वैशम्पाय़न उवाच:
एवमुक्तस्तय़ा राजा तां देवीं पुनरव्रवीत् |
१ क
वैशम्पाय़न उवाच:
धर्मविद्धर्मसंय़ुक्तमिदं वचनमुत्तमम् ||
१ ख
वैशम्पाय़न उवाच:
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह |
२ क
वैशम्पाय़न उवाच:
यथा त्वय़ोक्तं कल्याणि स ह्यासीदमरोपमः ||
२ ख
वैशम्पाय़न उवाच:
अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निवोध मे |
३ क
वैशम्पाय़न उवाच:
पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ||
३ ख
वैशम्पाय़न उवाच:
अनावृताः किल पुरा स्त्रिय़ आसन्वरानने |
४ क
वैशम्पाय़न उवाच:
कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ||
४ ख
वैशम्पाय़न उवाच:
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् |
५ क
वैशम्पाय़न उवाच:
नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् ||
५ ख
वैशम्पाय़न उवाच:
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः |
६ क
वैशम्पाय़न उवाच:
अद्याप्यनुविधीय़न्ते कामद्वेषविवर्जिताः |
६ ख
वैशम्पाय़न उवाच:
पुराणदृष्टो धर्मोऽय़ं पूज्यते च महर्षिभिः ||
६ ग
वैशम्पाय़न उवाच:
उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते |
७ क
वैशम्पाय़न उवाच:
स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ||
७ ख
वैशम्पाय़न उवाच:
अस्मिंस्तु लोके नचिरान्मर्यादेय़ं शुचिस्मिते |
८ क
वैशम्पाय़न उवाच:
स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ||
८ ख
वैशम्पाय़न उवाच:
वभूवोद्दालको नाम महर्षिरिति नः श्रुतम् |
९ क
वैशम्पाय़न उवाच:
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ||
९ ख
वैशम्पाय़न उवाच:
मर्यादेय़ं कृता तेन मानुषेष्विति नः श्रुतम् |
१० क
वैशम्पाय़न उवाच:
कोपात्कमलपत्राक्षि यदर्थं तन्निवोध मे ||
१० ख
वैशम्पाय़न उवाच:
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः |
११ क
वैशम्पाय़न उवाच:
जग्राह व्राह्मणः पाणौ गच्छाव इति चाव्रवीत् ||
११ ख
वैशम्पाय़न उवाच:
ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा |
१२ क
वैशम्पाय़न उवाच:
मातरं तां तथा दृष्ट्वा नीय़मानां वलादिव ||
१२ ख
वैशम्पाय़न उवाच:
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह |
१३ क
वैशम्पाय़न उवाच:
मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ||
१३ ख
वैशम्पाय़न उवाच:
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि |
१४ क
वैशम्पाय़न उवाच:
यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ||
१४ ख
वैशम्पाय़न उवाच:
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे |
१५ क
वैशम्पाय़न उवाच:
चकार चैव मर्यादामिमां स्त्रीपुंसय़ोर्भुवि ||
१५ ख
वैशम्पाय़न उवाच:
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु |
१६ क
वैशम्पाय़न उवाच:
तदा प्रभृति मर्यादा स्थितेय़मिति नः श्रुतम् ||
१६ ख
वैशम्पाय़न उवाच:
व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् |
१७ क
वैशम्पाय़न उवाच:
भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ||
१७ ख
वैशम्पाय़न उवाच:
भार्यां तथा व्युच्चरतः कौमारीं व्रह्मचारिणीम् |
१८ क
वैशम्पाय़न उवाच:
पतिव्रतामेतदेव भविता पातकं भुवि ||
१८ ख
वैशम्पाय़न उवाच:
पत्या निय़ुक्ता या चैव पत्न्यपत्यार्थमेव च |
१९ क
वैशम्पाय़न उवाच:
न करिष्यति तस्याश्च भविष्यत्येतदेव हि ||
१९ ख
वैशम्पाय़न उवाच:
इति तेन पुरा भीरु मर्यादा स्थापिता वलात् |
२० क
वैशम्पाय़न उवाच:
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ||
२० ख
वैशम्पाय़न उवाच:
सौदासेन च रम्भोरु निय़ुक्तापत्यजन्मनि |
२१ क
वैशम्पाय़न उवाच:
मदय़न्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ||
२१ ख
वैशम्पाय़न उवाच:
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी |
२२ क
वैशम्पाय़न उवाच:
भार्या कल्माषपादस्य भर्तुः प्रिय़चिकीर्षय़ा ||
२२ ख
वैशम्पाय़न उवाच:
अस्माकमपि ते जन्म विदितं कमलेक्षणे |
२३ क
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नाद्भीरु कुरूणां वंशवृद्धय़े ||
२३ ख
वैशम्पाय़न उवाच:
अत एतानि सर्वाणि कारणानि समीक्ष्य वै |
२४ क
वैशम्पाय़न उवाच:
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ||
२४ ख
वैशम्पाय़न उवाच:
ऋतावृतौ राजपुत्रि स्त्रिय़ा भर्ता यतव्रते |
२५ क
वैशम्पाय़न उवाच:
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ||
२५ ख
वैशम्पाय़न उवाच:
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति |
२६ क
वैशम्पाय़न उवाच:
धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ||
२६ ख
वैशम्पाय़न उवाच:
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा |
२७ क
वैशम्पाय़न उवाच:
यद्व्रूय़ात्तत्तथा कार्यमिति धर्मविदो विदुः ||
२७ ख
वैशम्पाय़न उवाच:
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वय़म् |
२८ क
वैशम्पाय़न उवाच:
यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ||
२८ ख
वैशम्पाय़न उवाच:
तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे |
२९ क
वैशम्पाय़न उवाच:
प्रसादार्थं मय़ा तेऽय़ं शिरस्यभ्युद्यतोऽञ्जलिः ||
२९ ख
वैशम्पाय़न उवाच:
मन्निय़ोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् |
३० क
वैशम्पाय़न उवाच:
पुत्रान्गुणसमाय़ुक्तानुत्पादय़ितुमर्हसि |
३० ख
वैशम्पाय़न उवाच:
त्वत्कृतेऽहं पृथुश्रोणि गच्छेय़ं पुत्रिणां गतिम् ||
३० ग
वैशम्पाय़न उवाच:
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जय़म् |
३१ क
वैशम्पाय़न उवाच:
प्रत्युवाच वरारोहा भर्तुः प्रिय़हिते रता ||
३१ ख
वैशम्पाय़न उवाच:
पितृवेश्मन्यहं वाला निय़ुक्तातिथिपूजने |
३२ क
वैशम्पाय़न उवाच:
उग्रं पर्यचरं तत्र व्राह्मणं संशितव्रतम् ||
३२ ख
वैशम्पाय़न उवाच:
निगूढनिश्चय़ं धर्मे यं तं दुर्वाससं विदुः |
३३ क
वैशम्पाय़न उवाच:
तमहं संशितात्मानं सर्वय़त्नैरतोषय़म् ||
३३ ख
वैशम्पाय़न उवाच:
स मेऽभिचारसंय़ुक्तमाचष्ट भगवान्वरम् |
३४ क
वैशम्पाय़न उवाच:
मन्त्रग्रामं च मे प्रादादव्रवीच्चैव मामिदम् ||
३४ ख
वैशम्पाय़न उवाच:
यं यं देवं त्वमेतेन मन्त्रेणावाहय़िष्यसि |
३५ क
वैशम्पाय़न उवाच:
अकामो वा सकामो वा स ते वशमुपैष्यति ||
३५ ख
वैशम्पाय़न उवाच:
इत्युक्ताहं तदा तेन पितृवेश्मनि भारत |
३६ क
वैशम्पाय़न उवाच:
व्राह्मणेन वचस्तथ्यं तस्य कालोऽय़मागतः ||
३६ ख
वैशम्पाय़न उवाच:
अनुज्ञाता त्वय़ा देवमाह्वय़ेय़महं नृप |
३७ क
वैशम्पाय़न उवाच:
तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ||
३७ ख
वैशम्पाय़न उवाच:
आवाहय़ामि कं देवं व्रूहि तत्त्वविदां वर |
३८ क
वैशम्पाय़न उवाच:
त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ||
३८ ख
पाण्डुरु उवाच:
अद्यैव त्वं वरारोहे प्रय़तस्व यथाविधि |
३९ क
पाण्डुरु उवाच:
धर्ममावाहय़ शुभे स हि देवेषु पुण्यभाक् ||
३९ ख
पाण्डुरु उवाच:
अधर्मेण न नो धर्मः संय़ुज्येत कथञ्चन |
४० क
पाण्डुरु उवाच:
लोकश्चाय़ं वरारोहे धर्मोऽय़मिति मंस्यते ||
४० ख
पाण्डुरु उवाच:
धार्मिकश्च कुरूणां स भविष्यति न संशय़ः |
४१ क
पाण्डुरु उवाच:
दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ||
४१ ख
पाण्डुरु उवाच:
तस्माद्धर्मं पुरस्कृत्य निय़ता त्वं शुचिस्मिते |
४२ क
पाण्डुरु उवाच:
उपचाराभिचाराभ्यां धर्ममाराधय़स्व वै ||
४२ ख
वैशम्पाय़न उवाच:
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना |
४३ क
वैशम्पाय़न उवाच:
अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ||
४३ ख