chevron_left उद्योग पर्व अध्याय ११६
नारद उवाच:
तथैव सा श्रिय़ं त्यक्त्वा कन्या भूत्वा यशस्विनी |
१ क
नारद उवाच:
माधवी गालवं विप्रमन्वय़ात्सत्यसङ्गरा ||
१ ख
नारद उवाच:
गालवो विमृशन्नेव स्वकार्यगतमानसः |
२ क
नारद उवाच:
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ||
२ ख
नारद उवाच:
तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् |
३ क
नारद उवाच:
इय़ं कन्या सुतौ द्वौ ते जनय़िष्यति पार्थिवौ ||
३ ख
नारद उवाच:
अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च |
४ क
नारद उवाच:
सोमार्कप्रतिसङ्काशौ जनय़ित्वा सुतौ नृप ||
४ ख
नारद उवाच:
शुल्कं तु सर्वधर्मज्ञ हय़ानां चन्द्रवर्चसाम् |
५ क
नारद उवाच:
एकतःश्यामकर्णानां देय़ं मह्यं चतुःशतम् ||
५ ख
नारद उवाच:
गुर्वर्थोऽय़ं समारम्भो न हय़ैः कृत्यमस्ति मे |
६ क
नारद उवाच:
यदि शक्यं महाराज क्रिय़तां मा विचार्यताम् ||
६ ख
नारद उवाच:
अनपत्योऽसि राजर्षे पुत्रौ जनय़ पार्थिव |
७ क
नारद उवाच:
पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय़ ||
७ ख
नारद उवाच:
न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः |
८ क
नारद उवाच:
न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः ||
८ ख
नारद उवाच:
एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् |
९ क
नारद उवाच:
उशीनरः प्रतिवचो ददौ तस्य नराधिपः ||
९ ख
नारद उवाच:
श्रुतवानस्मि ते वाक्यं यथा वदसि गालव |
१० क
नारद उवाच:
विधिस्तु वलवान्व्रह्मन्प्रवणं हि मनो मम ||
१० ख
नारद उवाच:
शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम |
११ क
नारद उवाच:
इतरेषां सहस्राणि सुवहूनि चरन्ति मे ||
११ ख
नारद उवाच:
अहमप्येकमेवास्यां जनय़िष्यामि गालव |
१२ क
नारद उवाच:
पुत्रं द्विज गतं मार्गं गमिष्यामि परैरहम् ||
१२ ख
नारद उवाच:
मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम |
१३ क
नारद उवाच:
पौरजानपदार्थं तु ममार्थो नात्मभोगतः ||
१३ ख
नारद उवाच:
कामतो हि धनं राजा पारक्यं यः प्रय़च्छति |
१४ क
नारद उवाच:
न स धर्मेण धर्मात्मन्युज्यते यशसा न च ||
१४ ख
नारद उवाच:
सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम |
१५ क
नारद उवाच:
कुमारीं देवगर्भाभामेकपुत्रभवाय़ मे ||
१५ ख
नारद उवाच:
तथा तु वहुकल्याणमुक्तवन्तं नराधिपम् |
१६ क
नारद उवाच:
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजय़त् ||
१६ ख
नारद उवाच:
उशीनरं प्रतिग्राह्य गालवः प्रय़यौ वनम् |
१७ क
नारद उवाच:
रेमे स तां समासाद्य कृतपुण्य इव श्रिय़म् ||
१७ ख
नारद उवाच:
कन्दरेषु च शैलानां नदीनां निर्झरेषु च |
१८ क
नारद उवाच:
उद्यानेषु विचित्रेषु वनेषूपवनेषु च ||
१८ ख
नारद उवाच:
हर्म्येषु रमणीय़ेषु प्रासादशिखरेषु च |
१९ क
नारद उवाच:
वाताय़नविमानेषु तथा गर्भगृहेषु च ||
१९ ख
नारद उवाच:
ततोऽस्य समय़े जज्ञे पुत्रो वालरविप्रभः |
२० क
नारद उवाच:
शिविर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः ||
२० ख
नारद उवाच:
उपस्थाय़ स तं विप्रो गालवः प्रतिगृह्य च |
२१ क
नारद उवाच:
कन्यां प्रय़ातस्तां राजन्दृष्टवान्विनतात्मजम् ||
२१ ख