chevron_left द्रोण पर्व अध्याय ११५
धृतराष्ट्र उवाच:
अहन्यहनि मे दीप्तं यशः पतति सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
हता मे वहवो योधा मन्ये कालस्य पर्ययम् ||
१ ख
धृतराष्ट्र उवाच:
धनञ्जय़स्तु सङ्क्रुद्धः प्रविष्टो मामकं वलम् |
२ क
धृतराष्ट्र उवाच:
रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि ||
२ ख
धृतराष्ट्र उवाच:
ताभ्यामूर्जितवीर्याभ्यामाप्याय़ितपराक्रमः |
३ क
धृतराष्ट्र उवाच:
सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ||
३ ख
धृतराष्ट्र उवाच:
तदा प्रभृति मा शोको दहत्यग्निरिवाशय़म् |
४ क
धृतराष्ट्र उवाच:
ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान् ||
४ ख
धृतराष्ट्र उवाच:
अप्रिय़ं सुमहत्कृत्वा सिन्धुराजः किरीटिनः |
५ क
धृतराष्ट्र उवाच:
चक्षुर्विषय़मापन्नः कथं मुच्येत जीवितः ||
५ ख
धृतराष्ट्र उवाच:
अनुमानाच्च पश्यामि नास्ति सञ्जय़ सैन्धवः |
६ क
धृतराष्ट्र उवाच:
युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः ||
६ ख
धृतराष्ट्र उवाच:
यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत् |
७ क
धृतराष्ट्र उवाच:
एकः प्रविष्टः सङ्क्रुद्धो नलिनीमिव कुञ्जरः ||
७ ख
धृतराष्ट्र उवाच:
तस्य वृष्णिप्रवीरस्य व्रूहि युद्धं यथातथम् |
८ क
धृतराष्ट्र उवाच:
धनञ्जय़ार्थे यत्तस्य कुशलो ह्यसि सञ्जय़ ||
८ ख
सञ्जय़ उवाच:
तथा तु वैकर्तनपीडितं तं; भीमं प्रय़ान्तं पुरुषप्रवीरम् |
९ क
सञ्जय़ उवाच:
समीक्ष्य राजन्नरवीरमध्ये; शिनिप्रवीरोऽनुय़यौ रथेन ||
९ ख
सञ्जय़ उवाच:
नदन्यथा वज्रधरस्तपान्ते; ज्वलन्यथा जलदान्ते च सूर्यः |
१० क
सञ्जय़ उवाच:
निघ्नन्नमित्रान्धनुषा दृढेन; सङ्कम्पय़ंस्तव पुत्रस्य सेनाम् ||
१० ख
सञ्जय़ उवाच:
तं यान्तमश्वै रजतप्रकाशै; राय़ोधने नरवीरं चरन्तम् |
११ क
सञ्जय़ उवाच:
नाशक्नुवन्वारय़ितुं त्वदीय़ाः; सर्वे रथा भारत माधवाग्र्यम् ||
११ ख
सञ्जय़ उवाच:
अमर्षपूर्णस्त्वनिवृत्तय़ोधी; शरासनी काञ्चनवर्मधारी |
१२ क
सञ्जय़ उवाच:
अलम्वुसः सात्यकिं माधवाग्र्य; मवारय़द्राजवरोऽभिपत्य ||
१२ ख
सञ्जय़ उवाच:
तय़ोरभूद्भारत सम्प्रहार; स्तथागतो नैव वभूव कश्चित् |
१३ क
सञ्जय़ उवाच:
प्रैक्षन्त एवाहवशोभिनौ तौ; योधास्त्वदीय़ाश्च परे च सर्वे ||
१३ ख
सञ्जय़ उवाच:
अविध्यदेनं दशभिः पृषत्कै; रलम्वुसो राजवरः प्रसह्य |
१४ क
सञ्जय़ उवाच:
अनागतानेव तु तान्पृषत्कां; श्चिच्छेद वाणैः शिनिपुङ्गवोऽपि ||
१४ ख
सञ्जय़ उवाच:
पुनः स वाणैस्त्रिभिरग्निकल्पै; राकर्णपूर्णैर्निशितैः सुपुङ्खैः |
१५ क
सञ्जय़ उवाच:
विव्याध देहावरणं विदार्य; ते सात्यकेराविविशुः शरीरम् ||
१५ ख
सञ्जय़ उवाच:
तैः काय़मस्याग्न्यनिलप्रभावै; र्विदार्य वाणैरपरैर्ज्वलद्भिः |
१६ क
सञ्जय़ उवाच:
आजघ्निवांस्तान्रजतप्रकाशा; नश्वांश्चतुर्भिश्चतुरः प्रसह्य ||
१६ ख
सञ्जय़ उवाच:
तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेश्चक्रधरप्रभावः |
१७ क
सञ्जय़ उवाच:
अलम्वुसस्योत्तमवेगवद्भि; र्हय़ांश्चतुर्भिर्निजघान वाणैः ||
१७ ख
सञ्जय़ उवाच:
अथास्य सूतस्य शिरो निकृत्य; भल्लेन कालानलसंनिभेन |
१८ क
सञ्जय़ उवाच:
सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् ||
१८ ख
सञ्जय़ उवाच:
निहत्य तं पार्थिवपुत्रपौत्रं; सङ्ख्ये मधूनामृषभः प्रमाथी |
१९ क
सञ्जय़ उवाच:
ततोऽन्वय़ादर्जुनमेव वीरः; सैन्यानि राजंस्तव संनिवार्य ||
१९ ख
सञ्जय़ उवाच:
अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम् |
२० क
सञ्जय़ उवाच:
घ्नन्तं कुरूणामिषुभिर्वलानि; पुनः पुनर्वाय़ुरिवाभ्रपूगान् ||
२० ख
सञ्जय़ उवाच:
ततोऽवहन्सैन्धवाः साधु दान्ता; गोक्षीरकुन्देन्दुहिमप्रकाशाः |
२१ क
सञ्जय़ उवाच:
सुवर्णजालावतताः सदश्वा; यतो यतः कामय़ते नृसिंहः ||
२१ ख
सञ्जय़ उवाच:
अथात्मजास्ते सहिताभिपेतु; रन्ये च योधास्त्वरितास्त्वदीय़ाः |
२२ क
सञ्जय़ उवाच:
कृत्वा मुखं भारत योधमुख्यं; दुःशासनं त्वत्सुतमाजमीढ ||
२२ ख
सञ्जय़ उवाच:
ते सर्वतः सम्परिवार्य सङ्ख्ये; शैनेय़माजघ्नुरनीकसाहाः |
२३ क
सञ्जय़ उवाच:
स चापि तान्प्रवरः सात्वतानां; न्यवारय़द्वाणजालेन वीरः ||
२३ ख
सञ्जय़ उवाच:
निवार्य तांस्तूर्णममित्रघाती; नप्ता शिनेः पत्रिभिरग्निकल्पैः |
२४ क
सञ्जय़ उवाच:
दुःशासनस्यापि जघान वाहा; नुद्यम्य वाणासनमाजमीढ ||
२४ ख