chevron_left आदि पर्व अध्याय ११७
वैशम्पाय़न उवाच:
पाण्डोरवभृथं कृत्वा देवकल्पा महर्षय़ः |
१ क
वैशम्पाय़न उवाच:
ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ||
१ ख
वैशम्पाय़न उवाच:
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः |
२ क
वैशम्पाय़न उवाच:
अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ||
२ ख
वैशम्पाय़न उवाच:
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह |
३ क
वैशम्पाय़न उवाच:
प्रदाय़ोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ||
३ ख
वैशम्पाय़न उवाच:
ते परस्परमामन्त्र्य सर्वभूतहिते रताः |
४ क
वैशम्पाय़न उवाच:
पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वय़म् ||
४ ख
वैशम्पाय़न उवाच:
उदारमनसः सिद्धा गमने चक्रिरे मनः |
५ क
वैशम्पाय़न उवाच:
भीष्माय़ पाण्डवान्दातुं धृतराष्ट्राय़ चैव हि ||
५ ख
वैशम्पाय़न उवाच:
तस्मिन्नेव क्षणे सर्वे तानादाय़ प्रतस्थिरे |
६ क
वैशम्पाय़न उवाच:
पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ||
६ ख
वैशम्पाय़न उवाच:
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला |
७ क
वैशम्पाय़न उवाच:
प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ||
७ ख
वैशम्पाय़न उवाच:
सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् |
८ क
वैशम्पाय़न उवाच:
वर्धमानपुरद्वारमाससाद यशस्विनी ||
८ ख
वैशम्पाय़न उवाच:
तं चारणसहस्राणां मुनीनामागमं तदा |
९ क
वैशम्पाय़न उवाच:
श्रुत्वा नागपुरे नृणां विस्मय़ः समजाय़त ||
९ ख
वैशम्पाय़न उवाच:
मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः |
१० क
वैशम्पाय़न उवाच:
सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ||
१० ख
वैशम्पाय़न उवाच:
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः |
११ क
वैशम्पाय़न उवाच:
व्राह्मणैः सह निर्जग्मुर्व्राह्मणानां च योषितः ||
११ ख
वैशम्पाय़न उवाच:
तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् |
१२ क
वैशम्पाय़न उवाच:
न कश्चिदकरोदीर्ष्यामभवन्धर्मवुद्धय़ः ||
१२ ख
वैशम्पाय़न उवाच:
तथा भीष्मः शान्तनवः सोमदत्तोऽथ वाह्लिकः |
१३ क
वैशम्पाय़न उवाच:
प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वय़म् ||
१३ ख
वैशम्पाय़न उवाच:
सा च सत्यवती देवी कौसल्या च यशस्विनी |
१४ क
वैशम्पाय़न उवाच:
राजदारैः परिवृता गान्धारी च विनिर्ययौ ||
१४ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रस्य दाय़ादा दुर्योधनपुरोगमाः |
१५ क
वैशम्पाय़न उवाच:
भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ||
१५ ख
वैशम्पाय़न उवाच:
तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च |
१६ क
वैशम्पाय़न उवाच:
उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ||
१६ ख
वैशम्पाय़न उवाच:
तथैव शिरसा भूमावभिवाद्य प्रणम्य च |
१७ क
वैशम्पाय़न उवाच:
उपोपविविशुः सर्वे पौरजानपदा अपि ||
१७ ख
वैशम्पाय़न उवाच:
तमकूजमिवाज्ञाय़ जनौघं सर्वशस्तदा |
१८ क
वैशम्पाय़न उवाच:
भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदय़त् ||
१८ ख
वैशम्पाय़न उवाच:
तेषामथो वृद्धतमः प्रत्युत्थाय़ जटाजिनी |
१९ क
वैशम्पाय़न उवाच:
महर्षिमतमाज्ञाय़ महर्षिरिदमव्रवीत् ||
१९ ख
वैशम्पाय़न उवाच:
यः स कौरव्यदाय़ादः पाण्डुर्नाम नराधिपः |
२० क
वैशम्पाय़न उवाच:
कामभोगान्परित्यज्य शतशृङ्गमितो गतः ||
२० ख
वैशम्पाय़न उवाच:
व्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना |
२१ क
वैशम्पाय़न उवाच:
साक्षाद्धर्मादय़ं पुत्रस्तस्य जातो युधिष्ठिरः ||
२१ ख
वैशम्पाय़न उवाच:
तथेमं वलिनां श्रेष्ठं तस्य राज्ञो महात्मनः |
२२ क
वैशम्पाय़न उवाच:
मातरिश्वा ददौ पुत्रं भीमं नाम महावलम् ||
२२ ख
वैशम्पाय़न उवाच:
पुरुहूतादय़ं जज्ञे कुन्त्यां सत्यपराक्रमः |
२३ क
वैशम्पाय़न उवाच:
यस्य कीरित्र्महेष्वासान्सर्वानभिभविष्यति ||
२३ ख
वैशम्पाय़न उवाच:
यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ |
२४ क
वैशम्पाय़न उवाच:
अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ||
२४ ख
वैशम्पाय़न उवाच:
चरता धर्मनित्येन वनवासं यशस्विना |
२५ क
वैशम्पाय़न उवाच:
एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ||
२५ ख
वैशम्पाय़न उवाच:
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च |
२६ क
वैशम्पाय़न उवाच:
पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ||
२६ ख
वैशम्पाय़न उवाच:
वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च |
२७ क
वैशम्पाय़न उवाच:
पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ||
२७ ख
वैशम्पाय़न उवाच:
तं चितागतमाज्ञाय़ वैश्वानरमुखे हुतम् |
२८ क
वैशम्पाय़न उवाच:
प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ||
२८ ख
वैशम्पाय़न उवाच:
सा गता सह तेनैव पतिलोकमनुव्रता |
२९ क
वैशम्पाय़न उवाच:
तस्यास्तस्य च यत्कार्यं क्रिय़तां तदनन्तरम् ||
२९ ख
वैशम्पाय़न उवाच:
इमे तय़ोः शरीरे द्वे सुताश्चेमे तय़ोर्वराः |
३० क
वैशम्पाय़न उवाच:
क्रिय़ाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ||
३० ख
वैशम्पाय़न उवाच:
प्रेतकार्ये च निर्वृत्ते पितृमेधं महाय़शाः |
३१ क
वैशम्पाय़न उवाच:
लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ||
३१ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् |
३२ क
वैशम्पाय़न उवाच:
क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ||
३२ ख
वैशम्पाय़न उवाच:
गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः |
३३ क
वैशम्पाय़न उवाच:
ऋषिसिद्धगणं दृष्ट्वा विस्मय़ं ते परं यय़ुः ||
३३ ख