सञ्जय़ उवाच:
स चर्मादत्त कौन्तेय़ो जातरूपपरिष्कृतम् |
५० क
सञ्जय़ उवाच:
खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जय़स्य वा |
५० ख
सञ्जय़ उवाच:
तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव ||
५० ग
सञ्जय़ उवाच:
स विचर्मा महाराज विरथः क्रोधमूर्छितः |
५१ क
सञ्जय़ उवाच:
असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति ||
५१ ख
सञ्जय़ उवाच:
स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः |
५२ क
सञ्जय़ उवाच:
अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्वरात् ||
५२ ख
सञ्जय़ उवाच:
ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम् |
५३ क
सञ्जय़ उवाच:
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् ||
५३ ख
सञ्जय़ उवाच:
स भीमसेनः कुपितो वलवान्सत्यविक्रमः |
५४ क
सञ्जय़ उवाच:
विहाय़सं प्राक्रमद्वै कर्णस्य व्यथय़न्मनः ||
५४ ख
सञ्जय़ उवाच:
तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे विजय़ैषिणः |
५५ क
सञ्जय़ उवाच:
लय़मास्थाय़ राधेय़ो भीमसेनमवञ्चय़त् ||
५५ ख
सञ्जय़ उवाच:
तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रिय़म् |
५६ क
सञ्जय़ उवाच:
ध्वजमस्य समासाद्य तस्थौ स धरणीतले ||
५६ ख
सञ्जय़ उवाच:
तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजय़न् |
५७ क
सञ्जय़ उवाच:
यदिय़ेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम् ||
५७ ख
सञ्जय़ उवाच:
स छिन्नधन्वा विरथः स्वधर्ममनुपालय़न् |
५८ क
सञ्जय़ उवाच:
स्वरथं पृष्ठतः कृत्वा युद्धाय़ैव व्यवस्थितः ||
५८ ख
सञ्जय़ उवाच:
तद्विहत्यास्य राधेय़स्तत एनं समभ्ययात् |
५९ क
सञ्जय़ उवाच:
संरव्धः पाण्डवं सङ्ख्ये युद्धाय़ समुपस्थितम् ||
५९ ख
सञ्जय़ उवाच:
तौ समेतौ महारङ्गे स्पर्धमानौ महावलौ |
६० क
सञ्जय़ उवाच:
जीमूताविव घर्मान्ते गर्जमानौ नभस्तले ||
६० ख
सञ्जय़ उवाच:
तय़ोरासीत्सम्प्रहारः क्रुद्धय़ोर्नरसिंहय़ोः |
६१ क
सञ्जय़ उवाच:
अमृष्यमाणय़ोः सङ्ख्ये देवदानवय़ोरिव ||
६१ ख
सञ्जय़ उवाच:
क्षीणशस्त्रस्तु कौन्तेय़ः कर्णेन समभिद्रुतः |
६२ क
सञ्जय़ उवाच:
दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान् |
६२ ख
सञ्जय़ उवाच:
रथमार्गविघातार्थं व्याय़ुधः प्रविवेश ह ||
६२ ग
सञ्जय़ उवाच:
हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च |
६३ क
सञ्जय़ उवाच:
पाण्डवो जीविताकाङ्क्षी राधेय़ं नाभ्यहारय़त् ||
६३ ख
सञ्जय़ उवाच:
व्यवस्थानमथाकाङ्क्षन्धनञ्जय़शरैर्हतम् |
६४ क
सञ्जय़ उवाच:
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जय़ः ||
६४ ख
सञ्जय़ उवाच:
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः |
६५ क
सञ्जय़ उवाच:
हस्त्यङ्गान्यथ कर्णाय़ प्राहिणोत्पाण्डवो नदन् ||
६५ ख
सञ्जय़ उवाच:
चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले |
६६ क
सञ्जय़ उवाच:
तत्तदादाय़ चिक्षेप क्रुद्धः कर्णाय़ पाण्डवः ||
६६ ख
सञ्जय़ उवाच:
तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः |
६७ क
सञ्जय़ उवाच:
व्याय़ुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् ||
६७ ख
सञ्जय़ उवाच:
धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत् |
६८ क
सञ्जय़ उवाच:
उत्स्मय़न्निव राधेय़ो भीमसेनमुवाच ह ||
६८ ख
सञ्जय़ उवाच:
पुनः पुनस्तूवरक मूढ औदरिकेति च |
६९ क
सञ्जय़ उवाच:
अकृतास्त्रक मा योत्सीर्वाल सङ्ग्रामकातर ||
६९ ख
सञ्जय़ उवाच:
यत्र भोज्यं वहुविधं भक्ष्यं पेय़ं च पाण्डव |
७० क
सञ्जय़ उवाच:
तत्र त्वं दुर्मते योग्यो न युद्धेषु कथञ्चन ||
७० ख
सञ्जय़ उवाच:
मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते |
७१ क
सञ्जय़ उवाच:
वनाय़ व्रज कौन्तेय़ न त्वं युद्धविशारदः ||
७१ ख
सञ्जय़ उवाच:
फलमूलाशने युक्तस्त्वं तथातिथिभोजने |
७२ क
सञ्जय़ उवाच:
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ||
७२ ख
सञ्जय़ उवाच:
पुष्पमूलफलाहारो व्रतेषु निय़मेषु च |
७३ क
सञ्जय़ उवाच:
उचितस्त्वं वने भीम न त्वं युद्धविशारदः ||
७३ ख
सञ्जय़ उवाच:
क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर |
७४ क
सञ्जय़ उवाच:
न त्वं युद्धोचितस्तात वनवासरतिर्भव ||
७४ ख
सञ्जय़ उवाच:
सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरय़न्भृशम् |
७५ क
सञ्जय़ उवाच:
योग्यस्ताडय़ितुं क्रोधाद्भोजनार्थं वृकोदर ||
७५ ख
सञ्जय़ उवाच:
कौमारे यानि चाप्यासन्नप्रिय़ाणि विशां पते |
७६ क
सञ्जय़ उवाच:
पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावय़द्भृशम् ||
७६ ख
सञ्जय़ उवाच:
अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः |
७७ क
सञ्जय़ उवाच:
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ||
७७ ख
सञ्जय़ उवाच:
योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः |
७८ क
सञ्जय़ उवाच:
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते ||
७८ ख
सञ्जय़ उवाच:
गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे |
७९ क
सञ्जय़ उवाच:
गृहं वा गच्छ कौन्तेय़ किं ते युद्धेन वालक ||
७९ ख
सञ्जय़ उवाच:
एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत |
८० क
सञ्जय़ उवाच:
प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः ||
८० ख
सञ्जय़ उवाच:
ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः |
८१ क
सञ्जय़ उवाच:
प्राहिणोत्सूतपुत्राय़ केशवेन प्रचोदितः ||
८१ ख
सञ्जय़ उवाच:
ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः |
८२ क
सञ्जय़ उवाच:
गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् ||
८२ ख
सञ्जय़ उवाच:
स भुजङ्गैरिवाय़स्तैर्गाण्डीवप्रेषितैः शरैः |
८३ क
सञ्जय़ उवाच:
भीमसेनादपासेधत्सूतपुत्रं धनञ्जय़ः ||
८३ ख
सञ्जय़ उवाच:
स छिन्नधन्वा भीमेन धनञ्जय़शराहतः |
८४ क
सञ्जय़ उवाच:
कर्णो भीमादपाय़ासीद्रथेन महता द्रुतम् ||
८४ ख
सञ्जय़ उवाच:
भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः |
८५ क
सञ्जय़ उवाच:
अन्वय़ाद्भ्रातरं सङ्ख्ये पाण्डवं सव्यसाचिनम् ||
८५ ख
सञ्जय़ उवाच:
ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्जय़ः |
८६ क
सञ्जय़ उवाच:
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः ||
८६ ख
सञ्जय़ उवाच:
स गरुत्मानिवाकाशे प्रार्थय़न्भुजगोत्तमम् |
८७ क
सञ्जय़ उवाच:
नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः ||
८७ ख
सञ्जय़ उवाच:
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा |
८८ क
सञ्जय़ उवाच:
धनञ्जय़भय़ात्कर्णमुज्जिहीर्षुर्महारथः ||
८८ ख
सञ्जय़ उवाच:
ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः |
८९ क
सञ्जय़ उवाच:
शिलीमुखैर्महाराज मा गास्तिष्ठेति चाव्रवीत् ||
८९ ख
सञ्जय़ उवाच:
स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम् |
९० क
सञ्जय़ उवाच:
तूर्णमभ्याविशद्द्रौणिर्धनञ्जय़शरार्दितः ||
९० ख
सञ्जय़ उवाच:
ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे |
९१ क
सञ्जय़ उवाच:
शव्दं गाण्डीवघोषेण कौन्तेय़ोऽभ्यभवद्वली ||
९१ ख
सञ्जय़ उवाच:
धनञ्जय़स्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात् |
९२ क
सञ्जय़ उवाच:
नातिदीर्घमिवाध्वानं शरैः सन्त्रासय़न्वलम् ||
९२ ख
सञ्जय़ उवाच:
विदार्य देहान्नाराचैर्नरवारणवाजिनाम् |
९३ क
सञ्जय़ उवाच:
कङ्कवर्हिणवासोभिर्वलं व्यधमदर्जुनः ||
९३ ख
सञ्जय़ उवाच:
तद्वलं भरतश्रेष्ठ सवाजिद्विपमानवम् |
९४ क
सञ्जय़ उवाच:
पाकशासनिराय़स्तः पार्थः संनिजघान ह ||
९४ ख