नारद उवाच:
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् |
१ क
नारद उवाच:
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ||
१ ख
नारद उवाच:
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः |
२ क
नारद उवाच:
यय़ातिर्वत्सकाशीश इदं वचनमव्रवीत् ||
२ ख
नारद उवाच:
दृष्ट्वा प्रिय़सखं तार्क्ष्यं गालवं च द्विजर्षभम् |
३ क
नारद उवाच:
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ||
३ ख
नारद उवाच:
अतीत्य च नृपानन्यानादित्यकुलसम्भवान् |
४ क
नारद उवाच:
मत्सकाशमनुप्राप्तावेतौ वुद्धिमवेक्ष्य च ||
४ ख
नारद उवाच:
अद्य मे सफलं जन्म तारितं चाद्य मे कुलम् |
५ क
नारद उवाच:
अद्याय़ं तारितो देशो मम तार्क्ष्य त्वय़ानघ ||
५ ख
नारद उवाच:
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा |
६ क
नारद उवाच:
न तथा वित्तवानस्मि क्षीणं वित्तं हि मे सखे ||
६ ख
नारद उवाच:
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग |
७ क
नारद उवाच:
न चाशामस्य विप्रर्षेर्वितथां कर्तुमुत्सहे ||
७ ख
नारद उवाच:
तत्तु दास्यामि यत्कार्यमिदं सम्पादय़िष्यति |
८ क
नारद उवाच:
अभिगम्य हताशो हि निवृत्तो दहते कुलम् ||
८ ख
नारद उवाच:
नातः परं वैनतेय़ किञ्चित्पापिष्ठमुच्यते |
९ क
नारद उवाच:
यथाशानाशनं लोके देहि नास्तीति वा वचः ||
९ ख
नारद उवाच:
हताशो ह्यकृतार्थः सन्हतः सम्भावितो नरः |
१० क
नारद उवाच:
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिनाम् ||
१० ख
नारद उवाच:
तस्माच्चतुर्णां वंशानां स्थापय़ित्री सुता मम |
११ क
नारद उवाच:
इय़ं सुरसुतप्रख्या सर्वधर्मोपचाय़िनी ||
११ ख
नारद उवाच:
सदा देवमनुष्याणामसुराणां च गालव |
१२ क
नारद उवाच:
काङ्क्षिता रूपतो वाला सुता मे प्रतिगृह्यताम् ||
१२ ख
नारद उवाच:
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम् |
१३ क
नारद उवाच:
किं पुनः श्यामकर्णानां हय़ानां द्वे चतुःशते ||
१३ ख
नारद उवाच:
स भवान्प्रतिगृह्णातु ममेमां माधवीं सुताम् |
१४ क
नारद उवाच:
अहं दौहित्रवान्स्यां वै वर एष मम प्रभो ||
१४ ख
नारद उवाच:
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा |
१५ क
नारद उवाच:
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ||
१५ ख
नारद उवाच:
उपलव्धमिदं द्वारमश्वानामिति चाण्डजः |
१६ क
नारद उवाच:
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ||
१६ ख
नारद उवाच:
गते पतगराजे तु गालवः सह कन्यया |
१७ क
नारद उवाच:
चिन्तय़ानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् ||
१७ ख
नारद उवाच:
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् |
१८ क
नारद उवाच:
अय़ोध्याय़ां महावीर्यं चतुरङ्गवलान्वितम् ||
१८ ख
नारद उवाच:
कोशधान्यवलोपेतं प्रिय़पौरं द्विजप्रिय़म् |
१९ क
नारद उवाच:
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ||
१९ ख
नारद उवाच:
तमुपागम्य विप्रः स हर्यश्वं गालवोऽव्रवीत् |
२० क
नारद उवाच:
कन्येय़ं मम राजेन्द्र प्रसवैः कुलवर्धिनी ||
२० ख
नारद उवाच:
इय़ं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम् |
२१ क
नारद उवाच:
शुल्कं ते कीर्तय़िष्यामि तच्छ्रुत्वा सम्प्रधार्यताम् ||
२१ ख