युधिष्ठिर उवाच:
अहिंसा वैदिकं कर्म ध्यानमिन्द्रिय़संय़मः |
१ क
युधिष्ठिर उवाच:
तपोऽथ गुरुशुश्रूषा किं श्रेय़ः पुरुषं प्रति ||
१ ख
वृहस्पतिरु उवाच:
सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि सर्वशः |
२ क
वृहस्पतिरु उवाच:
शृणु सङ्कीर्त्यमानानि षडेव भरतर्षभ ||
२ ख
वृहस्पतिरु उवाच:
हन्त निःश्रेय़सं जन्तोरहं वक्ष्याम्यनुत्तमम् |
३ क
वृहस्पतिरु उवाच:
अहिंसापाश्रय़ं धर्मं यः साधय़ति वै नरः ||
३ ख
वृहस्पतिरु उवाच:
त्रीन्दोषान्सर्वभूतेषु निधाय़ पुरुषः सदा |
४ क
वृहस्पतिरु उवाच:
कामक्रोधौ च संय़म्य ततः सिद्धिमवाप्नुते ||
४ ख
वृहस्पतिरु उवाच:
अहिंसकानि भूतानि दण्डेन विनिहन्ति यः |
५ क
वृहस्पतिरु उवाच:
आत्मनः सुखमन्विच्छन्न स प्रेत्य सुखी भवेत् ||
५ ख
वृहस्पतिरु उवाच:
आत्मोपमश्च भूतेषु यो वै भवति पूरुषः |
६ क
वृहस्पतिरु उवाच:
न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ||
६ ख
वृहस्पतिरु उवाच:
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः |
७ क
वृहस्पतिरु उवाच:
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ||
७ ख
वृहस्पतिरु उवाच:
न तत्परस्य सन्दद्यात्प्रतिकूलं यदात्मनः |
८ क
वृहस्पतिरु उवाच:
एष सङ्क्षेपतो धर्मः कामादन्यः प्रवर्तते ||
८ ख
वृहस्पतिरु उवाच:
प्रत्याख्याने च दाने च सुखदुःखे प्रिय़ाप्रिय़े |
९ क
वृहस्पतिरु उवाच:
आत्मौपम्येन पुरुषः समाधिमधिगच्छति ||
९ ख
वृहस्पतिरु उवाच:
यथा परः प्रक्रमतेऽपरेषु; तथापरः प्रक्रमते परस्मिन् |
१० क
वृहस्पतिरु उवाच:
एषैव तेऽस्तूपमा जीवलोके; यथा धर्मो नैपुणेनोपदिष्टः ||
१० ख
वैशम्पाय़न उवाच:
इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम् |
११ क
वैशम्पाय़न उवाच:
दिवमाचक्रमे धीमान्पश्यतामेव नस्तदा ||
११ ख