chevron_left भीष्म पर्व अध्याय ११४
सञ्जय़ उवाच:
एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् |
१ क
सञ्जय़ उवाच:
विव्यधुः समरे भीष्मं परिवार्य समन्ततः ||
१ ख
सञ्जय़ उवाच:
शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः |
२ क
सञ्जय़ उवाच:
मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः ||
२ ख
सञ्जय़ उवाच:
शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः |
३ क
सञ्जय़ उवाच:
नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत |
३ ख
सञ्जय़ उवाच:
अताडय़न्रणे भीष्मं सहिताः सर्वसृञ्जय़ाः ||
३ ग
सञ्जय़ उवाच:
स विशीर्णतनुत्राणः पीडितो वहुभिस्तदा |
४ क
सञ्जय़ उवाच:
विव्यथे नैव गाङ्गेय़ो भिद्यमानेषु मर्मसु ||
४ ख
सञ्जय़ उवाच:
स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः |
५ क
सञ्जय़ उवाच:
नेमिनिर्ह्रादसंनादो महास्त्रोदय़पावकः ||
५ ख
सञ्जय़ उवाच:
चित्रचापमहाज्वालो वीरक्षय़महेन्धनः |
६ क
सञ्जय़ उवाच:
युगान्ताग्निसमो भीष्मः परेषां समपद्यत ||
६ ख
सञ्जय़ उवाच:
निपत्य रथसङ्घानामन्तरेण विनिःसृतः |
७ क
सञ्जय़ उवाच:
दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन् ||
७ ख
सञ्जय़ उवाच:
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च |
८ क
सञ्जय़ उवाच:
पाण्डवानीकिनीमध्यमाससाद स वेगितः ||
८ ख
सञ्जय़ उवाच:
ततः सात्यकिभीमौ च पाण्डवं च धनञ्जय़म् |
९ क
सञ्जय़ उवाच:
द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ||
९ ख
सञ्जय़ उवाच:
भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः |
१० क
सञ्जय़ उवाच:
षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः ||
१० ख
सञ्जय़ उवाच:
तस्य ते निशितान्वाणान्संनिवार्य महारथाः |
११ क
सञ्जय़ उवाच:
दशभिर्दशभिर्भीष्ममर्दय़ामासुरोजसा ||
११ ख
सञ्जय़ उवाच:
शिखण्डी तु रणे वाणान्यान्मुमोच महाव्रते |
१२ क
सञ्जय़ उवाच:
ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः ||
१२ ख
सञ्जय़ उवाच:
ततः किरीटी संरव्धो भीष्ममेवाभ्यवर्तत |
१३ क
सञ्जय़ उवाच:
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ||
१३ ख
सञ्जय़ उवाच:
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः |
१४ क
सञ्जय़ उवाच:
द्रोणश्च कृतवर्मा च सैन्धवश्च जय़द्रथः ||
१४ ख
सञ्जय़ उवाच:
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च |
१५ क
सञ्जय़ उवाच:
सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ||
१५ ख
सञ्जय़ उवाच:
उत्तमास्त्राणि दिव्यानि दर्शय़न्तो महारथाः |
१६ क
सञ्जय़ उवाच:
अभिपेतुर्भृशं क्रुद्धाश्छादय़न्त स्म पाण्डवान् ||
१६ ख
सञ्जय़ उवाच:
तेषामापततां शव्दः शुश्रुवे फल्गुनं प्रति |
१७ क
सञ्जय़ उवाच:
उद्वृत्तानां यथा शव्दः समुद्राणां युगक्षय़े ||
१७ ख
सञ्जय़ उवाच:
हतानय़त गृह्णीत युध्यतापि च कृन्तत |
१८ क
सञ्जय़ उवाच:
इत्यासीत्तुमुलः शव्दः फल्गुनस्य रथं प्रति ||
१८ ख
सञ्जय़ उवाच:
तं शव्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः |
१९ क
सञ्जय़ उवाच:
अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ||
१९ ख
सञ्जय़ उवाच:
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः |
२० क
सञ्जय़ उवाच:
विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः ||
२० ख
सञ्जय़ उवाच:
अभिमन्युश्च सङ्क्रुद्धः सप्तैते क्रोधमूर्छिताः |
२१ क
सञ्जय़ उवाच:
समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ||
२१ ख
सञ्जय़ उवाच:
तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् |
२२ क
सञ्जय़ उवाच:
सङ्ग्रामे भरतश्रेष्ठ देवानां दानवैरिव ||
२२ ख
सञ्जय़ उवाच:
शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना |
२३ क
सञ्जय़ उवाच:
अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे |
२३ ख
सञ्जय़ उवाच:
सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ||
२३ ग
सञ्जय़ उवाच:
सोऽन्यत्कार्मुकमादाय़ गाङ्गेय़ो वेगवत्तरम् |
२४ क
सञ्जय़ उवाच:
तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः ||
२४ ख
सञ्जय़ उवाच:
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः |
२५ क
सञ्जय़ उवाच:
धनुर्भीष्मस्य चिच्छेद सव्यसाची परन्तपः ||
२५ ख
सञ्जय़ उवाच:
स च्छिन्नधन्वा सङ्क्रुद्धः सृक्किणी परिसंलिहन् |
२६ क
सञ्जय़ उवाच:
शक्तिं जग्राह सङ्क्रुद्धो गिरीणामपि दारणीम् |
२६ ख
सञ्जय़ उवाच:
तां च चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति ||
२६ ग
सञ्जय़ उवाच:
तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीमिव |
२७ क
सञ्जय़ उवाच:
समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ||
२७ ख
सञ्जय़ उवाच:
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः |
२८ क
सञ्जय़ उवाच:
सङ्क्रुद्धो भरतश्रेष्ठ भीष्मवाहुवलेरिताम् ||
२८ ख
सञ्जय़ उवाच:
सा पपात परिच्छिन्ना सङ्क्रुद्धेन किरीटिना |
२९ क
सञ्जय़ उवाच:
मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा ||
२९ ख
सञ्जय़ उवाच:
छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः |
३० क
सञ्जय़ उवाच:
अचिन्तय़द्रणे वीरो वुद्ध्या परपुरञ्जय़ः ||
३० ख
सञ्जय़ उवाच:
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् |
३१ क
सञ्जय़ उवाच:
यद्येषां न भवेद्गोप्ता विष्वक्सेनो महावलः ||
३१ ख
सञ्जय़ उवाच:
कारणद्वय़मास्थाय़ नाहं योत्स्यामि पाण्डवैः |
३२ क
सञ्जय़ उवाच:
अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः ||
३२ ख
सञ्जय़ उवाच:
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत् |
३३ क
सञ्जय़ उवाच:
स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा |
३३ ख
सञ्जय़ उवाच:
तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ||
३३ ग
सञ्जय़ उवाच:
एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः |
३४ क
सञ्जय़ उवाच:
ऋषय़ो वसवश्चैव विय़त्स्था भीष्ममव्रुवन् ||
३४ ख
सञ्जय़ उवाच:
यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रिय़म् |
३५ क
सञ्जय़ उवाच:
तत्कुरुष्व महेष्वास युद्धाद्वुद्धिं निवर्तय़ ||
३५ ख
सञ्जय़ उवाच:
तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः |
३६ क
सञ्जय़ उवाच:
अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ||
३६ ख
सञ्जय़ उवाच:
देवदुन्दुभय़श्चैव सम्प्रणेदुर्महास्वनाः |
३७ क
सञ्जय़ उवाच:
पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव ||
३७ ख
सञ्जय़ उवाच:
न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप |
३८ क
सञ्जय़ उवाच:
ऋते भीष्मं महावाहुं मां चापि मुनितेजसा ||
३८ ख
सञ्जय़ उवाच:
सम्भ्रमश्च महानासीत्त्रिदशानां विशां पते |
३९ क
सञ्जय़ उवाच:
पतिष्यति रथाद्भीष्मे सर्वलोकप्रिय़े तदा ||
३९ ख
सञ्जय़ उवाच:
इति देवगणानां च श्रुत्वा वाक्यं महामनाः |
४० क
सञ्जय़ उवाच:
ततः शान्तनवो भीष्मो वीभत्सुं नाभ्यवर्तत |
४० ख
सञ्जय़ उवाच:
भिद्यमानः शितैर्वाणैः सर्वावरणभेदिभिः ||
४० ग
सञ्जय़ उवाच:
शिखण्डी तु महाराज भरतानां पितामहम् |
४१ क
सञ्जय़ उवाच:
आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ||
४१ ख
सञ्जय़ उवाच:
स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः |
४२ क
सञ्जय़ उवाच:
नाकम्पत महाराज क्षितिकम्पे यथाचलः ||
४२ ख
सञ्जय़ उवाच:
ततः प्रहस्य वीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः |
४३ क
सञ्जय़ उवाच:
गाङ्गेय़ं पञ्चविंशत्या क्षुद्रकाणां समर्पय़त् ||
४३ ख
सञ्जय़ उवाच:
पुनः शरशतेनैनं त्वरमाणो धनञ्जय़ः |
४४ क
सञ्जय़ उवाच:
सर्वगात्रेषु सङ्क्रुद्धः सर्वमर्मस्वताडय़त् ||
४४ ख
सञ्जय़ उवाच:
एवमन्यैरपि भृशं वध्यमानो महारणे |
४५ क
सञ्जय़ उवाच:
न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः ||
४५ ख
सञ्जय़ उवाच:
ततः किरीटी संरव्धो भीष्ममेवाभ्यवर्तत |
४६ क
सञ्जय़ उवाच:
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ||
४६ ख
सञ्जय़ उवाच:
अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे |
४७ क
सञ्जय़ उवाच:
सारथिं विशिखैश्चास्य दशभिः समकम्पय़त् ||
४७ ख
सञ्जय़ उवाच:
सोऽन्यत्कार्मुकमादत्त गाङ्गेय़ो वलवत्तरम् |
४८ क