सञ्जय़ उवाच:
एवं व्यूढेष्वनीकेषु भूय़िष्ठमनुवर्तिषु |
१ क
सञ्जय़ उवाच:
व्रह्मलोकपराः सर्वे समपद्यन्त भारत ||
१ ख
सञ्जय़ उवाच:
न ह्यनीकमनीकेन समसज्जत सङ्कुले |
२ क
सञ्जय़ उवाच:
न रथा रथिभिः सार्धं न पदाताः पदातिभिः ||
२ ख
सञ्जय़ उवाच:
अश्वा नाश्वैरय़ुध्यन्त न गजा गजय़ोधिभिः |
३ क
सञ्जय़ उवाच:
महान्व्यतिकरो रौद्रः सेनय़ोः समपद्यत ||
३ ख
सञ्जय़ उवाच:
नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः |
४ क
सञ्जय़ उवाच:
क्षय़े तस्मिन्महारौद्रे निर्विशेषमजाय़त ||
४ ख
सञ्जय़ उवाच:
ततः शल्यः कृपश्चैव चित्रसेनश्च भारत |
५ क
सञ्जय़ उवाच:
दुःशासनो विकर्णश्च रथानास्थाय़ सत्वराः |
५ ख
सञ्जय़ उवाच:
पाण्डवानां रणे शूरा ध्वजिनीं समकम्पय़न् ||
५ ग
सञ्जय़ उवाच:
सा वध्यमाना समरे पाण्डुसेना महात्मभिः |
६ क
सञ्जय़ उवाच:
त्रातारं नाध्यगच्छद्वै मज्जमानेव नौर्जले ||
६ ख
सञ्जय़ उवाच:
यथा हि शैशिरः कालो गवां मर्माणि कृन्तति |
७ क
सञ्जय़ उवाच:
तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत ||
७ ख
सञ्जय़ उवाच:
अतीव तव सैन्यस्य पार्थेन च महात्मना |
८ क
सञ्जय़ उवाच:
नगमेघप्रतीकाशाः पातिता वहुधा गजाः ||
८ ख
सञ्जय़ उवाच:
मृद्यमानाश्च दृश्यन्ते पार्थेन नरय़ूथपाः |
९ क
सञ्जय़ उवाच:
इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ||
९ ख
सञ्जय़ उवाच:
पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः |
१० क
सञ्जय़ उवाच:
आवद्धाभरणैः काय़ैर्निहतानां महात्मनाम् ||
१० ख
सञ्जय़ उवाच:
छन्नमाय़ोधनं रेजे शिरोभिश्च सकुण्डलैः |
११ क
सञ्जय़ उवाच:
तस्मिन्नतिमहाभीमे राजन्वीरवरक्षय़े |
११ ख
सञ्जय़ उवाच:
भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जय़े ||
११ ग
सञ्जय़ उवाच:
ते पराक्रान्तमालोक्य राजन्युधि पितामहम् |
१२ क
सञ्जय़ उवाच:
न न्यवर्तन्त कौरव्या व्रह्मलोकपुरस्कृताः ||
१२ ख
सञ्जय़ उवाच:
इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा पराय़णम् |
१३ क
सञ्जय़ उवाच:
पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षय़े ||
१३ ख
सञ्जय़ उवाच:
पाण्डवापि महाराज स्मरन्तो विविधान्वहून् |
१४ क
सञ्जय़ उवाच:
क्लेशान्कृतान्सपुत्रेण त्वय़ा पूर्वं नराधिप ||
१४ ख
सञ्जय़ उवाच:
भय़ं त्यक्त्वा रणे शूरा व्रह्मलोकपुरस्कृताः |
१५ क
सञ्जय़ उवाच:
तावकांस्तव पुत्रांश्च योधय़न्ति स्म हृष्टवत् ||
१५ ख
सञ्जय़ उवाच:
सेनापतिस्तु समरे प्राह सेनां महारथः |
१६ क
सञ्जय़ उवाच:
अभिद्रवत गाङ्गेय़ं सोमकाः सृञ्जय़ैः सह ||
१६ ख
सञ्जय़ उवाच:
सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जय़ैः |
१७ क
सञ्जय़ उवाच:
अभ्यद्रवन्त गाङ्गेय़ं शस्त्रवृष्ट्या समन्ततः ||
१७ ख
सञ्जय़ उवाच:
वध्यमानस्ततो राजन्पिता शान्तनवस्तव |
१८ क
सञ्जय़ उवाच:
अमर्षवशमापन्नो योधय़ामास सृञ्जय़ान् ||
१८ ख
सञ्जय़ उवाच:
तस्य कीर्तिमतस्तात पुरा रामेण धीमता |
१९ क
सञ्जय़ उवाच:
सम्प्रदत्तास्त्रशिक्षा वै परानीकविनाशिनी ||
१९ ख
सञ्जय़ उवाच:
स तां शिक्षामधिष्ठाय़ कृत्वा परवलक्षय़म् |
२० क
सञ्जय़ उवाच:
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः |
२० ख
सञ्जय़ उवाच:
भीष्मो दश सहस्राणि जघान परवीरहा ||
२० ग
सञ्जय़ उवाच:
तस्मिंस्तु दिवसे प्राप्ते दशमे भरतर्षभ |
२१ क
सञ्जय़ उवाच:
भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संय़ुगे |
२१ ख
सञ्जय़ उवाच:
गजाश्वममितं हत्वा हताः सप्त महारथाः ||
२१ ग
सञ्जय़ उवाच:
हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः |
२२ क
सञ्जय़ उवाच:
नराणां च महाय़ुद्धे सहस्राणि चतुर्दश ||
२२ ख
सञ्जय़ उवाच:
तथा दन्तिसहस्रं च हय़ानामय़ुतं पुनः |
२३ क
सञ्जय़ उवाच:
शिक्षावलेन निहतं पित्रा तव विशां पते ||
२३ ख
सञ्जय़ उवाच:
ततः सर्वमहीपानां क्षोभय़ित्वा वरूथिनीम् |
२४ क
सञ्जय़ उवाच:
विराटस्य प्रिय़ो भ्राता शतानीको निपातितः ||
२४ ख
सञ्जय़ उवाच:
शतानीकं च समरे हत्वा भीष्मः प्रतापवान् |
२५ क
सञ्जय़ उवाच:
सहस्राणि महाराज राज्ञां भल्लैर्न्यपातय़त् ||
२५ ख
सञ्जय़ उवाच:
ये च केचन पार्थानामभिय़ाता धनञ्जय़म् |
२६ क
सञ्जय़ उवाच:
राजानो भीष्ममासाद्य गतास्ते यमसादनम् ||
२६ ख
सञ्जय़ उवाच:
एवं दश दिशो भीष्मः शरजालैः समन्ततः |
२७ क
सञ्जय़ उवाच:
अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ||
२७ ख
सञ्जय़ उवाच:
स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि |
२८ क
सञ्जय़ उवाच:
सेनय़ोरन्तरे तिष्ठन्प्रगृहीतशरासनः ||
२८ ख
सञ्जय़ उवाच:
न चैनं पार्थिवा राजञ्शेकुः केचिन्निरीक्षितुम् |
२९ क
सञ्जय़ उवाच:
मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ||
२९ ख
सञ्जय़ उवाच:
यथा दैत्यचमूं शक्रस्तापय़ामास संय़ुगे |
३० क
सञ्जय़ उवाच:
तथा भीष्मः पाण्डवेय़ांस्तापय़ामास भारत ||
३० ख
सञ्जय़ उवाच:
तथा च तं पराक्रान्तमालोक्य मधुसूदनः |
३१ क
सञ्जय़ उवाच:
उवाच देवकीपुत्रः प्रीय़माणो धनञ्जय़म् ||
३१ ख
सञ्जय़ उवाच:
एष शान्तनवो भीष्मः सेनय़ोरन्तरे स्थितः |
३२ क
सञ्जय़ उवाच:
नानिहत्य वलादेनं विजय़स्ते भविष्यति ||
३२ ख
सञ्जय़ उवाच:
यत्तः संस्तम्भय़स्वैनं यत्रैषा भिद्यते चमूः |
३३ क
सञ्जय़ उवाच:
न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ||
३३ ख
सञ्जय़ उवाच:
ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः |
३४ क
सञ्जय़ उवाच:
सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ||
३४ ख
सञ्जय़ उवाच:
स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् |
३५ क
सञ्जय़ उवाच:
शरव्रातैः शरव्रातान्वहुधा विदुधाव तान् ||
३५ ख
सञ्जय़ उवाच:
तेन पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् |
३६ क
सञ्जय़ उवाच:
पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ||
३६ ख
सञ्जय़ उवाच:
यमौ च चेकितानश्च केकय़ाः पञ्च चैव ह |
३७ क
सञ्जय़ उवाच:
सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः ||
३७ ख
सञ्जय़ उवाच:
द्रौपदेय़ाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् |
३८ क
सञ्जय़ उवाच:
सुशर्मा च विराटश्च पाण्डवेय़ा महावलाः ||
३८ ख
सञ्जय़ उवाच:
एते चान्ये च वहवः पीडिता भीष्मसाय़कैः |
३९ क
सञ्जय़ उवाच:
समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ||
३९ ख
सञ्जय़ उवाच:
ततः शिखण्डी वेगेन प्रगृह्य परमाय़ुधम् |
४० क
सञ्जय़ उवाच:
भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ||
४० ख
सञ्जय़ उवाच:
ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् |
४१ क
सञ्जय़ उवाच:
भीष्ममेवाभिदुद्राव वीभत्सुरपराजितः ||
४१ ख
सञ्जय़ उवाच:
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः |
४२ क
सञ्जय़ उवाच:
विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ |
४२ ख
सञ्जय़ उवाच:
दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना ||
४२ ग
सञ्जय़ उवाच:
अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः |
४३ क
सञ्जय़ उवाच:
दुद्रुवुः समरे भीष्मं समुद्यतमहाय़ुधाः ||
४३ ख
सञ्जय़ उवाच:
ते सर्वे दृढधन्वानः संय़ुगेष्वपलाय़िनः |
४४ क
सञ्जय़ उवाच:
वहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः ||
४४ ख
सञ्जय़ उवाच:
विधूय़ तान्वाणगणान्ये मुक्ताः पार्थिवोत्तमैः |
४५ क
सञ्जय़ उवाच:
पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् |
४५ ख
सञ्जय़ उवाच:
कृत्वा शरविघातं च क्रीडन्निव पितामहः ||
४५ ग
सञ्जय़ उवाच:
नाभिसन्धत्त पाञ्चाल्यं स्मय़मानो मुहुर्मुहुः |
४६ क
सञ्जय़ उवाच:
स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो वाणाञ्शिखण्डिनः |
४६ ख
सञ्जय़ उवाच:
जघान द्रुपदानीके रथान्सप्त महारथः ||
४६ ग
सञ्जय़ उवाच:
ततः किलकिलाशव्दः क्षणेन समपद्यत |
४७ क