chevron_left भीष्म पर्व अध्याय ११२
सञ्जय़ उवाच:
अर्जुनं च रणे राजन्योधय़न्स व्यराजत ||
९७ ग
सञ्जय़ उवाच:
शिखण्डी तु रणे राजन्विव्याधैव पितामहम् |
९८ क
सञ्जय़ उवाच:
शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ||
९८ ख
सञ्जय़ उवाच:
न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर |
९९ क
सञ्जय़ उवाच:
स्मय़मानश्च गाङ्गेय़स्तान्वाणाञ्जगृहे तदा ||
९९ ख
सञ्जय़ उवाच:
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति |
१०० क
सञ्जय़ उवाच:
तथा जग्राह गाङ्गेय़ः शरधाराः शिखण्डिनः ||
१०० ख
सञ्जय़ उवाच:
तं क्षत्रिय़ा महाराज ददृशुर्घोरमाहवे |
१०१ क
सञ्जय़ उवाच:
भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् ||
१०१ ख
सञ्जय़ उवाच:
ततोऽव्रवीत्तव सुतः सर्वसैन्यानि मारिष |
१०२ क
सञ्जय़ उवाच:
अभिद्रवत सङ्ग्रामे फल्गुनं सर्वतो रथैः ||
१०२ ख
सञ्जय़ उवाच:
भीष्मो वः समरे सर्वान्पलय़िष्यति धर्मवित् |
१०३ क
सञ्जय़ उवाच:
ते भय़ं सुमहत्त्वक्त्वा पाण्डवान्प्रतिय़ुध्यत ||
१०३ ख
सञ्जय़ उवाच:
एष तालेन दीप्तेन भीष्मस्तिष्ठति पालय़न् |
१०४ क
सञ्जय़ उवाच:
सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च ||
१०४ ख
सञ्जय़ उवाच:
त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् |
१०५ क
सञ्जय़ उवाच:
किमु पार्था महात्मानं मर्त्यभूतास्तथावलाः |
१०५ ख
सञ्जय़ उवाच:
तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संय़ुगे ||
१०५ ग
सञ्जय़ उवाच:
अहमद्य रणे यत्तो योधय़िष्यामि फल्गुनम् |
१०६ क
सञ्जय़ उवाच:
सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः ||
१०६ ख
सञ्जय़ उवाच:
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः |
१०७ क
सञ्जय़ उवाच:
अर्जुनं प्रति संय़त्ता वलवन्तो महारथाः ||
१०७ ख
सञ्जय़ उवाच:
ते विदेहाः कलिङ्गाश्च दाशेरकगणैः सह |
१०८ क
सञ्जय़ उवाच:
अभिपेतुर्निषादाश्च सौवीराश्च महारणे ||
१०८ ख
सञ्जय़ उवाच:
वाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाः |
१०९ क
सञ्जय़ उवाच:
अभीषाहाः शूरसेनाः शिवय़ोऽथ वसातय़ः ||
१०९ ख
सञ्जय़ उवाच:
शाल्वाश्रय़ास्त्रिगर्ताश्च अम्वष्ठाः केकय़ैः सह |
११० क
सञ्जय़ उवाच:
अभिपेतू रणे पार्थं पतङ्गा इव पावकम् ||
११० ख
सञ्जय़ उवाच:
स तान्सर्वान्सहानीकान्महाराज महारथान् |
१११ क
सञ्जय़ उवाच:
दिव्यान्यस्त्राणि सञ्चिन्त्य प्रसन्धाय़ धनञ्जय़ः ||
१११ ख
सञ्जय़ उवाच:
स तैरस्त्रैर्महावेगैर्ददाहाशु महावलः |
११२ क
सञ्जय़ उवाच:
शरप्रतापैर्वीभत्सुः पतङ्गानिव पावकः ||
११२ ख
सञ्जय़ उवाच:
तस्य वाणसहस्राणि सृजतो दृढधन्विनः |
११३ क
सञ्जय़ उवाच:
दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत ||
११३ ख
सञ्जय़ उवाच:
ते शरार्ता महाराज विप्रकीर्णरथध्वजाः |
११४ क
सञ्जय़ उवाच:
नाव्यवर्तन्त राजानः सहिता वानरध्वजम् ||
११४ ख
सञ्जय़ उवाच:
सध्वजा रथिनः पेतुर्हय़ारोहा हय़ैः सह |
११५ क
सञ्जय़ उवाच:
गजाः सह गजारोहैः किरीटिशरताडिताः ||
११५ ख
सञ्जय़ उवाच:
ततोऽर्जुनभुजोत्सृष्टैरावृतासीद्वसुन्धरा |
११६ क
सञ्जय़ उवाच:
विद्रवद्भिश्च वहुधा वलै राज्ञां समन्ततः ||
११६ ख
सञ्जय़ उवाच:
अथ पार्थो महावाहुर्द्रावय़ित्वा वरूथिनीम् |
११७ क
सञ्जय़ उवाच:
दुःशासनाय़ समरे प्रेषय़ामास साय़कान् ||
११७ ख
सञ्जय़ उवाच:
ते तु भित्त्वा तव सुतं दुःशासनमय़ोमुखाः |
११८ क
सञ्जय़ उवाच:
धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः |
११८ ख
सञ्जय़ उवाच:
हय़ांश्चास्य ततो जघ्ने सारथिं च न्यपातय़त् ||
११८ ग
सञ्जय़ उवाच:
विविंशतिं च विंशत्या विरथं कृतवान्प्रभो |
११९ क
सञ्जय़ उवाच:
आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ||
११९ ख
सञ्जय़ उवाच:
कृपं शल्यं विकर्णं च विद्ध्वा वहुभिराय़सैः |
१२० क
सञ्जय़ उवाच:
चकार विरथांश्चैव कौन्तेय़ः श्वेतवाहनः ||
१२० ख
सञ्जय़ उवाच:
एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष |
१२१ क
सञ्जय़ उवाच:
दुःशासनो विकर्णश्च तथैव च विविंशतिः |
१२१ ख
सञ्जय़ उवाच:
सम्प्राद्रवन्त समरे निर्जिताः सव्यसाचिना ||
१२१ ग
सञ्जय़ उवाच:
पूर्वाह्णे तु तथा राजन्पराजित्य महारथान् |
१२२ क
सञ्जय़ उवाच:
प्रजज्वाल रणे पार्थो विधूम इव पावकः ||
१२२ ख
सञ्जय़ उवाच:
तथैव शरवर्षेण भास्करो रश्मिवानिव |
१२३ क
सञ्जय़ उवाच:
अन्यानपि महाराज पातय़ामास पार्थिवान् ||
१२३ ख
सञ्जय़ उवाच:
पराङ्मुखीकृत्य तदा शरवर्षैर्महारथान् |
१२४ क
सञ्जय़ उवाच:
प्रावर्तय़त सङ्ग्रामे शोणितोदां महानदीम् |
१२४ ख
सञ्जय़ उवाच:
मध्येन कुरुसैन्यानां पाण्डवानां च भारत ||
१२४ ग
सञ्जय़ उवाच:
गजाश्च रथसङ्घाश्च वहुधा रथिभिर्हताः |
१२५ क
सञ्जय़ उवाच:
रथाश्च निहता नागैर्नागा हय़पदातिभिः ||
१२५ ख
सञ्जय़ उवाच:
अन्तरा छिध्यमानानि शरीराणि शिरांसि च |
१२६ क
सञ्जय़ उवाच:
निपेतुर्दिक्षु सर्वासु गजाश्वरथय़ोधिनाम् ||
१२६ ख
सञ्जय़ उवाच:
छन्नमाय़ोधनं रेजे कुण्डलाङ्गदधारिभिः |
१२७ क
सञ्जय़ उवाच:
पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ||
१२७ ख
सञ्जय़ उवाच:
रथनेमिनिकृत्ताश्च गजैश्चैवावपोथिताः |
१२८ क
सञ्जय़ उवाच:
पादाताश्चाप्यदृश्यन्त साश्वाः सहय़सादिनः ||
१२८ ख
सञ्जय़ उवाच:
गजाश्वरथसङ्घाश्च परिपेतुः समन्ततः |
१२९ क
सञ्जय़ उवाच:
विशीर्णाश्च रथा भूमौ भग्नचक्रय़ुगध्वजाः ||
१२९ ख
सञ्जय़ उवाच:
तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् |
१३० क
सञ्जय़ उवाच:
छन्नमाय़ोधनं रेजे रक्ताभ्रमिव शारदम् ||
१३० ख
सञ्जय़ उवाच:
श्वानः काकाश्च गृध्राश्च वृका गोमाय़ुभिः सह |
१३१ क
सञ्जय़ उवाच:
प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः ||
१३१ ख
सञ्जय़ उवाच:
ववुर्वहुविधाश्चैव दिक्षु सर्वासु मारुताः |
१३२ क
सञ्जय़ उवाच:
दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च ||
१३२ ख
सञ्जय़ उवाच:
काञ्चनानि च दामानि पताकाश्च महाधनाः |
१३३ क
सञ्जय़ उवाच:
धूमाय़माना दृश्यन्ते सहसा मारुतेरिताः ||
१३३ ख
सञ्जय़ उवाच:
श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः |
१३४ क
सञ्जय़ उवाच:
विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः |
१३४ ख
सञ्जय़ उवाच:
सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः ||
१३४ ग
सञ्जय़ उवाच:
क्षत्रिय़ाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः |
१३५ क
सञ्जय़ उवाच:
समन्ततो व्यदृश्यन्त पतिता धरणीतले ||
१३५ ख
सञ्जय़ उवाच:
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरय़न् |
१३६ क
सञ्जय़ उवाच:
अभ्यधावत कौन्तेय़ं मिषतां सर्वधन्विनाम् ||
१३६ ख
सञ्जय़ उवाच:
तं शिखण्डी रणे यत्तमभ्यधावत दंशितः |
१३७ क
सञ्जय़ उवाच:
सञ्जहार ततो भीष्मस्तदस्त्रं पावकोपमम् ||
१३७ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु कौन्तेय़ः श्वेतवाहनः |
१३८ क
सञ्जय़ उवाच:
निजघ्ने तावकं सैन्यं मोहय़ित्वा पितामहम् ||
१३८ ख