राम उवाच:
ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात वालिशैः |
१ क
राम उवाच:
कार्तवीर्यस्य दाय़ादैर्वने मृग इवेषुभिः ||
१ ख
राम उवाच:
धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे |
२ क
राम उवाच:
मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः ||
२ ख
राम उवाच:
किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः |
३ क
राम उवाच:
अय़ुध्यमानो वृद्धः सन्हतः शरशतैः शितैः ||
३ ख
राम उवाच:
किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च |
४ क
राम उवाच:
अय़ुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः ||
४ ख
अकृतव्रण उवाच:
विलप्यैवं स करुणं वहु नानाविधं नृप |
५ क
अकृतव्रण उवाच:
प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः ||
५ ख
अकृतव्रण उवाच:
ददाह पितरं चाग्नौ रामः परपुरञ्जय़ः |
६ क
अकृतव्रण उवाच:
प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ||
६ ख
अकृतव्रण उवाच:
सङ्क्रुद्धोऽतिवलः शूरः शस्त्रमादाय़ वीर्यवान् |
७ क
अकृतव्रण उवाच:
जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः ||
७ ख
अकृतव्रण उवाच:
तेषां चानुगता ये च क्षत्रिय़ाः क्षत्रिय़र्षभ |
८ क
अकृतव्रण उवाच:
तांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः ||
८ ख
अकृतव्रण उवाच:
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रिय़ां प्रभुः |
९ क
अकृतव्रण उवाच:
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ||
९ ख
अकृतव्रण उवाच:
स तेषु तर्पय़ामास पितॄन्भृगुकुलोद्वहः |
१० क
अकृतव्रण उवाच:
साक्षाद्ददर्श चर्चीकं स च रामं न्यवारय़त् ||
१० ख
अकृतव्रण उवाच:
ततो यज्ञेन महता जामदग्न्यः प्रतापवान् |
११ क
अकृतव्रण उवाच:
तर्पय़ामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ ||
११ ख
अकृतव्रण उवाच:
वेदीं चाप्यददद्धैमीं कश्यपाय़ महात्मने |
१२ क
अकृतव्रण उवाच:
दशव्यामाय़तां कृत्वा नवोत्सेधां विशां पते ||
१२ ख
अकृतव्रण उवाच:
तां कश्यपस्यानुमते व्राह्मणाः खण्डशस्तदा |
१३ क
अकृतव्रण उवाच:
व्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवाय़नाः ||
१३ ख
अकृतव्रण उवाच:
स प्रदाय़ महीं तस्मै कश्यपाय़ महात्मने |
१४ क
अकृतव्रण उवाच:
अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः ||
१४ ख
अकृतव्रण उवाच:
एवं वैरमभूत्तस्य क्षत्रिय़ैर्लोकवासिभिः |
१५ क
अकृतव्रण उवाच:
पृथिवी चापि विजिता रामेणामिततेजसा ||
१५ ख
वैशम्पाय़न उवाच:
ततश्चतुर्दशीं रामः समय़ेन महामनाः |
१६ क
वैशम्पाय़न उवाच:
दर्शय़ामास तान्विप्रान्धर्मराजं च सानुजम् ||
१६ ख
वैशम्पाय़न उवाच:
स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः |
१७ क
वैशम्पाय़न उवाच:
द्विजानां च परां पूजां चक्रे नृपतिसत्तमः ||
१७ ख
वैशम्पाय़न उवाच:
अर्चय़ित्वा जामदग्न्यं पूजितस्तेन चाभिभूः |
१८ क
वैशम्पाय़न उवाच:
महेन्द्र उष्य तां रात्रिं प्रय़यौ दक्षिणामुखः ||
१८ ख