chevron_left भीष्म पर्व अध्याय ११४
सञ्जय़ उवाच:
इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम् |
९५ क
सञ्जय़ उवाच:
सम्प्रेक्ष्य वै महावुद्धिश्चिन्तय़ित्वा च भारत ||
९५ ख
सञ्जय़ उवाच:
तानव्रवीच्छान्तनवो नाहं गन्ता कथञ्चन |
९६ क
सञ्जय़ उवाच:
दक्षिणावृत्त आदित्ये एतन्मे मनसि स्थितम् ||
९६ ख
सञ्जय़ उवाच:
गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् |
९७ क
सञ्जय़ उवाच:
उदगावृत्त आदित्ये हंसाः सत्यं व्रवीमि वः ||
९७ ख
सञ्जय़ उवाच:
धारय़िष्याम्यहं प्राणानुत्तराय़णकाङ्क्षय़ा |
९८ क
सञ्जय़ उवाच:
ऐश्वर्यभूतः प्राणानामुत्सर्गे निय़तो ह्यहम् |
९८ ख
सञ्जय़ उवाच:
तस्मात्प्राणान्धारय़िष्ये मुमूर्षुरुदगाय़ने ||
९८ ग
सञ्जय़ उवाच:
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना |
९९ क
सञ्जय़ उवाच:
छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा ||
९९ ख
सञ्जय़ उवाच:
धारय़िष्ये ततः प्राणानुत्सर्गे निय़ते सति |
१०० क
सञ्जय़ उवाच:
इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः ||
१०० ख
सञ्जय़ उवाच:
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि |
१०१ क
सञ्जय़ उवाच:
पाण्डवाः सृञ्जय़ाश्चैव सिंहनादं प्रचक्रिरे ||
१०१ ख
सञ्जय़ उवाच:
तस्मिन्हते महासत्त्वे भरतानाममध्यमे |
१०२ क
सञ्जय़ उवाच:
न किञ्चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ |
१०२ ख
सञ्जय़ उवाच:
संमोहश्चैव तुमुलः कुरूणामभवत्तदा ||
१०२ ग
सञ्जय़ उवाच:
नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः |
१०३ क
सञ्जय़ उवाच:
विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रिय़ाः ||
१०३ ख
सञ्जय़ उवाच:
दध्युश्चैव महाराज न युद्धे दधिरे मनः |
१०४ क
सञ्जय़ उवाच:
ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ||
१०४ ख
सञ्जय़ उवाच:
अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि |
१०५ क
सञ्जय़ उवाच:
अभावः सुमहान्राजन्कुरूनागादतन्द्रितः ||
१०५ ख
सञ्जय़ उवाच:
हतप्रवीराश्च वय़ं निकृत्ताश्च शितैः शरैः |
१०६ क
सञ्जय़ उवाच:
कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ||
१०६ ख
सञ्जय़ उवाच:
पाण्डवास्तु जय़ं लव्ध्वा परत्र च परां गतिम् |
१०७ क
सञ्जय़ उवाच:
सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघवाहवः |
१०७ ख
सञ्जय़ उवाच:
सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर ||
१०७ ग
सञ्जय़ उवाच:
ततस्तूर्यसहस्रेषु नदत्सु सुमहावलः |
१०८ क
सञ्जय़ उवाच:
आस्फोटय़ामास भृशं भीमसेनो ननर्त च ||
१०८ ख
सञ्जय़ उवाच:
सेनय़ोरुभय़ोश्चापि गाङ्गेय़े विनिपातिते |
१०९ क
सञ्जय़ उवाच:
संन्यस्य वीराः शस्त्राणि प्राध्याय़न्त समन्ततः ||
१०९ ख
सञ्जय़ उवाच:
प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे |
११० क
सञ्जय़ उवाच:
क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजय़न् ||
११० ख
सञ्जय़ उवाच:
ऋषय़ः पितरश्चैव प्रशशंसुर्महाव्रतम् |
१११ क
सञ्जय़ उवाच:
भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे ||
१११ ख
सञ्जय़ उवाच:
महोपनिषदं चैव योगमास्थाय़ वीर्यवान् |
११२ क
सञ्जय़ उवाच:
जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ||
११२ ख