chevron_left भीष्म पर्व अध्याय ६
धृतराष्ट्र उवाच:
नदीनां पर्वतानां च नामधेय़ानि सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ||
१ ख
धृतराष्ट्र उवाच:
प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः |
२ क
धृतराष्ट्र उवाच:
निखिलेन समाचक्ष्व काननानि च सञ्जय़ ||
२ ख
सञ्जय़ उवाच:
पञ्चेमानि महाराज महाभूतानि सङ्ग्रहात् |
३ क
सञ्जय़ उवाच:
जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः ||
३ ख
सञ्जय़ उवाच:
भूमिरापस्तथा वाय़ुरग्निराकाशमेव च |
४ क
सञ्जय़ उवाच:
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ||
४ ख
सञ्जय़ उवाच:
शव्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः |
५ क
सञ्जय़ उवाच:
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ||
५ ख
सञ्जय़ उवाच:
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते |
६ क
सञ्जय़ उवाच:
शव्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रय़ः |
६ ख
सञ्जय़ उवाच:
शव्दः स्पर्शश्च वाय़ोस्तु आकाशे शव्द एव च ||
६ ग
सञ्जय़ उवाच:
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु |
७ क
सञ्जय़ उवाच:
वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः ||
७ ख
सञ्जय़ उवाच:
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा |
८ क
सञ्जय़ उवाच:
यदा तु विषमीभावमाविशन्ति परस्परम् |
८ ख
सञ्जय़ उवाच:
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ||
८ ग
सञ्जय़ उवाच:
आनुपूर्व्याद्विनश्यन्ति जाय़न्ते चानुपूर्वशः |
९ क
सञ्जय़ उवाच:
सर्वाण्यपरिमेय़ानि तदेषां रूपमैश्वरम् ||
९ ख
सञ्जय़ उवाच:
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः |
१० क
सञ्जय़ उवाच:
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ||
१० ख
सञ्जय़ उवाच:
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधय़ेत् |
११ क
सञ्जय़ उवाच:
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ||
११ ख
सञ्जय़ उवाच:
सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन |
१२ क
सञ्जय़ उवाच:
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ||
१२ ख
सञ्जय़ उवाच:
नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः |
१३ क
सञ्जय़ उवाच:
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ||
१३ ख
सञ्जय़ उवाच:
वृक्षैः पुष्पफलोपेतैः सम्पन्नधनधान्यवान् |
१४ क
सञ्जय़ उवाच:
लावणेन समुद्रेण समन्तात्परिवारितः ||
१४ ख
सञ्जय़ उवाच:
यथा च पुरुषः पश्येदादर्शे मुखमात्मनः |
१५ क
सञ्जय़ उवाच:
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ||
१५ ख
सञ्जय़ उवाच:
द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान् |
१६ क
सञ्जय़ उवाच:
सर्वौषधिसमावापैः सर्वतः परिवृंहितः |
१६ ख
सञ्जय़ उवाच:
आपस्ततोऽन्या विज्ञेय़ा एष सङ्क्षेप उच्यते ||
१६ ग