युधिष्ठिर उवाच:
पितामह महाप्राज्ञ संशय़ो मे महानय़म् |
१ क
युधिष्ठिर उवाच:
स च्छेत्तव्यस्त्वय़ा राजन्भवान्कुलकरो हि नः ||
१ ख
युधिष्ठिर उवाच:
पुरुषाणामय़ं तात दुर्वृत्तानां दुरात्मनाम् |
२ क
युधिष्ठिर उवाच:
कथितो वाक्यसञ्चारस्ततो विज्ञापय़ामि ते ||
२ ख
युधिष्ठिर उवाच:
यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदय़म् |
३ क
युधिष्ठिर उवाच:
आय़त्यां च तदात्वे च क्षेमवृद्धिकरं च यत् ||
३ ख
युधिष्ठिर उवाच:
पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत् |
४ क
युधिष्ठिर उवाच:
अन्नपाने शरीरे च हितं यत्तद्व्रवीहि मे ||
४ ख
युधिष्ठिर उवाच:
अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृतः |
५ क
युधिष्ठिर उवाच:
असुहृत्समुपेतो वा स कथं रञ्जय़ेत्प्रजाः ||
५ ख
युधिष्ठिर उवाच:
यो ह्यसत्प्रग्रहरतिः स्नेहरागवलात्कृतः |
६ क
युधिष्ठिर उवाच:
इन्द्रिय़ाणामनीशत्वादसज्जनवुभूषकः ||
६ ख
युधिष्ठिर उवाच:
तस्य भृत्या विगुणतां यान्ति सर्वे कुलोद्गताः |
७ क
युधिष्ठिर उवाच:
न च भृत्यफलैरर्थैः स राजा सम्प्रय़ुज्यते ||
७ ख
युधिष्ठिर उवाच:
एतान्मे संशय़स्थस्य राजधर्मान्सुदुर्लभान् |
८ क
युधिष्ठिर उवाच:
वृहस्पतिसमो वुद्ध्या भवाञ्शंसितुमर्हति ||
८ ख
युधिष्ठिर उवाच:
शंसिता पुरुषव्याघ्र त्वं नः कुलहिते रतः |
९ क
युधिष्ठिर उवाच:
क्षत्ता चैव पटुप्रज्ञो यो नः शंसति सर्वदा ||
९ ख
युधिष्ठिर उवाच:
त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदय़म् |
१० क
युधिष्ठिर उवाच:
अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम् ||
१० ख
युधिष्ठिर उवाच:
कीदृषाः संनिकर्षस्था भृत्याः स्युर्वा गुणान्विताः |
११ क
युधिष्ठिर उवाच:
कीदृशैः किङ्कुलीनैर्वा सह यात्रा विधीय़ते ||
११ ख
युधिष्ठिर उवाच:
न ह्येको भृत्यरहितो राजा भवति रक्षिता |
१२ क
युधिष्ठिर उवाच:
राज्यं चेदं जनः सर्वस्तत्कुलीनोऽभिशंसति ||
१२ ख
युधिष्ठिर उवाच:
न हि प्रशास्तुं राज्यं हि शक्यमेकेन भारत |
१३ क
युधिष्ठिर उवाच:
असहाय़वता तात नैवार्थाः केचिदप्युत |
१३ ख
युधिष्ठिर उवाच:
लव्धुं लव्ध्वा चापि सदा रक्षितुं भरतर्षभ ||
१३ ग
भीष्म उवाच:
यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः |
१४ क
भीष्म उवाच:
हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते ||
१४ ख
भीष्म उवाच:
मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः |
१५ क
भीष्म उवाच:
नृपतेर्मतिदाः सन्ति सम्वन्धज्ञानकोविदाः ||
१५ ख
भीष्म उवाच:
अनागतविधातारः कालज्ञानविशारदाः |
१६ क
भीष्म उवाच:
अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते ||
१६ ख
भीष्म उवाच:
समदुःखसुखा यस्य सहाय़ाः सत्यकारिणः |
१७ क
भीष्म उवाच:
अर्थचिन्तापरा यस्य स राज्यफलमश्नुते ||
१७ ख
भीष्म उवाच:
यस्य नार्तो जनपदः संनिकर्षगतः सदा |
१८ क
भीष्म उवाच:
अक्षुद्रः सत्पथालम्वी स राज्यफलभाग्भवेत् ||
१८ ख
भीष्म उवाच:
कोशाक्षपटलं यस्य कोशवृद्धिकरैर्जनैः |
१९ क
भीष्म उवाच:
आप्तैस्तुष्टैश्च सततं धार्यते स नृपोत्तमः ||
१९ ख
भीष्म उवाच:
कोष्ठागारमसंहार्यैराप्तैः सञ्चय़तत्परैः |
२० क
भीष्म उवाच:
पात्रभूतैरलुव्धैश्च पाल्यमानं गुणीभवेत् ||
२० ख
भीष्म उवाच:
व्यवहारश्च नगरे यस्य कर्मफलोदय़ः |
२१ क
भीष्म उवाच:
दृश्यते शङ्खलिखितः स धर्मफलभाग्भवेत् ||
२१ ख
भीष्म उवाच:
सङ्गृहीतमनुष्यश्च यो राजा राजधर्मवित् |
२२ क
भीष्म उवाच:
षड्वर्गं प्रतिगृह्णन्स धर्मात्फलमुपाश्नुते ||
२२ ख