chevron_left उद्योग पर्व अध्याय ११७
नारद उवाच:
गालवं वैनतेय़ोऽथ प्रहसन्निदमव्रवीत् |
१ क
नारद उवाच:
दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज ||
१ ख
नारद उवाच:
गालवस्तु वचः श्रुत्वा वैनतेय़ेन भाषितम् |
२ क
नारद उवाच:
चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि ||
२ ख
नारद उवाच:
सुपर्णस्त्वव्रवीदेनं गालवं पततां वरः |
३ क
नारद उवाच:
प्रय़त्नस्ते न कर्तव्यो नैष सम्पत्स्यते तव ||
३ ख
नारद उवाच:
पुरा हि कन्यकुव्जे वै गाधेः सत्यवतीं सुताम् |
४ क
नारद उवाच:
भार्यार्थेऽवरय़त्कन्यामृचीकस्तेन भाषितः ||
४ ख
नारद उवाच:
एकतःश्यामकर्णानां हय़ानां चन्द्रवर्चसाम् |
५ क
नारद उवाच:
भगवन्दीय़तां मह्यं सहस्रमिति गालव ||
५ ख
नारद उवाच:
ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालय़ं गतः |
६ क
नारद उवाच:
अश्वतीर्थे हय़ाँल्लव्ध्वा दत्तवान्पार्थिवाय़ वै ||
६ ख
नारद उवाच:
इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु |
७ क
नारद उवाच:
तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्तास्ते पार्थिवैस्तदा ||
७ ख
नारद उवाच:
अपराण्यपि चत्वारि शतानि द्विजसत्तम |
८ क
नारद उवाच:
नीय़मानानि सन्तारे हृतान्यासन्वितस्तय़ा |
८ ख
नारद उवाच:
एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् ||
८ ग
नारद उवाच:
इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय़ |
९ क
नारद उवाच:
विश्वामित्राय़ धर्मात्मन्षड्भिरश्वशतैः सह |
९ ख
नारद उवाच:
ततोऽसि गतसंमोहः कृतकृत्यो द्विजर्षभ ||
९ ग
नारद उवाच:
गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः |
१० क
नारद उवाच:
आदाय़ाश्वांश्च कन्यां च विश्वामित्रमुपागमत् ||
१० ख
गालव उवाच:
अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै |
११ क
गालव उवाच:
शतद्वय़ेन कन्येय़ं भवता प्रतिगृह्यताम् ||
११ ख
गालव उवाच:
अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रय़ः |
१२ क
गालव उवाच:
चतुर्थं जनय़त्वेकं भवानपि नरोत्तम ||
१२ ख
गालव उवाच:
पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते |
१३ क
गालव उवाच:
भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् ||
१३ ख
नारद उवाच:
विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा |
१४ क
नारद उवाच:
कन्यां च तां वरारोहामिदमित्यव्रवीद्वचः ||
१४ ख
नारद उवाच:
किमिय़ं पूर्वमेवेह न दत्ता मम गालव |
१५ क
नारद उवाच:
पुत्रा ममैव चत्वारो भवेय़ुः कुलभावनाः ||
१५ ख
नारद उवाच:
प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय़ वै |
१६ क
नारद उवाच:
अश्वाश्चाश्रममासाद्य तिष्ठन्तु मम सर्वशः ||
१६ ख
नारद उवाच:
स तय़ा रममाणोऽथ विश्वामित्रो महाद्युतिः |
१७ क
नारद उवाच:
आत्मजं जनय़ामास माधवीपुत्रमष्टकम् ||
१७ ख
नारद उवाच:
जातमात्रं सुतं तं च विश्वामित्रो महाद्युतिः |
१८ क
नारद उवाच:
संय़ोज्यार्थैस्तथा धर्मैरश्वैस्तैः समय़ोजय़त् ||
१८ ख
नारद उवाच:
अथाष्टकः पुरं प्राय़ात्तदा सोमपुरप्रभम् |
१९ क
नारद उवाच:
निर्यात्य कन्यां शिष्याय़ कौशिकोऽपि वनं यय़ौ ||
१९ ख
नारद उवाच:
गालवोऽपि सुपर्णेन सह निर्यात्य दक्षिणाम् |
२० क
नारद उवाच:
मनसाभिप्रतीतेन कन्यामिदमुवाच ह ||
२० ख
नारद उवाच:
जातो दानपतिः पुत्रस्त्वय़ा शूरस्तथापरः |
२१ क
नारद उवाच:
सत्यधर्मरतश्चान्यो यज्वा चापि तथापरः ||
२१ ख
नारद उवाच:
तदागच्छ वरारोहे तारितस्ते पिता सुतैः |
२२ क
नारद उवाच:
चत्वारश्चैव राजानस्तथाहं च सुमध्यमे ||
२२ ख
नारद उवाच:
गालवस्त्वभ्यनुज्ञाय़ सुपर्णं पन्नगाशनम् |
२३ क
नारद उवाच:
पितुर्निर्यात्य तां कन्यां प्रय़यौ वनमेव ह ||
२३ ख