chevron_left भीष्म पर्व अध्याय ११६
सञ्जय़ उवाच:
त्यक्त्वा मन्युमुपशाम्यस्व पार्थैः; पर्याप्तमेतद्यत्कृतं फल्गुनेन |
४७ क
सञ्जय़ उवाच:
भीष्मस्यान्तादस्तु वः सौहृदं वा; सम्प्रश्लेषः साधु राजन्प्रसीद ||
४७ ख
सञ्जय़ उवाच:
राज्यस्यार्धं दीय़तां पाण्डवाना; मिन्द्रप्रस्थं धर्मराजोऽनुशास्तु |
४८ क
सञ्जय़ उवाच:
मा मित्रध्रुक्पार्थिवानां जघन्यः; पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र ||
४८ ख
सञ्जय़ उवाच:
ममावसानाच्छान्तिरस्तु प्रजानां; सङ्गच्छन्तां पार्थिवाः प्रीतिमन्तः |
४९ क
सञ्जय़ उवाच:
पिता पुत्रं मातुलं भागिनेय़ो; भ्राता चैव भ्रातरं प्रैतु राजन् ||
४९ ख
सञ्जय़ उवाच:
न चेदेवं प्राप्तकालं वचो मे; मोहाविष्टः प्रतिपत्स्यस्यवुद्ध्या |
५० क
सञ्जय़ उवाच:
भीष्मस्यान्तादेतदन्ताः स्थ सर्वे; सत्यामेतां भारतीमीरय़ामि ||
५० ख
सञ्जय़ उवाच:
एतद्वाक्यं सौहृदादापगेय़ो; मध्ये राज्ञां भारतं श्रावय़ित्वा |
५१ क
सञ्जय़ उवाच:
तूष्णीमासीच्छल्यसन्तप्तमर्मा; यत्वात्मानं वेदनां संनिगृह्य ||
५१ ख