वृहस्पतिरु उवाच:
चोरय़ित्वा तु दुर्वुद्धिर्मधु दंशः प्रजाय़ते ||
९६ ग
वृहस्पतिरु उवाच:
अय़ो हृत्वा तु दुर्वुद्धिर्वाय़सो जाय़ते नरः |
९७ क
वृहस्पतिरु उवाच:
पाय़सं चोरय़ित्वा तु तित्तिरित्वमवाप्नुते ||
९७ ख
वृहस्पतिरु उवाच:
हृत्वा पैष्टमपूपं च कुम्भोलूकः प्रजाय़ते |
९८ क
वृहस्पतिरु उवाच:
फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः ||
९८ ख
वृहस्पतिरु उवाच:
कांस्यं हृत्वा तु दुर्वुद्धिर्हारीतो जाय़ते नरः |
९९ क
वृहस्पतिरु उवाच:
राजतं भाजनं हृत्वा कपोतः सम्प्रजाय़ते ||
९९ ख
वृहस्पतिरु उवाच:
हृत्वा तु काञ्चनं भाण्डं कृमिय़ोनौ प्रजाय़ते |
१०० क
वृहस्पतिरु उवाच:
क्रौञ्चः कार्पासिकं हृत्वा मृतो जाय़ति मानवः ||
१०० ख
वृहस्पतिरु उवाच:
चोरय़ित्वा नरः पट्टं त्वाविकं वापि भारत |
१०१ क
वृहस्पतिरु उवाच:
क्षौमं च वस्त्रमादाय़ शशो जन्तुः प्रजाय़ते ||
१०१ ख
वृहस्पतिरु उवाच:
वर्णान्हृत्वा तु पुरुषो मृतो जाय़ति वर्हिणः |
१०२ क
वृहस्पतिरु उवाच:
हृत्वा रक्तानि वस्त्राणि जाय़ते जीवजीवकः ||
१०२ ख
वृहस्पतिरु उवाच:
वर्णकादींस्तथा गन्धांश्चोरय़ित्वा तु मानवः |
१०३ क
वृहस्पतिरु उवाच:
छुच्छुन्दरित्वमाप्नोति राजँल्लोभपराय़णः ||
१०३ ख
वृहस्पतिरु उवाच:
विश्वासेन तु निक्षिप्तं यो निह्नवति मानवः |
१०४ क
वृहस्पतिरु उवाच:
स गतासुर्नरस्तादृङ्मत्स्ययोनौ प्रजाय़ते ||
१०४ ख
वृहस्पतिरु उवाच:
मत्स्ययोनिमनुप्राप्य मृतो जाय़ति मानुषः |
१०५ क
वृहस्पतिरु उवाच:
मानुषत्वमनुप्राप्य क्षीणाय़ुरुपपद्यते ||
१०५ ख
वृहस्पतिरु उवाच:
पापानि तु नरः कृत्वा तिर्यग्जाय़ति भारत |
१०६ क
वृहस्पतिरु उवाच:
न चात्मनः प्रमाणं ते धर्मं जानन्ति किञ्चन ||
१०६ ख
वृहस्पतिरु उवाच:
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा |
१०७ क
वृहस्पतिरु उवाच:
सुखदुःखसमाय़ुक्ता व्याधितास्ते भवन्त्युत ||
१०७ ख
वृहस्पतिरु उवाच:
असंवासाः प्रजाय़न्ते म्लेच्छाश्चापि न संशय़ः |
१०८ क
वृहस्पतिरु उवाच:
नराः पापसमाचारा लोभमोहसमन्विताः ||
१०८ ख
वृहस्पतिरु उवाच:
वर्जय़न्ति च पापानि जन्मप्रभृति ये नराः |
१०९ क
वृहस्पतिरु उवाच:
अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत ||
१०९ ख
वृहस्पतिरु उवाच:
स्त्रिय़ोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुय़ुः |
११० क
वृहस्पतिरु उवाच:
एतेषामेव जन्तूनां पत्नीत्वमुपय़ान्ति ताः ||
११० ख
वृहस्पतिरु उवाच:
परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः |
१११ क
वृहस्पतिरु उवाच:
एतद्वै लेशमात्रेण कथितं ते मय़ानघ |
१११ ख
वृहस्पतिरु उवाच:
अपरस्मिन्कथाय़ोगे भूय़ः श्रोष्यसि भारत ||
१११ ग
वृहस्पतिरु उवाच:
एतन्मय़ा महाराज व्रह्मणो वदतः पुरा |
११२ क
वृहस्पतिरु उवाच:
सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम् ||
११२ ख
वृहस्पतिरु उवाच:
मय़ापि तव कार्त्स्न्येन यथावदनुवर्णितम् |
११३ क
वृहस्पतिरु उवाच:
एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा ||
११३ ख