विभाण्डक उवाच:
रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुतदर्शनेन |
१ क
विभाण्डक उवाच:
अतुल्यरूपाण्यतिघोरवन्ति; विघ्नं सदा तपसश्चिन्तय़न्ति ||
१ ख
विभाण्डक उवाच:
सुरूपरूपाणि च तानि तात; प्रलोभय़न्ते विविधैरुपाय़ैः |
२ क
विभाण्डक उवाच:
सुखाच्च लोकाच्च निपातय़न्ति; तान्युग्रकर्माणि मुनीन्वनेषु ||
२ ख
विभाण्डक उवाच:
न तानि सेवेत मुनिर्यतात्मा; सतां लोकान्प्रार्थय़ानः कथञ्चित् |
३ क
विभाण्डक उवाच:
कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास्तपसस्तान्यपाप ||
३ ख
विभाण्डक उवाच:
असज्जनेनाचरितानि पुत्र; पापान्यपेय़ानि मधूनि तानि |
४ क
विभाण्डक उवाच:
माल्यानि चैतानि न वै मुनीनां; स्मृतानि चित्रोज्ज्वलगन्धवन्ति ||
४ ख
लोमश उवाच:
रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस्तां मृगय़ां वभूव |
५ क
लोमश उवाच:
नासादय़ामास यदा त्र्यहेण; तदा स पर्याववृतेऽऽश्रमाय़ ||
५ ख
लोमश उवाच:
यदा पुनः काश्यपो वै जगाम; फलान्याहर्तुं विधिना श्रामणेन |
६ क
लोमश उवाच:
तदा पुनर्लोभय़ितुं जगाम; सा वेशय़ोषा मुनिमृश्यशृङ्गम् ||
६ ख
लोमश उवाच:
दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः; सम्भ्रान्तरूपोऽभ्यपतत्तदानीम् |
७ क
लोमश उवाच:
प्रोवाच चैनां भवतोऽऽश्रमाय़; गच्छाव यावन्न पिता ममैति ||
७ ख
लोमश उवाच:
ततो राजन्काश्यपस्यैकपुत्रं; प्रवेश्य योगेन विमुच्य नावम् |
८ क
लोमश उवाच:
प्रलोभय़न्त्यो विविधैरुपाय़ै; राजग्मुरङ्गाधिपतेः समीपम् ||
८ ख
लोमश उवाच:
संस्थाप्य तामाश्रमदर्शने तु; सन्तारितां नावमतीव शुभ्राम् |
९ क
लोमश उवाच:
तीरादुपादाय़ तथैव चक्रे; राजाश्रमं नाम वनं विचित्रम् ||
९ ख
लोमश उवाच:
अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्मजमेकपुत्रम् |
१० क
लोमश उवाच:
ददर्श देवं सहसा प्रवृष्ट; मापूर्यमाणं च जगज्जलेन ||
१० ख
लोमश उवाच:
स लोमपादः परिपूर्णकामः; सुतां ददावृश्यशृङ्गाय़ शान्ताम् |
११ क
लोमश उवाच:
क्रोधप्रतीकारकरं च चक्रे; गोभिश्च मार्गेष्वभिकर्षणं च ||
११ ख
लोमश उवाच:
विभाण्डकस्याव्रजतः स राजा; पशून्प्रभूतान्पशुपांश्च वीरान् |
१२ क
लोमश उवाच:
समादिशत्पुत्रगृद्धी महर्षि; र्विभाण्डकः परिपृच्छेद्यदा वः ||
१२ ख
लोमश उवाच:
स वक्तव्यः प्राञ्जलिभिर्भवद्भिः; पुत्रस्य ते पशवः कर्षणं च |
१३ क
लोमश उवाच:
किं ते प्रिय़ं वै क्रिय़तां महर्षे; दासाः स्म सर्वे तव वाचि वद्धाः ||
१३ ख
लोमश उवाच:
अथोपाय़ात्स मुनिश्चण्डकोपः; स्वमाश्रमं मूलफलानि गृह्य |
१४ क
लोमश उवाच:
अन्वेषमाणश्च न तत्र पुत्रं; ददर्श चुक्रोध ततो भृशं सः ||
१४ ख
लोमश उवाच:
ततः स कोपेन विदीर्यमाण; आशङ्कमानो नृपतेर्विधानम् |
१५ क
लोमश उवाच:
जगाम चम्पां प्रदिधक्षमाण; स्तमङ्गराजं विषय़ं च तस्य ||
१५ ख
लोमश उवाच:
स वै श्रान्तः क्षुधितः काश्यपस्ता; न्घोषान्समासादितवान्समृद्धान् |
१६ क
लोमश उवाच:
गोपैश्च तैर्विधिवत्पूज्यमानो; राजेव तां रात्रिमुवास तत्र ||
१६ ख
लोमश उवाच:
सम्प्राप्य सत्कारमतीव तेभ्यः; प्रोवाच कस्य प्रथिताः स्थ सौम्याः |
१७ क
लोमश उवाच:
ऊचुस्ततस्तेऽभ्युपगम्य सर्वे; धनं तवेदं विहितं सुतस्य ||
१७ ख
लोमश उवाच:
देशे तु देशे तु स पूज्यमान; स्तांश्चैव शृण्वन्मधुरान्प्रलापान् |
१८ क
लोमश उवाच:
प्रशान्तभूय़िष्ठरजाः प्रहृष्टः; समाससादाङ्गपतिं पुरस्थम् ||
१८ ख
लोमश उवाच:
सम्पूजितस्तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम् |
१९ क
लोमश उवाच:
शान्तां स्नुषां चैव ददर्श तत्र; सौदामिनीमुच्चरन्तीं यथैव ||
१९ ख
लोमश उवाच:
ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा; शान्तां च शान्तोऽस्य परः स कोपः |
२० क
लोमश उवाच:
चकार तस्मै परमं प्रसादं; विभाण्डको भूमिपतेर्नरेन्द्र ||
२० ख
लोमश उवाच:
स तत्र निक्षिप्य सुतं महर्षि; रुवाच सूर्याग्निसमप्रभावम् |
२१ क
लोमश उवाच:
जाते पुत्रे वनमेवाव्रजेथा; राज्ञः प्रिय़ाण्यस्य सर्वाणि कृत्वा ||
२१ ख
लोमश उवाच:
स तद्वचः कृतवानृश्यशृङ्गो; यय़ौ च यत्रास्य पिता वभूव |
२२ क
लोमश उवाच:
शान्ता चैनं पर्यचरद्यथाव; त्खे रोहिणी सोममिवानुकूला ||
२२ ख
लोमश उवाच:
अरुन्धती वा सुभगा वसिष्ठं; लोपामुद्रा वापि यथा ह्यगस्त्यम् |
२३ क
लोमश उवाच:
नलस्य वा दमय़न्ती यथाभू; द्यथा शची वज्रधरस्य चैव ||
२३ ख
लोमश उवाच:
नाडाय़नी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ |
२४ क
लोमश उवाच:
तथा शान्ता ऋश्यशृङ्गं वनस्थं; प्रीत्या युक्ता पर्यचरन्नरेन्द्र ||
२४ ख
लोमश उवाच:
तस्याश्रमः पुण्य एषो विभाति; महाह्रदं शोभय़न्पुण्यकीर्तेः |
२५ क
लोमश उवाच:
अत्र स्नातः कृतकृत्यो विशुद्ध; स्तीर्थान्यन्यान्यनुसंय़ाहि राजन् ||
२५ ख