सञ्जय़ उवाच:
ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालय़ान्पुनः |
१ क
सञ्जय़ उवाच:
तूष्णीम्भूते महाराज भीष्मे शन्तनुनन्दने ||
१ ख
सञ्जय़ उवाच:
श्रुत्वा तु निहतं भीष्मं राधेय़ः पुरुषर्षभः |
२ क
सञ्जय़ उवाच:
ईषदागतसन्त्रासः त्वरय़ोपजगाम ह ||
२ ख
सञ्जय़ उवाच:
स ददर्श महात्मानं शरतल्पगतं तदा |
३ क
सञ्जय़ उवाच:
जन्मशय़्यागतं देवं कार्त्तिकेय़मिव प्रभुम् ||
३ ख
सञ्जय़ उवाच:
निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः |
४ क
सञ्जय़ उवाच:
अभ्येत्य पादय़ोस्तस्य निपपात महाद्युतिः ||
४ ख
सञ्जय़ उवाच:
राधेय़ोऽहं कुरुश्रेष्ठ नित्यं चाष्किगतस्तव |
५ क
सञ्जय़ उवाच:
द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ||
५ ख
सञ्जय़ उवाच:
तच्छ्रुत्वा कुरुवृद्धः स वलात्संवृत्तलोचनः |
६ क
सञ्जय़ उवाच:
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमव्रवीत् ||
६ ख
सञ्जय़ उवाच:
रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः |
७ क
सञ्जय़ उवाच:
पितेव पुत्रं गाङ्गेय़ः परिष्वज्यैकवाहुना ||
७ ख
सञ्जय़ उवाच:
एह्येहि मे विप्रतीप स्पर्धसे त्वं मय़ा सह |
८ क
सञ्जय़ उवाच:
यदि मां नाभिगच्छेथा न ते श्रेय़ो भवेद्ध्रुवम् ||
८ ख
सञ्जय़ उवाच:
कौन्तेय़स्त्वं न राधेय़ो विदितो नारदान्मम |
९ क
सञ्जय़ उवाच:
कृष्णद्वैपाय़नाच्चैव केशवाच्च न संशय़ः ||
९ ख
सञ्जय़ उवाच:
न च द्वेषोऽस्ति मे तात त्वय़ि सत्यं व्रवीमि ते |
१० क
सञ्जय़ उवाच:
तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान् ||
१० ख
सञ्जय़ उवाच:
अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम |
११ क
सञ्जय़ उवाच:
येनासि वहुशो रूक्षं चोदितः सूर्यनन्दन ||
११ ख
सञ्जय़ उवाच:
जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव |
१२ क
सञ्जय़ उवाच:
व्रह्मण्यतां च शौर्यं च दाने च परमां गतिम् ||
१२ ख
सञ्जय़ उवाच:
न त्वय़ा सदृशः कश्चित्पुरुषेष्वमरोपम |
१३ क
सञ्जय़ उवाच:
कुलभेदं च मत्वाहं सदा परुषमुक्तवान् ||
१३ ख
सञ्जय़ उवाच:
इष्वस्त्रे भारसन्धाने लाघवेऽस्त्रवले तथा |
१४ क
सञ्जय़ उवाच:
सदृशः फल्गुनेनासि कृष्णेन च महात्मना ||
१४ ख
सञ्जय़ उवाच:
कर्ण राजपुरं गत्वा त्वय़ैकेन धनुष्मता |
१५ क
सञ्जय़ उवाच:
तस्यार्थे कुरुराजस्य राजानो मृदिता युधि ||
१५ ख
सञ्जय़ उवाच:
तथा च वलवान्राजा जरासन्धो दुरासदः |
१६ क
सञ्जय़ उवाच:
समरे समरश्लाघी त्वय़ा न सदृशोऽभवत् ||
१६ ख
सञ्जय़ उवाच:
व्रह्मण्यः सत्यवादी च तेजसार्क इवापरः |
१७ क
सञ्जय़ उवाच:
देवगर्भोऽजितः सङ्ख्ये मनुष्यैरधिको भुवि ||
१७ ख
सञ्जय़ उवाच:
व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः |
१८ क
सञ्जय़ उवाच:
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ||
१८ ख
सञ्जय़ उवाच:
सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन |
१९ क
सञ्जय़ उवाच:
सङ्गच्छ तैर्महावाहो मम चेदिच्छसि प्रिय़म् ||
१९ ख
सञ्जय़ उवाच:
मय़ा भवतु निर्वृत्तं वैरमादित्यनन्दन |
२० क
सञ्जय़ उवाच:
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामय़ाः ||
२० ख
कर्ण उवाच:
जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशय़ः |
२१ क
कर्ण उवाच:
यथा वदसि दुर्धर्ष कौन्तेय़ोऽहं न सूतजः ||
२१ ख
कर्ण उवाच:
अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः |
२२ क
कर्ण उवाच:
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ||
२२ ख
कर्ण उवाच:
वसु चैव शरीरं च यदुदारं तथा यशः |
२३ क
कर्ण उवाच:
सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण |
२३ ख
कर्ण उवाच:
कोपिताः पाण्डवा नित्यं मय़ाश्रित्य सुय़ोधनम् ||
२३ ग
कर्ण उवाच:
अवश्यभावी वै योऽर्थो न स शक्यो निवर्तितुम् |
२४ क
कर्ण उवाच:
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ||
२४ ख
कर्ण उवाच:
पृथिवीक्षय़शंसीनि निमित्तानि पितामह |
२५ क
कर्ण उवाच:
भवद्भिरुपलव्धानि कथितानि च संसदि ||
२५ ख
कर्ण उवाच:
पाण्डवा वासुदेवश्च विदिता मम सर्वशः |
२६ क
कर्ण उवाच:
अजेय़ाः पुरुषैरन्यैरिति तांश्चोत्सहामहे ||
२६ ख
कर्ण उवाच:
अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा |
२७ क
कर्ण उवाच:
अनुज्ञातस्त्वय़ा वीर युध्येय़मिति मे मतिः ||
२७ ख
कर्ण उवाच:
दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा |
२८ क
कर्ण उवाच:
यन्मय़ापकृतं किञ्चित्तदनुक्षन्तुमर्हसि ||
२८ ख
भीष्म उवाच:
न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम् |
२९ क
भीष्म उवाच:
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ||
२९ ख
भीष्म उवाच:
विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि |
३० क
भीष्म उवाच:
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ||
३० ख
भीष्म उवाच:
अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि |
३१ क
भीष्म उवाच:
क्षत्रधर्मजिताँल्लोकान्सम्प्राप्स्यसि न संशय़ः ||
३१ ख
भीष्म उवाच:
युध्यस्व निरहङ्कारो वलवीर्यव्यपाश्रय़ः |
३२ क
भीष्म उवाच:
धर्मो हि युद्धाच्छ्रेय़ोऽन्यत्क्षत्रिय़स्य न विद्यते ||
३२ ख
भीष्म उवाच:
प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मय़ा |
३३ क
भीष्म उवाच:
न चैव शकितः कर्तुं यतो धर्मस्ततो जय़ः ||
३३ ख
सञ्जय़ उवाच:
एवं व्रुवन्तं गाङ्गेय़मभिवाद्य प्रसाद्य च |
३४ क
सञ्जय़ उवाच:
राधेय़ो रथमारुह्य प्राय़ात्तव सुतं प्रति ||
३४ ख