मार्कण्डेय़ उवाच:
अथ कन्याप्रदाने स तमेवार्थं विचिन्तय़न् |
१ क
मार्कण्डेय़ उवाच:
समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः ||
१ ख
मार्कण्डेय़ उवाच:
ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान् |
२ क
मार्कण्डेय़ उवाच:
समाहूय़ तिथौ पुण्ये प्रय़यौ सह कन्यया ||
२ ख
मार्कण्डेय़ उवाच:
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः |
३ क
मार्कण्डेय़ उवाच:
पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ||
३ ख
मार्कण्डेय़ उवाच:
तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम् |
४ क
मार्कण्डेय़ उवाच:
कौश्यां वृस्यां समासीनं चक्षुर्हीनं नृपं तदा ||
४ ख
मार्कण्डेय़ उवाच:
स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः |
५ क
मार्कण्डेय़ उवाच:
वाचा सुनिय़तो भूत्वा चकारात्मनिवेदनम् ||
५ ख
मार्कण्डेय़ उवाच:
तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित् |
६ क
मार्कण्डेय़ उवाच:
किमागमनमित्येवं राजा राजानमव्रवीत् ||
६ ख
मार्कण्डेय़ उवाच:
तस्य सर्वमभिप्राय़मितिकर्तव्यतां च ताम् |
७ क
मार्कण्डेय़ उवाच:
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदय़त् ||
७ ख
अश्वपतिरु उवाच:
सावित्री नाम राजर्षे कन्येय़ं मम शोभना |
८ क
अश्वपतिरु उवाच:
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ||
८ ख
द्युमत्सेन उवाच:
च्युताः स्म राज्याद्वनवासमाश्रिता; श्चराम धर्मं निय़तास्तपस्विनः |
९ क
द्युमत्सेन उवाच:
कथं त्वनर्हा वनवासमाश्रमे; सहिष्यते क्लेशमिमं सुता तव ||
९ ख
अश्वपतिरु उवाच:
सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहमेव च |
१० क
अश्वपतिरु उवाच:
न मद्विधे युज्यति वाक्यमीदृशं; विनिश्चय़ेनाभिगतोऽस्मि ते नृप ||
१० ख
अश्वपतिरु उवाच:
आशां नार्हसि मे हन्तुं सौहृदाद्प्रणय़ेन च |
११ क
अश्वपतिरु उवाच:
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि ||
११ ख
अश्वपतिरु उवाच:
अनुरूपो हि संय़ोगे त्वं ममाहं तवापि च |
१२ क
अश्वपतिरु उवाच:
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् ||
१२ ख
द्युमत्सेन उवाच:
पूर्वमेवाभिलषितः सम्वन्धो मे त्वय़ा सह |
१३ क
द्युमत्सेन उवाच:
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ||
१३ ख
द्युमत्सेन उवाच:
अभिप्राय़स्त्वय़ं यो मे पूर्वमेवाभिकाङ्क्षितः |
१४ क
द्युमत्सेन उवाच:
स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ||
१४ ख
मार्कण्डेय़ उवाच:
ततः सर्वान्समानीय़ द्विजानाश्रमवासिनः |
१५ क
मार्कण्डेय़ उवाच:
यथाविधि समुद्वाहं कारय़ामासतुर्नृपौ ||
१५ ख
मार्कण्डेय़ उवाच:
दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम् |
१६ क
मार्कण्डेय़ उवाच:
यय़ौ स्वमेव भवनं युक्तः परमय़ा मुदा ||
१६ ख
मार्कण्डेय़ उवाच:
सत्यवानपि भार्यां तां लव्ध्वा सर्वगुणान्विताम् |
१७ क
मार्कण्डेय़ उवाच:
मुमुदे सा च तं लव्ध्वा भर्तारं मनसेप्सितम् ||
१७ ख
मार्कण्डेय़ उवाच:
गते पितरि सर्वाणि संन्यस्याभरणानि सा |
१८ क
मार्कण्डेय़ उवाच:
जगृहे वल्कलान्येव वस्त्रं काषाय़मेव च ||
१८ ख
मार्कण्डेय़ उवाच:
परिचारैर्गुणैश्चैव प्रश्रय़ेण दमेन च |
१९ क
मार्कण्डेय़ उवाच:
सर्वकामक्रिय़ाभिश्च सर्वेषां तुष्टिमावहत् ||
१९ ख
मार्कण्डेय़ उवाच:
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः |
२० क
मार्कण्डेय़ उवाच:
श्वशुरं देवकार्यैश्च वाचः संय़मनेन च ||
२० ख
मार्कण्डेय़ उवाच:
तथैव प्रिय़वादेन नैपुणेन शमेन च |
२१ क
मार्कण्डेय़ उवाच:
रहश्चैवोपचारेण भर्तारं पर्यतोषय़त् ||
२१ ख
मार्कण्डेय़ उवाच:
एवं तत्राश्रमे तेषां तदा निवसतां सताम् |
२२ क
मार्कण्डेय़ उवाच:
कालस्तपस्यतां कश्चिदतिचक्राम भारत ||
२२ ख
मार्कण्डेय़ उवाच:
सावित्र्यास्तु शय़ानाय़ास्तिष्ठन्त्याश्च दिवानिशम् |
२३ क
मार्कण्डेय़ उवाच:
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ||
२३ ख