युधिष्ठिर उवाच:
अधर्मस्य गतिर्व्रह्मन्कथिता मे त्वय़ानघ |
१ क
युधिष्ठिर उवाच:
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर |
१ ख
युधिष्ठिर उवाच:
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् ||
१ ग
वृहस्पतिरु उवाच:
कृत्वा पापानि कर्माणि अधर्मवशमागतः |
२ क
वृहस्पतिरु उवाच:
मनसा विपरीतेन निरय़ं प्रतिपद्यते ||
२ ख
वृहस्पतिरु उवाच:
मोहादधर्मं यः कृत्वा पुनः समनुतप्यते |
३ क
वृहस्पतिरु उवाच:
मनःसमाधिसंय़ुक्तो न स सेवेत दुष्कृतम् ||
३ ख
वृहस्पतिरु उवाच:
यथा यथा नरः सम्यगधर्ममनुभाषते |
४ क
वृहस्पतिरु उवाच:
समाहितेन मनसा विमुच्यति तथा तथा |
४ ख
वृहस्पतिरु उवाच:
भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ||
४ ग
वृहस्पतिरु उवाच:
अदत्त्वापि प्रदानानि विविधानि समाहितः |
५ क
वृहस्पतिरु उवाच:
मनःसमाधिसंय़ुक्तः सुगतिं प्रतिपद्यते ||
५ ख
वृहस्पतिरु उवाच:
प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर |
६ क
वृहस्पतिरु उवाच:
नरः कृत्वाप्यकार्याणि तदा धर्मेण युज्यते ||
६ ख
वृहस्पतिरु उवाच:
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् |
७ क
वृहस्पतिरु उवाच:
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ||
७ ख
वृहस्पतिरु उवाच:
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जाय़ते |
८ क
वृहस्पतिरु उवाच:
अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते ||
८ ख
वृहस्पतिरु उवाच:
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः |
९ क
वृहस्पतिरु उवाच:
अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः ||
९ ख
वृहस्पतिरु उवाच:
न्याय़लव्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम् |
१० क
वृहस्पतिरु उवाच:
स्वाध्याय़समुपेतेभ्यः प्रहृष्टेनान्तरात्मना ||
१० ख
वृहस्पतिरु उवाच:
यस्य ह्यन्नमुपाश्नन्ति व्राह्मणानां शता दश |
११ क
वृहस्पतिरु उवाच:
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ||
११ ख
वृहस्पतिरु उवाच:
व्राह्मणानां सहस्राणि दश भोज्य नरर्षभ |
१२ क
वृहस्पतिरु उवाच:
नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा ||
१२ ख
वृहस्पतिरु उवाच:
भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः |
१३ क
वृहस्पतिरु उवाच:
स्वाध्याय़निरते विप्रे दत्त्वेह सुखमेधते ||
१३ ख
वृहस्पतिरु उवाच:
अहिंसन्व्राह्मणं नित्यं न्याय़ेन परिपाल्य च |
१४ क
वृहस्पतिरु उवाच:
क्षत्रिय़स्तरसा प्राप्तमन्नं यो वै प्रय़च्छति ||
१४ ख
वृहस्पतिरु उवाच:
द्विजेभ्यो वेदवृद्धेभ्यः प्रय़तः सुसमाहितः |
१५ क
वृहस्पतिरु उवाच:
तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव ||
१५ ख
वृहस्पतिरु उवाच:
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् |
१६ क
वृहस्पतिरु उवाच:
वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ||
१६ ख
वृहस्पतिरु उवाच:
अवाप्य प्राणसन्देहं कार्कश्येन समार्जितम् |
१७ क
वृहस्पतिरु उवाच:
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ||
१७ ख
वृहस्पतिरु उवाच:
औरसेन वलेनान्नमर्जय़ित्वाविहिंसकः |
१८ क
वृहस्पतिरु उवाच:
यः प्रय़च्छति विप्रेभ्यो न स दुर्गाणि सेवते ||
१८ ख
वृहस्पतिरु उवाच:
न्याय़ेनावाप्तमन्नं तु नरो लोभविवर्जितः |
१९ क
वृहस्पतिरु उवाच:
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ||
१९ ख
वृहस्पतिरु उवाच:
अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः |
२० क
वृहस्पतिरु उवाच:
सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते ||
२० ख
वृहस्पतिरु उवाच:
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः |
२१ क
वृहस्पतिरु उवाच:
ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ||
२१ ख
वृहस्पतिरु उवाच:
सर्वावस्थं मनुष्येण न्याय़ेनान्नमुपार्जितम् |
२२ क
वृहस्पतिरु उवाच:
कार्यं पात्रगतं नित्यमन्नं हि परमा गतिः ||
२२ ख
वृहस्पतिरु उवाच:
अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते |
२३ क
वृहस्पतिरु उवाच:
तस्मादन्नं प्रदातव्यमन्याय़परिवर्जितम् ||
२३ ख
वृहस्पतिरु उवाच:
यतेद्व्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा |
२४ क
वृहस्पतिरु उवाच:
अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः ||
२४ ख
वृहस्पतिरु उवाच:
भोजय़ित्वा दशशतं नरो वेदविदां नृप |
२५ क
वृहस्पतिरु उवाच:
न्याय़विद्धर्मविदुषामितिहासविदां तथा ||
२५ ख
वृहस्पतिरु उवाच:
न याति नरकं घोरं संसारांश्च न सेवते |
२६ क
वृहस्पतिरु उवाच:
सर्वकामसमाय़ुक्तः प्रेत्य चाप्यश्नुते फलम् ||
२६ ख
वृहस्पतिरु उवाच:
एवं सुखसमाय़ुक्तो रमते विगतज्वरः |
२७ क
वृहस्पतिरु उवाच:
रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ||
२७ ख
वृहस्पतिरु उवाच:
एतत्ते सर्वमाख्यातमन्नदानफलं महत् |
२८ क
वृहस्पतिरु उवाच:
मूलमेतद्धि धर्माणां प्रदानस्य च भारत ||
२८ ख