chevron_left भीष्म पर्व अध्याय ११४
सञ्जय़ उवाच:
तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् |
४८ ख
सञ्जय़ उवाच:
निमेषान्तरमात्रेण आत्तमात्तं महारणे ||
४८ ग
सञ्जय़ उवाच:
एवमस्य धनूंष्याजौ चिच्छेद सुवहून्यपि |
४९ क
सञ्जय़ उवाच:
ततः शान्तनवो भीष्मो वीभत्सुं नाभ्यवर्तत ||
४९ ख
सञ्जय़ उवाच:
अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दय़त् |
५० क
सञ्जय़ उवाच:
सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ||
५० ख
सञ्जय़ उवाच:
एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः |
५१ क
सञ्जय़ उवाच:
शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे ||
५१ ख
सञ्जय़ उवाच:
न चैष शक्यः समरे जेतुं वज्रभृता अपि |
५२ क
सञ्जय़ उवाच:
न चापि सहिता वीरा देवदानवराक्षसाः |
५२ ख
सञ्जय़ उवाच:
मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्वलाः ||
५२ ग
सञ्जय़ उवाच:
एवं तय़ोः संवदतोः फल्गुनो निशितैः शरैः |
५३ क
सञ्जय़ उवाच:
शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संय़ुगे ||
५३ ख
सञ्जय़ उवाच:
ततो दुःशासनं भूय़ः स्मय़मानोऽभ्यभाषत |
५४ क
सञ्जय़ उवाच:
अतिविद्धः शितैर्वाणैर्भृशं गाण्डीवधन्वना ||
५४ ख
सञ्जय़ उवाच:
वज्राशनिसमस्पर्शाः शिताग्राः सम्प्रवेशिताः |
५५ क
सञ्जय़ उवाच:
विमुक्ता अव्यवच्छिन्ना नेमे वाणाः शिखण्डिनः ||
५५ ख
सञ्जय़ उवाच:
निकृन्तमाना मर्माणि दृढावरणभेदिनः |
५६ क
सञ्जय़ उवाच:
मुसलानीव मे घ्नन्ति नेमे वाणाः शिखण्डिनः ||
५६ ख
सञ्जय़ उवाच:
व्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः |
५७ क
सञ्जय़ उवाच:
मम प्राणानारुजन्ति नेमे वाणाः शिखण्डिनः ||
५७ ख
सञ्जय़ उवाच:
भुजगा इव सङ्क्रुद्धा लेलिहाना विषोल्वणाः |
५८ क
सञ्जय़ उवाच:
ममाविशन्ति मर्माणि नेमे वाणाः शिखण्डिनः ||
५८ ख
सञ्जय़ उवाच:
नाशय़न्तीव मे प्राणान्यमदूता इवाहिताः |
५९ क
सञ्जय़ उवाच:
गदापरिघसंस्पर्शा नेमे वाणाः शिखण्डिनः ||
५९ ख
सञ्जय़ उवाच:
कृन्तन्ति मम गात्राणि माघमासे गवामिव |
६० क
सञ्जय़ उवाच:
अर्जुनस्य इमे वाणा नेमे वाणाः शिखण्डिनः ||
६० ख
सञ्जय़ उवाच:
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः |
६१ क
सञ्जय़ उवाच:
वीरं गण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ||
६१ ख
सञ्जय़ उवाच:
इति व्रुवञ्शान्तनवो दिधक्षुरिव पाण्डवम् |
६२ क
सञ्जय़ उवाच:
सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत ||
६२ ख
सञ्जय़ उवाच:
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातय़त् |
६३ क
सञ्जय़ उवाच:
पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ||
६३ ख
सञ्जय़ उवाच:
चर्माथादत्त गाङ्गेय़ो जातरूपपरिष्कृतम् |
६४ क
सञ्जय़ उवाच:
खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जय़ाय़ वा ||
६४ ख
सञ्जय़ उवाच:
तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः |
६५ क
सञ्जय़ उवाच:
रथादनवरूढस्य तदद्भुतमिवाभवत् ||
६५ ख
सञ्जय़ उवाच:
विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदय़त् |
६६ क
सञ्जय़ उवाच:
अभिद्रवत गाङ्गेय़ं मां वोऽस्तु भय़मण्वपि ||
६६ ख
सञ्जय़ उवाच:
अथ ते तोमरैः प्रासैर्वाणौघैश्च समन्ततः |
६७ क
सञ्जय़ उवाच:
पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा ||
६७ ख
सञ्जय़ उवाच:
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः |
६८ क
सञ्जय़ उवाच:
सिंहनादस्ततो घोरः पाण्डवानामजाय़त ||
६८ ख
सञ्जय़ उवाच:
तथैव तव पुत्राश्च राजन्भीष्मजय़ैषिणः |
६९ क
सञ्जय़ उवाच:
तमेकमभ्यवर्तन्त सिंहनादांश्च नेदिरे ||
६९ ख
सञ्जय़ उवाच:
तत्रासीत्तुमुलं युद्धं तावकानां परैः सह |
७० क
सञ्जय़ उवाच:
दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ||
७० ख
सञ्जय़ उवाच:
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव |
७१ क
सञ्जय़ उवाच:
सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ||
७१ ख
सञ्जय़ उवाच:
अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत् |
७२ क
सञ्जय़ उवाच:
समं च विषमं चैव न प्राज्ञाय़त किञ्चन ||
७२ ख
सञ्जय़ उवाच:
योधानामय़ुतं हत्वा तस्मिन्स दशमेऽहनि |
७३ क
सञ्जय़ उवाच:
अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ||
७३ ख
सञ्जय़ उवाच:
ततः सेनामुखे तस्मिन्स्थितः पार्थो धनञ्जय़ः |
७४ क
सञ्जय़ उवाच:
मध्येन कुरुसैन्यानां द्रावय़ामास वाहिनीम् ||
७४ ख
सञ्जय़ उवाच:
वय़ं श्वेतहय़ाद्भीताः कुन्तीपुत्राद्धनञ्जय़ात् |
७५ क
सञ्जय़ उवाच:
पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात् ||
७५ ख
सञ्जय़ उवाच:
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः |
७६ क
सञ्जय़ उवाच:
अभीषाहाः शूरसेनाः शिवय़ोऽथ वसातय़ः ||
७६ ख
सञ्जय़ उवाच:
शाल्वाश्रय़ास्त्रिगर्ताश्च अम्वष्ठाः केकय़ैः सह |
७७ क
सञ्जय़ उवाच:
द्वादशैते जनपदाः शरार्ता व्रणपीडिताः |
७७ ख
सञ्जय़ उवाच:
सङ्ग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना ||
७७ ग
सञ्जय़ उवाच:
ततस्तमेकं वहवः परिवार्य समन्ततः |
७८ क
सञ्जय़ उवाच:
परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन् ||
७८ ख
सञ्जय़ उवाच:
निपातय़त गृह्णीत विध्यताथ च कर्षत |
७९ क
सञ्जय़ उवाच:
इत्यासीत्तुमुलः शव्दो राजन्भीष्मरथं प्रति ||
७९ ख
सञ्जय़ उवाच:
अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः |
८० क
सञ्जय़ उवाच:
न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम् ||
८० ख
सञ्जय़ उवाच:
एवं विभो तव पिता शरैर्विशकलीकृतः |
८१ क
सञ्जय़ उवाच:
शिताग्रैः फल्गुनेनाजौ प्राक्षिराः प्रापतद्रथात् |
८१ ख
सञ्जय़ उवाच:
किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ||
८१ ग
सञ्जय़ उवाच:
हा हेति दिवि देवानां पार्थिवानां च सर्वशः |
८२ क
सञ्जय़ उवाच:
पतमाने रथाद्भीष्मे वभूव सुमहान्स्वनः ||
८२ ख
सञ्जय़ उवाच:
तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम् |
८३ क
सञ्जय़ उवाच:
सह भीष्मेण सर्वेषां प्रापतन्हृदय़ानि नः ||
८३ ख
सञ्जय़ उवाच:
स पपात महावाहुर्वसुधामनुनादय़न् |
८४ क
सञ्जय़ उवाच:
इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् |
८४ ख
सञ्जय़ उवाच:
धरणीं नास्पृशच्चापि शरसङ्घैः समाचितः ||
८४ ग
सञ्जय़ उवाच:
शरतल्पे महेष्वासं शय़ानं पुरुषर्षभम् |
८५ क
सञ्जय़ उवाच:
रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ||
८५ ख
सञ्जय़ उवाच:
अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी |
८६ क
सञ्जय़ उवाच:
पतन्स ददृशे चापि खर्वितं च दिवाकरम् ||
८६ ख
सञ्जय़ उवाच:
सञ्ज्ञां चैवालभद्वीरः कालं सञ्चिन्त्य भारत |
८७ क
सञ्जय़ उवाच:
अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः ||
८७ ख
सञ्जय़ उवाच:
कथं महात्मा गाङ्गेय़ः सर्वशस्त्रभृतां वरः |
८८ क
सञ्जय़ उवाच:
कालं कर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणाय़ने ||
८८ ख
सञ्जय़ उवाच:
स्थितोऽस्मीति च गाङ्गेय़स्तच्छ्रुत्वा वाक्यमव्रवीत् |
८९ क
सञ्जय़ उवाच:
धारय़ामास च प्राणान्पतितोऽपि हि भूतले |
८९ ख
सञ्जय़ उवाच:
उत्तराय़णमन्विच्छन्भीष्मः कुरुपितामहः ||
८९ ग
सञ्जय़ उवाच:
तस्य तन्मतमाज्ञाय़ गङ्गा हिमवतः सुता |
९० क
सञ्जय़ उवाच:
महर्षीन्हंसरूपेण प्रेषय़ामास तत्र वै ||
९० ख
सञ्जय़ उवाच:
ततः सम्पातिनो हंसास्त्वरिता मानसौकसः |
९१ क
सञ्जय़ उवाच:
आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् |
९१ ख
सञ्जय़ उवाच:
यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ||
९१ ग
सञ्जय़ उवाच:
ते तु भीष्मं समासाद्य मुनय़ो हंसरूपिणः |
९२ क
सञ्जय़ उवाच:
अपश्यञ्शरतल्पस्थं भीष्मं कुरुपितामहम् ||
९२ ख
सञ्जय़ उवाच:
ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् |
९३ क
सञ्जय़ उवाच:
गाङ्गेय़ं भरतश्रेष्ठं दक्षिणेन च भास्करम् ||
९३ ख
सञ्जय़ उवाच:
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः |
९४ क
सञ्जय़ उवाच:
भीष्म एव महात्मा सन्संस्थाता दक्षिणाय़ने ||
९४ ख