chevron_left उद्योग पर्व अध्याय ११५
गालव उवाच:
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः |
१ क
गालव उवाच:
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः ||
१ ख
गालव उवाच:
तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः |
२ क
गालव उवाच:
धार्मिकः संय़मे युक्तः सत्यश्चैव जनेश्वरः ||
२ ख
नारद उवाच:
तमुपागम्य स मुनिर्न्याय़तस्तेन सत्कृतः |
३ क
नारद उवाच:
गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदय़त् ||
३ ख
दिवोदास उवाच:
श्रुतमेतन्मय़ा पूर्वं किमुक्त्वा विस्तरं द्विज |
४ क
दिवोदास उवाच:
काङ्क्षितो हि मय़ैषोऽर्थः श्रुत्वैतद्द्विजसत्तम ||
४ ख
दिवोदास उवाच:
एतच्च मे वहुमतं यदुत्सृज्य नराधिपान् |
५ क
दिवोदास उवाच:
मामेवमुपय़ातोऽसि भावि चैतदसंशय़म् ||
५ ख
दिवोदास उवाच:
स एव विभवोऽस्माकमश्वानामपि गालव |
६ क
दिवोदास उवाच:
अहमप्येकमेवास्यां जनय़िष्यामि पार्थिवम् ||
६ ख
नारद उवाच:
तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः |
७ क
नारद उवाच:
विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान् ||
७ ख
नारद उवाच:
रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः |
८ क
नारद उवाच:
स्वाहाय़ां च यथा वह्निर्यथा शच्यां स वासवः ||
८ ख
नारद उवाच:
यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णय़ा यमः |
९ क
नारद उवाच:
वरुणश्च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः ||
९ ख
नारद उवाच:
यथा नाराय़णो लक्ष्म्यां जाह्नव्यां च यथोदधिः |
१० क
नारद उवाच:
यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः ||
१० ख
नारद उवाच:
अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालय़ा |
११ क
नारद उवाच:
च्यवनश्च सुकन्याय़ां पुलस्त्यः सन्ध्यया यथा ||
११ ख
नारद उवाच:
अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा |
१२ क
नारद उवाच:
यथा भृगुः पुलोमाय़ामदित्यां कश्यपो यथा ||
१२ ख
नारद उवाच:
रेणुकाय़ां यथार्चीको हैमवत्यां च कौशिकः |
१३ क
नारद उवाच:
वृहस्पतिश्च ताराय़ां शुक्रश्च शतपर्वय़ा ||
१३ ख
नारद उवाच:
यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः |
१४ क
नारद उवाच:
ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः ||
१४ ख
नारद उवाच:
तथा तु रममाणस्य दिवोदासस्य भूपतेः |
१५ क
नारद उवाच:
माधवी जनय़ामास पुत्रमेकं प्रतर्दनम् ||
१५ ख
नारद उवाच:
अथाजगाम भगवान्दिवोदासं स गालवः |
१६ क
नारद उवाच:
समय़े समनुप्राप्ते वचनं चेदमव्रवीत् ||
१६ ख
नारद उवाच:
निर्यातय़तु मे कन्यां भवांस्तिष्ठन्तु वाजिनः |
१७ क
नारद उवाच:
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते ||
१७ ख
नारद उवाच:
दिवोदासोऽथ धर्मात्मा समय़े गालवस्य ताम् |
१८ क
नारद उवाच:
कन्यां निर्यातय़ामास स्थितः सत्ये महीपतिः ||
१८ ख