chevron_left वन पर्व अध्याय ११२
ऋश्यशृङ्ग उवाच:
इहागतो जटिलो व्रह्मचारी; न वै ह्रस्वो नातिदीर्घो मनस्वी |
१ क
ऋश्यशृङ्ग उवाच:
सुवर्णवर्णः कमलाय़ताक्षः; सुतः सुराणामिव शोभमानः ||
१ ख
ऋश्यशृङ्ग उवाच:
समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्षतरश्चकोरैः |
२ क
ऋश्यशृङ्ग उवाच:
नीलाः प्रसन्नाश्च जटाः सुगन्धा; हिरण्यरज्जुग्रथिताः सुदीर्घाः ||
२ ख
ऋश्यशृङ्ग उवाच:
आधाररूपा पुनरस्य कण्ठे; विभ्राजते विद्युदिवान्तरिक्षे |
३ क
ऋश्यशृङ्ग उवाच:
द्वौ चास्य पिण्डावधरेण कण्ठ; मजातरोमौ सुमनोहरौ च ||
३ ख
ऋश्यशृङ्ग उवाच:
विलग्नमध्यश्च स नाभिदेशे; कटिश्च तस्यातिकृतप्रमाणा |
४ क
ऋश्यशृङ्ग उवाच:
तथास्य चीरान्तरिता प्रभाति; हिरण्मय़ी मेखला मे यथेय़म् ||
४ ख
ऋश्यशृङ्ग उवाच:
अन्यच्च तस्याद्भुतदर्शनीय़ं; विकूजितं पादय़ोः सम्प्रभाति |
५ क
ऋश्यशृङ्ग उवाच:
पाण्योश्च तद्वत्स्वनवन्निवद्धौ; कलापकावक्षमाला यथेय़म् ||
५ ख
ऋश्यशृङ्ग उवाच:
विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः |
६ क
ऋश्यशृङ्ग उवाच:
चीराणि तस्याद्भुतदर्शनानि; नेमानि तद्वन्मम रूपवन्ति ||
६ ख
ऋश्यशृङ्ग उवाच:
वक्त्रं च तस्याद्भुतदर्शनीय़ं; प्रव्याहृतं ह्लादय़तीव चेतः |
७ क
ऋश्यशृङ्ग उवाच:
पुंस्कोकिलस्येव च तस्य वाणी; तां शृण्वतो मे व्यथितोऽन्तरात्मा ||
७ ख
ऋश्यशृङ्ग उवाच:
यथा वनं माधवमासि मध्ये; समीरितं श्वसनेनाभिवाति |
८ क
ऋश्यशृङ्ग उवाच:
तथा स वात्युत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात ||
८ ख
ऋश्यशृङ्ग उवाच:
सुसंय़ताश्चापि जटा विभक्ता; द्वैधीकृता भान्ति समा ललाटे |
९ क
ऋश्यशृङ्ग उवाच:
कर्णौ च चित्रैरिव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः ||
९ ख
ऋश्यशृङ्ग उवाच:
तथा फलं वृत्तमथो विचित्रं; समाहनत्पाणिना दक्षिणेन |
१० क
ऋश्यशृङ्ग उवाच:
तद्भूमिमासाद्य पुनः पुनश्च; समुत्पतत्यद्भुतरूपमुच्चैः ||
१० ख
ऋश्यशृङ्ग उवाच:
तच्चापि हत्वा परिवर्ततेऽसौ; वातेरितो वृक्ष इवावघूर्णः |
११ क
ऋश्यशृङ्ग उवाच:
तं प्रेक्ष्य मे पुत्रमिवामराणां; प्रीतिः परा तात रतिश्च जाता ||
११ ख
ऋश्यशृङ्ग उवाच:
स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम् |
१२ क
ऋश्यशृङ्ग उवाच:
वक्त्रेण वक्त्रं प्रणिधाय़ शव्दं; चकार तन्मेऽजनय़त्प्रहर्षम् ||
१२ ख
ऋश्यशृङ्ग उवाच:
न चापि पाद्यं वहु मन्यतेऽसौ; फलानि चेमानि मय़ाहृतानि |
१३ क
ऋश्यशृङ्ग उवाच:
एवंव्रतोऽस्मीति च मामवोच; त्फलानि चान्यानि नवान्यदान्मे ||
१३ ख
ऋश्यशृङ्ग उवाच:
मय़ोपय़ुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम् |
१४ क
ऋश्यशृङ्ग उवाच:
न चापि तेषां त्वगिय़ं यथैषां; साराणि नैषामिव सन्ति तेषाम् ||
१४ ख
ऋश्यशृङ्ग उवाच:
तोय़ानि चैवातिरसानि मह्यं; प्रादात्स वै पातुमुदाररूपः |
१५ क
ऋश्यशृङ्ग उवाच:
पीत्वैव यान्यभ्यधिकः प्रहर्षो; ममाभवद्भूश्चलितेव चासीत् ||
१५ ख
ऋश्यशृङ्ग उवाच:
इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्योद्ग्रथितानि पट्टैः |
१६ क
ऋश्यशृङ्ग उवाच:
यानि प्रकीर्येह गतः स्वमेव; स आश्रमं तपसा द्योतमानः ||
१६ ख
ऋश्यशृङ्ग उवाच:
गतेन तेनास्मि कृतो विचेता; गात्रं च मे सम्परितप्यतीव |
१७ क
ऋश्यशृङ्ग उवाच:
इच्छामि तस्यान्तिकमाशु गन्तुं; तं चेह नित्यं परिवर्तमानम् ||
१७ ख
ऋश्यशृङ्ग उवाच:
गच्छामि तस्यान्तिकमेव तात; का नाम सा व्रतचर्या च तस्य |
१८ क
ऋश्यशृङ्ग उवाच:
इच्छाम्यहं चरितुं तेन सार्धं; यथा तपः स चरत्युग्रकर्मा ||
१८ ख