chevron_left द्रोण पर्व अध्याय ११४
सञ्जय़ उवाच:
ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः |
१ क
सञ्जय़ उवाच:
मुमोच शरवर्षाणि चित्राणि च वहूनि च ||
१ ख
सञ्जय़ उवाच:
वध्यमानो महाराज सूतपुत्रेण पाण्डवः |
२ क
सञ्जय़ उवाच:
न विव्यथे भीमसेनो भिद्यमान इवाचलः ||
२ ख
सञ्जय़ उवाच:
स कर्णं कर्णिना कर्णे पीतेन निशितेन च |
३ क
सञ्जय़ उवाच:
विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा ||
३ ख
सञ्जय़ उवाच:
स कुण्डलं महत्कर्णात्कर्णस्यापातय़द्भुवि |
४ क
सञ्जय़ उवाच:
तपनीय़ं महाराज दीप्तं ज्योतिरिवाम्वरात् ||
४ ख
सञ्जय़ उवाच:
अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे |
५ क
सञ्जय़ उवाच:
आजघान भृशं भीमः स्मय़न्निव महावलः ||
५ ख
सञ्जय़ उवाच:
पुनरस्य त्वरन्भीमो नाराचान्दश भारत |
६ क
सञ्जय़ उवाच:
रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा ||
६ ख
सञ्जय़ उवाच:
ते ललाटं समासाद्य सूतपुत्रस्य मारिष |
७ क
सञ्जय़ उवाच:
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ||
७ ख
सञ्जय़ उवाच:
ललाटस्थैस्तु तैर्वाणैः सूतपुत्रो व्यरोचत |
८ क
सञ्जय़ उवाच:
नीलोत्पलमय़ीं मालां धारय़न्स पुरा यथा ||
८ ख
सञ्जय़ उवाच:
ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना |
९ क
सञ्जय़ उवाच:
वेगं चक्रे महावेगो भीमसेनवधं प्रति ||
९ ख
सञ्जय़ उवाच:
तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम् |
१० क
सञ्जय़ उवाच:
अमर्षी वलवान्क्रुद्धः प्रेषय़ामास भारत ||
१० ख
सञ्जय़ उवाच:
ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः |
११ क
सञ्जय़ उवाच:
समरे तमनादृत्य नास्य वीर्यमचिन्तय़त् ||
११ ख
सञ्जय़ उवाच:
ततः कर्णो महाराज पाण्डवं निशितैः शरैः |
१२ क
सञ्जय़ उवाच:
आजघानोरसि क्रुद्धः क्रुद्धरूपं परन्तपः ||
१२ ख
सञ्जय़ उवाच:
जीमूताविव चान्योन्यं तौ ववर्षतुराहवे |
१३ क
सञ्जय़ उवाच:
तलशव्दरवैश्चैव त्रासय़न्तौ परस्परम् ||
१३ ख
सञ्जय़ उवाच:
शरजालैश्च विविधैश्छादय़ामासतुर्मृधे |
१४ क
सञ्जय़ उवाच:
अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ ||
१४ ख
सञ्जय़ उवाच:
ततो भीमो महावाहू राधेय़स्य महात्मनः |
१५ क
सञ्जय़ उवाच:
क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा ||
१५ ख
सञ्जय़ उवाच:
तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः |
१६ क
सञ्जय़ उवाच:
अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम् ||
१६ ख
सञ्जय़ उवाच:
दृष्ट्वा च कुरुसौवीरसैन्धवानां वलक्षय़म् |
१७ क
सञ्जय़ उवाच:
सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् ||
१७ ख
सञ्जय़ उवाच:
हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः |
१८ क
सञ्जय़ उवाच:
सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजाय़त ||
१८ ख
सञ्जय़ उवाच:
स विस्फार्य महच्चापं कार्तस्वरविभूषितम् |
१९ क
सञ्जय़ उवाच:
भीमं प्रैक्षत राधेय़ो राजन्घोरेण चक्षुषा ||
१९ ख
सञ्जय़ उवाच:
ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत |
२० क
सञ्जय़ उवाच:
मध्यन्दिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ||
२० ख
सञ्जय़ उवाच:
मरीचिविकचस्येव राजन्भानुमतो वपुः |
२१ क
सञ्जय़ उवाच:
आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः ||
२१ ख
सञ्जय़ उवाच:
कराभ्यामाददानस्य सन्दधानस्य चाशुगान् |
२२ क
सञ्जय़ उवाच:
विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे ||
२२ ख
सञ्जय़ उवाच:
अग्निचक्रोपमं घोरं मण्डलीकृतमाय़ुधम् |
२३ क
सञ्जय़ उवाच:
कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः ||
२३ ख
सञ्जय़ उवाच:
स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः |
२४ क
सञ्जय़ उवाच:
प्राच्छादय़न्महाराज दिशः सूर्यस्य च प्रभाम् ||
२४ ख
सञ्जय़ उवाच:
ततः कनकपुङ्खानां शराणां नतपर्वणाम् |
२५ क
सञ्जय़ उवाच:
धनुश्च्युतानां विय़ति ददृशे वहुधा व्रजः ||
२५ ख
सञ्जय़ उवाच:
शरासनादाधिरथेः प्रभवन्तः स्म साय़काः |
२६ क
सञ्जय़ उवाच:
श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्वरे ||
२६ ख
सञ्जय़ उवाच:
गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् |
२७ क
सञ्जय़ उवाच:
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् ||
२७ ख
सञ्जय़ उवाच:
ते तु चापवलोद्धूताः शातकुम्भविभूषिताः |
२८ क
सञ्जय़ उवाच:
अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति ||
२८ ख
सञ्जय़ उवाच:
ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः |
२९ क
सञ्जय़ उवाच:
शलभानामिव व्राताः शराः कर्णसमीरिताः ||
२९ ख
सञ्जय़ उवाच:
चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म साय़काः |
३० क
सञ्जय़ उवाच:
एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः ||
३० ख
सञ्जय़ उवाच:
पर्वतं वारिधाराभिश्छादय़न्निव तोय़दः |
३१ क
सञ्जय़ उवाच:
कर्णः प्राच्छादय़त्क्रुद्धो भीमं साय़कवृष्टिभिः ||
३१ ख
सञ्जय़ उवाच:
तत्र भारत भीमस्य वलवीर्यपराक्रमम् |
३२ क
सञ्जय़ उवाच:
व्यवसाय़ं च पुत्रास्ते प्रैक्षन्त कुरुभिः सह ||
३२ ख
सञ्जय़ उवाच:
तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम् |
३३ क
सञ्जय़ उवाच:
अचिन्तय़ित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ||
३३ ख
सञ्जय़ उवाच:
रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते |
३४ क
सञ्जय़ उवाच:
आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् |
३४ ख
सञ्जय़ उवाच:
तस्माच्छराः प्रादुरासन्पूरय़न्त इवाम्वरम् ||
३४ ग
सञ्जय़ उवाच:
सुवर्णपुङ्खैर्भीमेन साय़कैर्नतपर्वभिः |
३५ क
सञ्जय़ उवाच:
गगने रचिता माला काञ्चनीव व्यराजत ||
३५ ख
सञ्जय़ उवाच:
ततो व्योम्नि विषक्तानि शरजालानि भागशः |
३६ क
सञ्जय़ उवाच:
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः ||
३६ ख
सञ्जय़ उवाच:
कर्णस्य शरजालौघैर्भीमसेनस्य चोभय़ोः |
३७ क
सञ्जय़ उवाच:
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे |
३७ ख
सञ्जय़ उवाच:
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः ||
३७ ग
सञ्जय़ उवाच:
स भीमं छादय़न्वाणैः सूतपुत्रः पृथग्विधैः |
३८ क
सञ्जय़ उवाच:
उपारोहदनादृत्य तस्य वीर्यं महात्मनः ||
३८ ख
सञ्जय़ उवाच:
तय़ोर्विसृजतोस्तत्र शरजालानि मारिष |
३९ क
सञ्जय़ उवाच:
वाय़ुभूतान्यदृश्यन्त संसक्तानीतरेतरम् ||
३९ ख
सञ्जय़ उवाच:
तस्मै कर्णः शितान्वाणान्कर्मारपरिमार्जितान् |
४० क
सञ्जय़ उवाच:
सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षय़ा ||
४० ख
सञ्जय़ उवाच:
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातय़त् |
४१ क
सञ्जय़ उवाच:
विशेषय़न्सूतपुत्रं भीमस्तिष्ठेति चाव्रवीत् ||
४१ ख
सञ्जय़ उवाच:
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः |
४२ क
सञ्जय़ उवाच:
अमर्षी वलवान्क्रुद्धो दिधक्षन्निव पावकः ||
४२ ख
सञ्जय़ उवाच:
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् |
४३ क
सञ्जय़ उवाच:
युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमाय़या ||
४३ ख
सञ्जय़ उवाच:
तस्येषुधी धनुर्ज्यां च वाणैः संनतपर्वभिः |
४४ क
सञ्जय़ उवाच:
रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत् ||
४४ ख
सञ्जय़ उवाच:
अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम् |
४५ क
सञ्जय़ उवाच:
सोऽवप्लुत्य द्रुतं सूतो युय़ुधानरथं यय़ौ ||
४५ ख
सञ्जय़ उवाच:
उत्स्मय़न्निव भीमस्य क्रुद्धः कालानलप्रभः |
४६ क
सञ्जय़ उवाच:
ध्वजं चिच्छेद राधेय़ः पताकाश्च न्यपातय़त् ||
४६ ख
सञ्जय़ उवाच:
स विधन्वा महाराज रथशक्तिं परामृशत् |
४७ क
सञ्जय़ उवाच:
तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति ||
४७ ख
सञ्जय़ उवाच:
तामाधिरथिराय़स्तः शक्तिं हेमपरिष्कृताम् |
४८ क
सञ्जय़ उवाच:
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ||
४८ ख
सञ्जय़ उवाच:
सापतद्दशधा राजन्निकृत्ता कर्णसाय़कैः |
४९ क
सञ्जय़ उवाच:
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रय़ोधिनः ||
४९ ख