युधिष्ठिर उवाच:
पितामह महावाहो सर्वशास्त्रविशारद |
१ क
युधिष्ठिर उवाच:
श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम् ||
१ ख
युधिष्ठिर उवाच:
केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि |
२ क
युधिष्ठिर उवाच:
प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप ||
२ ख
युधिष्ठिर उवाच:
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः |
३ क
युधिष्ठिर उवाच:
प्रय़ान्त्यमुं लोकमितः को वै ताननुगच्छति ||
३ ख
भीष्म उवाच:
असावाय़ाति भगवान्वृहस्पतिरुदारधीः |
४ क
भीष्म उवाच:
पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् ||
४ ख
भीष्म उवाच:
नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै |
५ क
भीष्म उवाच:
वक्ता वृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् ||
५ ख
वैशम्पाय़न उवाच:
तय़ोः संवदतोरेवं पार्थगाङ्गेय़योस्तदा |
६ क
वैशम्पाय़न उवाच:
आजगाम विशुद्धात्मा भगवान्स वृहस्पतिः ||
६ ख
वैशम्पाय़न उवाच:
ततो राजा समुत्थाय़ धृतराष्ट्रपुरोगमः |
७ क
वैशम्पाय़न उवाच:
पूजामनुपमां चक्रे सर्वे ते च सभासदः ||
७ ख
वैशम्पाय़न उवाच:
ततो धर्मसुतो राजा भगवन्तं वृहस्पतिम् |
८ क
वैशम्पाय़न उवाच:
उपगम्य यथान्याय़ं प्रश्नं पप्रच्छ सुव्रतः ||
८ ख
युधिष्ठिर उवाच:
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद |
९ क
युधिष्ठिर उवाच:
मर्त्यस्य कः सहाय़ो वै पिता माता सुतो गुरुः ||
९ ख
युधिष्ठिर उवाच:
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः |
१० क
युधिष्ठिर उवाच:
गच्छन्त्यमुत्रलोकं वै क एनमनुगच्छति ||
१० ख
वृहस्पतिरु उवाच:
एकः प्रसूतो राजेन्द्र जन्तुरेको विनश्यति |
११ क
वृहस्पतिरु उवाच:
एकस्तरति दुर्गाणि गच्छत्येकश्च दुर्गतिम् ||
११ ख
वृहस्पतिरु उवाच:
असहाय़ः पिता माता तथा भ्राता सुतो गुरुः |
१२ क
वृहस्पतिरु उवाच:
ज्ञातिसम्वन्धिवर्गश्च मित्रवर्गस्तथैव च ||
१२ ख
वृहस्पतिरु उवाच:
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः |
१३ क
वृहस्पतिरु उवाच:
मुहूर्तमुपतिष्ठन्ति ततो यान्ति पराङ्मुखाः |
१३ ख
वृहस्पतिरु उवाच:
तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति ||
१३ ग
वृहस्पतिरु उवाच:
तस्माद्धर्मः सहाय़ार्थे सेवितव्यः सदा नृभिः |
१४ क
वृहस्पतिरु उवाच:
प्राणी धर्मसमाय़ुक्तो गच्छते स्वर्गतिं पराम् |
१४ ख
वृहस्पतिरु उवाच:
तथैवाधर्मसंय़ुक्तो नरकाय़ोपपद्यते ||
१४ ग
वृहस्पतिरु उवाच:
तस्मान्न्याय़ागतैरर्थैर्धर्मं सेवेत पण्डितः |
१५ क
वृहस्पतिरु उवाच:
धर्म एको मनुष्याणां सहाय़ः पारलौकिकः ||
१५ ख
वृहस्पतिरु उवाच:
लोभान्मोहादनुक्रोशाद्भय़ाद्वाप्यवहुश्रुतः |
१६ क
वृहस्पतिरु उवाच:
नरः करोत्यकार्याणि परार्थे लोभमोहितः ||
१६ ख
वृहस्पतिरु उवाच:
धर्मश्चार्थश्च कामश्च त्रितय़ं जीविते फलम् |
१७ क
वृहस्पतिरु उवाच:
एतत्त्रय़मवाप्तव्यमधर्मपरिवर्जितम् ||
१७ ख
युधिष्ठिर उवाच:
श्रुतं भगवतो वाक्यं धर्मय़ुक्तं परं हितम् |
१८ क
युधिष्ठिर उवाच:
शरीरविचय़ं ज्ञातुं वुद्धिस्तु मम जाय़ते ||
१८ ख
युधिष्ठिर उवाच:
मृतं शरीररहितं सूक्ष्ममव्यक्ततां गतम् |
१९ क
युधिष्ठिर उवाच:
अचक्षुर्विषय़ं प्राप्तं कथं धर्मोऽनुगच्छति ||
१९ ख
वृहस्पतिरु उवाच:
पृथिवी वाय़ुराकाशमापो ज्योतिश्च पञ्चमम् |
२० क
वृहस्पतिरु उवाच:
वुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ||
२० ख
वृहस्पतिरु उवाच:
प्राणिनामिह सर्वेषां साक्षिभूतानि चानिशम् |
२१ क
वृहस्पतिरु उवाच:
एतैश्च स ह धर्मोऽपि तं जीवमनुगच्छति ||
२१ ख
वृहस्पतिरु उवाच:
त्वगस्थिमांसं शुक्रं च शोणितं च महामते |
२२ क
वृहस्पतिरु उवाच:
शरीरं वर्जय़न्त्येते जीवितेन विवर्जितम् ||
२२ ख
वृहस्पतिरु उवाच:
ततो धर्मसमाय़ुक्तः स जीवः सुखमेधते |
२३ क
वृहस्पतिरु उवाच:
इह लोके परे चैव किं भूय़ः कथय़ामि ते ||
२३ ख
युधिष्ठिर उवाच:
अनुदर्शितं भगवता यथा धर्मोऽनुगच्छति |
२४ क
युधिष्ठिर उवाच:
एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते ||
२४ ख
वृहस्पतिरु उवाच:
अन्नमश्नन्ति ये देवाः शरीरस्था नरेश्वर |
२५ क
वृहस्पतिरु उवाच:
पृथिवी वाय़ुराकाशमापो ज्योतिर्मनस्तथा ||
२५ ख
वृहस्पतिरु उवाच:
ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु |
२६ क
वृहस्पतिरु उवाच:
मनःषष्ठेषु शुद्धात्मन्रेतः सम्पद्यते महत् ||
२६ ख
वृहस्पतिरु उवाच:
ततो गर्भः सम्भवति स्त्रीपुंसोः पार्थ सङ्गमे |
२७ क
वृहस्पतिरु उवाच:
एतत्ते सर्वमाख्यातं किं भूय़ः श्रोतुमिच्छसि ||
२७ ख
युधिष्ठिर उवाच:
आख्यातमेतद्भवता गर्भः सञ्जाय़ते यथा |
२८ क
युधिष्ठिर उवाच:
यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ||
२८ ख
वृहस्पतिरु उवाच:
आसन्नमात्रः सततं तैर्भूतैरभिभूय़ते |
२९ क
वृहस्पतिरु उवाच:
विप्रमुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् |
२९ ख
वृहस्पतिरु उवाच:
स तु भूतसमाय़ुक्तः प्राप्नुते जीव एव ह ||
२९ ग
वृहस्पतिरु उवाच:
ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् |
३० क
वृहस्पतिरु उवाच:
देवताः पञ्चभूतस्थाः किं भूय़ः श्रोतुमिच्छसि ||
३० ख
युधिष्ठिर उवाच:
त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः |
३१ क
युधिष्ठिर उवाच:
जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते ||
३१ ख
वृहस्पतिरु उवाच:
जीवो धर्मसमाय़ुक्तः शीघ्रं रेतस्त्वमागतः |
३२ क
वृहस्पतिरु उवाच:
स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत ||
३२ ख
वृहस्पतिरु उवाच:
यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम् |
३३ क
वृहस्पतिरु उवाच:
दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ||
३३ ख
वृहस्पतिरु उवाच:
इहलोके च स प्राणी जन्मप्रभृति पार्थिव |
३४ क
वृहस्पतिरु उवाच:
स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ||
३४ ख
वृहस्पतिरु उवाच:
यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते |
३५ क
वृहस्पतिरु उवाच:
ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ||
३५ ख
वृहस्पतिरु उवाच:
अथान्तरा तु धर्मस्य अधर्ममुपसेवते |
३६ क
वृहस्पतिरु उवाच:
सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ||
३६ ख
वृहस्पतिरु उवाच:
अधर्मेण समाय़ुक्तो यमस्य विषय़ं गतः |
३७ क
वृहस्पतिरु उवाच:
महद्दुःखं समासाद्य तिर्यग्योनौ प्रजाय़ते ||
३७ ख
वृहस्पतिरु उवाच:
कर्मणा येन येनेह यस्यां योनौ प्रजाय़ते |
३८ क
वृहस्पतिरु उवाच:
जीवो मोहसमाय़ुक्तस्तन्मे निगदतः शृणु ||
३८ ख
वृहस्पतिरु उवाच:
यदेतदुच्यते शास्त्रे सेतिहासे सच्छन्दसि |
३९ क
वृहस्पतिरु उवाच:
यमस्य विषय़ं घोरं मर्त्यो लोकः प्रपद्यते ||
३९ ख
वृहस्पतिरु उवाच:
अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः |
४० क
वृहस्पतिरु उवाच:
पतितात्प्रतिगृह्याथ खरय़ोनौ प्रजाय़ते ||
४० ख
वृहस्पतिरु उवाच:
खरो जीवति वर्षाणि दश पञ्च च भारत |
४१ क
वृहस्पतिरु उवाच:
खरो मृतो वलीवर्दः सप्त वर्षाणि जीवति ||
४१ ख
वृहस्पतिरु उवाच:
वलीवर्दो मृतश्चापि जाय़ते व्रह्मराक्षसः |
४२ क
वृहस्पतिरु उवाच:
व्रह्मरक्षस्तु त्रीन्मासांस्ततो जाय़ति व्राह्मणः ||
४२ ख
वृहस्पतिरु उवाच:
पतितं याजय़ित्वा तु कृमिय़ोनौ प्रजाय़ते |
४३ क
वृहस्पतिरु उवाच:
तत्र जीवति वर्षाणि दश पञ्च च भारत ||
४३ ख
वृहस्पतिरु उवाच:
कृमिभावात्प्रमुक्तस्तु ततो जाय़ति गर्दभः |
४४ क
वृहस्पतिरु उवाच:
गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः |
४४ ख
वृहस्पतिरु उवाच:
श्वा वर्षमेकं भवति ततो जाय़ति मानवः ||
४४ ग
वृहस्पतिरु उवाच:
उपाध्याय़स्य यः पापं शिष्यः कुर्यादवुद्धिमान् |
४५ क
वृहस्पतिरु उवाच:
स जीव इह संसारांस्त्रीनाप्नोति न संशय़ः ||
४५ ख
वृहस्पतिरु उवाच:
प्राक्ष्वा भवति राजेन्द्र ततः क्रव्यात्ततः खरः |
४६ क
वृहस्पतिरु उवाच:
ततः प्रेतः परिक्लिष्टः पश्चाज्जाय़ति व्राह्मणः ||
४६ ख
वृहस्पतिरु उवाच:
मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत् |
४७ क
वृहस्पतिरु उवाच:
सोऽधमान्याति संसारानधर्मेणेह चेतसा ||
४७ ख
वृहस्पतिरु उवाच:
श्वय़ोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति |
४८ क
वृहस्पतिरु उवाच:
तत्रापि निधनं प्राप्तः कृमिय़ोनौ प्रजाय़ते ||
४८ ख