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् ||
९४ ख
सञ्जय़ उवाच:
तं भारतमहामात्रं पाण्डवानां महारथः |
९५ क
सञ्जय़ उवाच:
जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथञ्चन |
९५ ख
सञ्जय़ उवाच:
ऋते महेन्द्रतनय़ं श्वेताश्वं कृष्णसारथिम् ||
९५ ग
सञ्जय़ उवाच:
स हि तं समरे राजन्विजित्य विजय़ोऽर्जुनः |
९६ क
सञ्जय़ उवाच:
भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ||
९६ ख
सञ्जय़ उवाच:
विजितस्तव पुत्रोऽपि भीष्मवाहुव्यपाश्रय़ः |
९७ क
सञ्जय़ उवाच:
पुनः पुनः समाश्वस्य प्राय़ुध्यत रणोत्कटः |
९७ ख