chevron_left द्रोण पर्व अध्याय ११६
सञ्जय़ उवाच:
तमुद्यतं महावाहुं दुःशासनरथं प्रति |
१ क
सञ्जय़ उवाच:
त्वरितं त्वरणीय़ेषु धनञ्जय़हितैषिणम् ||
१ ख
सञ्जय़ उवाच:
त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः |
२ क
सञ्जय़ उवाच:
सेनासमुद्रमाविष्टमानर्तं पर्यवारय़न् ||
२ ख
सञ्जय़ उवाच:
अथैनं रथवंशेन सर्वतः संनिवार्य ते |
३ क
सञ्जय़ उवाच:
अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः ||
३ ख
सञ्जय़ उवाच:
अजय़द्राजपुत्रांस्तान्यतमानान्महारणे |
४ क
सञ्जय़ उवाच:
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः ||
४ ख
सञ्जय़ उवाच:
सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम् |
५ क
सञ्जय़ उवाच:
असिशक्तिगदापूर्णमप्लवं सलिलं यथा ||
५ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम शैनेय़चरितं रणे |
६ क
सञ्जय़ उवाच:
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् ||
६ ख
सञ्जय़ उवाच:
उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा |
७ क
सञ्जय़ उवाच:
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा ||
७ ख
सञ्जय़ उवाच:
तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः |
८ क
सञ्जय़ उवाच:
त्रिगर्ताः संन्यवर्तन्त सन्तप्ताः स्वजनं प्रति ||
८ ख
सञ्जय़ उवाच:
तमन्ये शूरसेनानां शूराः सङ्ख्ये न्यवारय़न् |
९ क
सञ्जय़ उवाच:
निय़च्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः ||
९ ख
सञ्जय़ उवाच:
तान्न्यवारय़दाय़स्तान्मुहूर्तमिव सात्यकिः |
१० क
सञ्जय़ उवाच:
ततः कलिङ्गैर्युय़ुधे सोऽचिन्त्यवलविक्रमः ||
१० ख
सञ्जय़ उवाच:
तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम् |
११ क
सञ्जय़ उवाच:
अथ पार्थं महावाहुर्धनञ्जय़मुपासदत् ||
११ ख
सञ्जय़ उवाच:
तरन्निव जले श्रान्तो यथा स्थलमुपेय़िवान् |
१२ क
सञ्जय़ उवाच:
तं दृष्ट्वा पुरुषव्याघ्रं युय़ुधानः समाश्वसत् ||
१२ ख
सञ्जय़ उवाच:
तमाय़ान्तमभिप्रेक्ष्य केशवोऽर्जुनमव्रवीत् |
१३ क
सञ्जय़ उवाच:
असावाय़ाति शैनेय़स्तव पार्थ पदानुगः ||
१३ ख
सञ्जय़ उवाच:
एष शिष्यः सखा चैव तव सत्यपराक्रमः |
१४ क
सञ्जय़ उवाच:
सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः ||
१४ ख
सञ्जय़ उवाच:
एष कौरवय़ोधानां कृत्वा घोरमुपद्रवम् |
१५ क
सञ्जय़ उवाच:
तव प्राणैः प्रिय़तरः किरीटिन्नेति सात्यकिः ||
१५ ख
सञ्जय़ उवाच:
एष द्रोणं तथा भोजं कृतवर्माणमेव च |
१६ क
सञ्जय़ उवाच:
कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः ||
१६ ख
सञ्जय़ उवाच:
धर्मराजप्रिय़ान्वेषी हत्वा योधान्वरान्वरान् |
१७ क
सञ्जय़ उवाच:
शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः ||
१७ ख
सञ्जय़ उवाच:
कृत्वा सुदुष्करं कर्म सैन्यमध्ये महावलः |
१८ क
सञ्जय़ उवाच:
तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः ||
१८ ख
सञ्जय़ उवाच:
वहूनेकरथेनाजौ योधय़ित्वा महारथान् |
१९ क
सञ्जय़ उवाच:
आचार्यप्रमुखान्पार्थ आय़ात्येष हि सात्यकिः ||
१९ ख
सञ्जय़ उवाच:
स्ववाहुवलमाश्रित्य विदार्य च वरूथिनीम् |
२० क
सञ्जय़ उवाच:
प्रेषितो धर्मपुत्रेण पर्थैषोऽभ्येति सात्यकिः ||
२० ख
सञ्जय़ उवाच:
यस्य नास्ति समो योधः कौरवेषु कथञ्चन |
२१ क
सञ्जय़ उवाच:
सोऽय़माय़ाति कौन्तेय़ सात्यकिः सत्यविक्रमः ||
२१ ख
सञ्जय़ उवाच:
कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव |
२२ क
सञ्जय़ उवाच:
निहत्य वहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः ||
२२ ख
सञ्जय़ उवाच:
एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः |
२३ क
सञ्जय़ उवाच:
आस्तीर्य वसुधां पार्थ क्षिप्रमाय़ाति सात्यकिः ||
२३ ख
सञ्जय़ उवाच:
एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे |
२४ क
सञ्जय़ उवाच:
निहत्य जलसन्धं च क्षिप्रमाय़ाति सात्यकिः ||
२४ ख
सञ्जय़ उवाच:
रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम् |
२५ क
सञ्जय़ उवाच:
तृणवन्न्यस्य कौरव्यानेष आय़ाति सात्यकिः ||
२५ ख
सञ्जय़ उवाच:
ततोऽप्रहृष्टः कौन्तेय़ः केशवं वाक्यमव्रवीत् |
२६ क
सञ्जय़ उवाच:
न मे प्रिय़ं महावाहो यन्मामभ्येति सात्यकिः ||
२६ ख
सञ्जय़ उवाच:
न हि जानामि वृत्तान्तं धर्मराजस्य केशव |
२७ क
सञ्जय़ उवाच:
सात्वतेन विहीनः स यदि जीवति वा न वा ||
२७ ख
सञ्जय़ उवाच:
एतेन हि महावाहो रक्षितव्यः स पार्थिवः |
२८ क
सञ्जय़ उवाच:
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः ||
२८ ख
सञ्जय़ उवाच:
राजा द्रोणाय़ चोत्सृष्टः सैन्धवश्चानिपातितः |
२९ क
सञ्जय़ उवाच:
प्रत्युद्यातश्च शैनेय़मेष भूरिश्रवा रणे ||
२९ ख
सञ्जय़ उवाच:
सोऽय़ं गुरुतरो भारः सैन्धवान्मे समाहितः |
३० क
सञ्जय़ उवाच:
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः ||
३० ख
सञ्जय़ उवाच:
जय़द्रथश्च हन्तव्यो लम्वते च दिवाकरः |
३१ क
सञ्जय़ उवाच:
श्रान्तश्चैष महावाहुरल्पप्राणश्च साम्प्रतम् ||
३१ ख
सञ्जय़ उवाच:
परिश्रान्ता हय़ाश्चास्य हय़यन्ता च माधव |
३२ क
सञ्जय़ उवाच:
न च भूरिश्रवाः श्रान्तः ससहाय़श्च केशव ||
३२ ख
सञ्जय़ उवाच:
अपीदानीं भवेदस्य क्षेममस्मिन्समागमे |
३३ क
सञ्जय़ उवाच:
कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः |
३३ ख
सञ्जय़ उवाच:
गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः ||
३३ ग
सञ्जय़ उवाच:
अपि कौरवमुख्येन कृतास्त्रेण महात्मना |
३४ क
सञ्जय़ उवाच:
समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् ||
३४ ख
सञ्जय़ उवाच:
व्यतिक्रममिमं मन्ये धर्मराजस्य केशव |
३५ क
सञ्जय़ उवाच:
आचार्याद्भय़मुत्सृज्य यः प्रेषय़ति सात्यकिम् ||
३५ ख
सञ्जय़ उवाच:
ग्रहणं धर्मराजस्य खगः श्येन इवामिषम् |
३६ क
सञ्जय़ उवाच:
नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः ||
३६ ख