सञ्जय़ उवाच:
व्युष्टाय़ां तु महाराज रजन्यां सर्वपार्थिवाः |
१ क
सञ्जय़ उवाच:
पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम् ||
१ ख
सञ्जय़ उवाच:
तं वीरशय़ने वीरं शय़ानं कुरुसत्तमम् |
२ क
सञ्जय़ उवाच:
अभिवाद्योपतस्थुर्वै क्षत्रिय़ाः क्षत्रिय़र्षभम् ||
२ ख
सञ्जय़ उवाच:
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः |
३ क
सञ्जय़ उवाच:
स्त्रिय़ो वालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः |
३ ख
सञ्जय़ उवाच:
समभ्ययुः शान्तनवं भूतानीव तमोनुदम् ||
३ ग
सञ्जय़ उवाच:
तूर्याणि गणिका वारास्तथैव नटनर्तकाः |
४ क
सञ्जय़ उवाच:
उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम् ||
४ ख
सञ्जय़ उवाच:
उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च |
५ क
सञ्जय़ उवाच:
आय़ुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ||
५ ख
सञ्जय़ उवाच:
अन्वासत दुराधर्षं देवव्रतमरिन्दमम् |
६ क
सञ्जय़ उवाच:
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावय़ः ||
६ ख
सञ्जय़ उवाच:
सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता |
७ क
सञ्जय़ उवाच:
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ||
७ ख
सञ्जय़ उवाच:
विवभौ च नृपाणां सा पितामहमुपासताम् |
८ क
सञ्जय़ उवाच:
देवानामिव देवेशं पितामहमुपासताम् ||
८ ख
सञ्जय़ उवाच:
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ |
९ क
सञ्जय़ उवाच:
अभितप्तः शरैश्चैव नातिहृष्टमनाव्रवीत् ||
९ ख
सञ्जय़ उवाच:
शराभितप्तकाय़ोऽहं शरसन्तापमूर्छितः |
१० क
सञ्जय़ उवाच:
पानीय़मभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत ||
१० ख
सञ्जय़ उवाच:
ततस्ते क्षत्रिय़ा राजन्समाजह्रुः समन्ततः |
११ क
सञ्जय़ उवाच:
भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान् ||
११ ख
सञ्जय़ उवाच:
उपनीतं च तद्दृष्ट्वा भीष्मः शान्तनवोऽव्रवीत् |
१२ क
सञ्जय़ उवाच:
नाद्य तात मय़ा शक्यं भोगान्कांश्चन मानुषान् ||
१२ ख
सञ्जय़ उवाच:
उपभोक्तुं मनुष्येभ्यः शरशय़्यागतो ह्यहम् |
१३ क
सञ्जय़ उवाच:
प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ||
१३ ख
सञ्जय़ उवाच:
एवमुक्त्वा शान्तनवो दीनवाक्सर्वपार्थिवान् |
१४ क
सञ्जय़ उवाच:
धनञ्जय़ं महावाहुमभ्यभाषत भारत ||
१४ ख
सञ्जय़ उवाच:
अथोपेत्य महावाहुरभिवाद्य पितामहम् |
१५ क
सञ्जय़ उवाच:
अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाव्रवीत् ||
१५ ख
सञ्जय़ उवाच:
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् |
१६ क
सञ्जय़ उवाच:
अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनञ्जय़म् ||
१६ ख
सञ्जय़ उवाच:
दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः |
१७ क
सञ्जय़ उवाच:
मर्माणि परिदूय़न्ते वदनं मम शुष्यति ||
१७ ख
सञ्जय़ उवाच:
ह्लादनार्थं शरीरस्य प्रय़च्छापो ममार्जुन |
१८ क
सञ्जय़ उवाच:
त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि ||
१८ ख
सञ्जय़ उवाच:
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् |
१९ क
सञ्जय़ उवाच:
अधिज्यं वलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ||
१९ ख
सञ्जय़ उवाच:
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः |
२० क
सञ्जय़ उवाच:
वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः ||
२० ख
सञ्जय़ उवाच:
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः |
२१ क
सञ्जय़ उवाच:
शय़ानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ||
२१ ख
सञ्जय़ उवाच:
सन्धाय़ च शरं दीप्तमभिमन्त्र्य महाय़शाः |
२२ क
सञ्जय़ उवाच:
पर्जन्यास्त्रेण संय़ोज्य सर्वलोकस्य पश्यतः |
२२ ख
सञ्जय़ उवाच:
अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ||
२२ ग
सञ्जय़ उवाच:
उत्पपात ततो धारा विमला वारिणः शिवा |
२३ क
सञ्जय़ उवाच:
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च ||
२३ ख
सञ्जय़ उवाच:
अतर्पय़त्ततः पार्थः शीतय़ा वारिधारय़ा |
२४ क
सञ्जय़ उवाच:
भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः ||
२४ ख
सञ्जय़ उवाच:
कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः |
२५ क
सञ्जय़ उवाच:
विस्मय़ं परमं जग्मुस्ततस्ते वसुधाधिपाः ||
२५ ख
सञ्जय़ उवाच:
तत्कर्म प्रेक्ष्य वीभत्सोरतिमानुषमद्भुतम् |
२६ क
सञ्जय़ उवाच:
सम्प्रावेपन्त कुरवो गावः शीतार्दिता इव ||
२६ ख
सञ्जय़ उवाच:
विस्मय़ाच्चोत्तरीय़ाणि व्याविध्यन्सर्वतो नृपाः |
२७ क
सञ्जय़ उवाच:
शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत् ||
२७ ख
सञ्जय़ उवाच:
तृप्तः शान्तनवश्चापि राजन्वीभत्सुमव्रवीत् |
२८ क
सञ्जय़ उवाच:
सर्वपार्थिववीराणां संनिधौ पूजय़न्निव ||
२८ ख
सञ्जय़ उवाच:
नैतच्चित्रं महावाहो त्वय़ि कौरवनन्दन |
२९ क
सञ्जय़ उवाच:
कथितो नारदेनासि पूर्वर्षिरमितद्युतिः ||
२९ ख
सञ्जय़ उवाच:
वासुदेवसहाय़स्त्वं महत्कर्म करिष्यसि |
३० क
सञ्जय़ उवाच:
यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् ||
३० ख
सञ्जय़ उवाच:
विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः |
३१ क
सञ्जय़ उवाच:
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ||
३१ ख
सञ्जय़ उवाच:
मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः |
३२ क
सञ्जय़ उवाच:
सरसां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ||
३२ ख
सञ्जय़ उवाच:
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः |
३३ क
सञ्जय़ उवाच:
जातीनां व्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम् ||
३३ ख
सञ्जय़ उवाच:
न वै श्रुतं धार्तराष्ट्रेण वाक्यं; सम्वोध्यमानं विदुरेण चैव |
३४ क
सञ्जय़ उवाच:
द्रोणेन रामेण जनार्दनेन; मुहुर्मुहुः सञ्जय़ेनापि चोक्तम् ||
३४ ख
सञ्जय़ उवाच:
परीतवुद्धिर्हि विसञ्ज्ञकल्पो; दुर्योधनो नाभ्यनन्दद्वचो मे |
३५ क
सञ्जय़ उवाच:
स शेष्यते वै निहतश्चिराय़; शास्त्रातिगो भीमवलाभिभूतः ||
३५ ख
सञ्जय़ उवाच:
ततः श्रुत्वा तद्वचः कौरवेन्द्रो; दुर्योधनो दीनमना वभूव |
३६ क
सञ्जय़ उवाच:
तमव्रवीच्छान्तनवोऽभिवीक्ष्य; निवोध राजन्भव वीतमन्युः ||
३६ ख
सञ्जय़ उवाच:
दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता |
३७ क
सञ्जय़ उवाच:
जलस्य धारा जनिता शीतस्यामृतगन्धिनः |
३७ ख
सञ्जय़ उवाच:
एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते ||
३७ ग
सञ्जय़ उवाच:
आग्नेय़ं वारुणं सौम्यं वाय़व्यमथ वैष्णवम् |
३८ क
सञ्जय़ उवाच:
ऐन्द्रं पाशुपतं व्राह्मं पारमेष्ठ्यं प्रजापतेः |
३८ ख
सञ्जय़ उवाच:
धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः ||
३८ ग
सञ्जय़ उवाच:
सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जय़ः |
३९ क
सञ्जय़ उवाच:
कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन |
३९ ख
सञ्जय़ उवाच:
न शक्याः पाण्डवास्तात युद्धे जेतुं कथञ्चन ||
३९ ग
सञ्जय़ उवाच:
अमानुषाणि कर्माणि यस्यैतानि महात्मनः |
४० क
सञ्जय़ उवाच:
तेन सत्त्ववता सङ्ख्ये शूरेणाहवशोभिना |
४० ख
सञ्जय़ उवाच:
कृतिना समरे राजन्सन्धिस्ते तात युज्यताम् ||
४० ग
सञ्जय़ उवाच:
यावत्कृष्णो महावाहुः स्वाधीनः कुरुसंसदि |
४१ क
सञ्जय़ उवाच:
तावत्पार्थेन शूरेण सन्धिस्ते तात युज्यताम् ||
४१ ख
सञ्जय़ उवाच:
यावच्चमूं न ते शेषां शरैः संनतपर्वभिः |
४२ क
सञ्जय़ उवाच:
नाशय़त्यर्जुनस्तावत्सन्धिस्ते तात युज्यताम् ||
४२ ख
सञ्जय़ उवाच:
यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः |
४३ क
सञ्जय़ उवाच:
नृपाश्च वहवो राजंस्तावत्सन्धिः प्रय़ुज्यताम् ||
४३ ख
सञ्जय़ उवाच:
न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् |
४४ क
सञ्जय़ उवाच:
युधिष्ठिरो हि तावद्वै सन्धिस्ते तात युज्यताम् ||
४४ ख
सञ्जय़ उवाच:
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः |
४५ क
सञ्जय़ उवाच:
यावच्चमूं महाराज नाशय़न्ति न सर्वशः |
४५ ख
सञ्जय़ उवाच:
तावत्ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम् ||
४५ ग
सञ्जय़ उवाच:
युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः |
४६ क
सञ्जय़ उवाच:
एतत्ते रोचतां वाक्यं यदुक्तोऽसि मय़ानघ |
४६ ख
सञ्जय़ उवाच:
एतत्क्षेममहं मन्ये तव चैव कुलस्य च ||
४६ ग