chevron_left आदि पर्व अध्याय ११८
धृतराष्ट्र उवाच:
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय़ |
१ क
धृतराष्ट्र उवाच:
राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ||
१ ख
धृतराष्ट्र उवाच:
पशून्वासांसि रत्नानि धनानि विविधानि च |
२ क
धृतराष्ट्र उवाच:
पाण्डोः प्रय़च्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ||
२ ख
धृतराष्ट्र उवाच:
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु |
३ क
धृतराष्ट्र उवाच:
यथा न वाय़ुर्नादित्यः पश्येतां तां सुसंवृताम् ||
३ ख
धृतराष्ट्र उवाच:
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः |
४ क
धृतराष्ट्र उवाच:
यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ||
४ ख
वैशम्पाय़न उवाच:
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत |
५ क
वैशम्पाय़न उवाच:
पाण्डुं संस्कारय़ामास देशे परमसंवृते ||
५ ख
वैशम्पाय़न उवाच:
ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः |
६ क
वैशम्पाय़न उवाच:
निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ||
६ ख
वैशम्पाय़न उवाच:
अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः |
७ क
वैशम्पाय़न उवाच:
शिविकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः ||
७ ख
वैशम्पाय़न उवाच:
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः |
८ क
वैशम्पाय़न उवाच:
अमात्या ज्ञातय़श्चैव सुहृदश्चोपतस्थिरे ||
८ ख
वैशम्पाय़न उवाच:
नृसिंहं नरय़ुक्तेन परमालङ्कृतेन तम् |
९ क
वैशम्पाय़न उवाच:
अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ||
९ ख
वैशम्पाय़न उवाच:
पाण्डुरेणातपत्रेण चामरव्यजनेन च |
१० क
वैशम्पाय़न उवाच:
सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ||
१० ख
वैशम्पाय़न उवाच:
रत्नानि चाप्युपादाय़ वहूनि शतशो नराः |
११ क
वैशम्पाय़न उवाच:
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ||
११ ख
वैशम्पाय़न उवाच:
अथ छत्राणि शुभ्राणि पाण्डुराणि वृहन्ति च |
१२ क
वैशम्पाय़न उवाच:
आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ||
१२ ख
वैशम्पाय़न उवाच:
याजकैः शुक्लवासोभिर्हूय़माना हुताशनाः |
१३ क
वैशम्पाय़न उवाच:
अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ||
१३ ख
वैशम्पाय़न उवाच:
व्राह्मणाः क्षत्रिय़ा वैश्याः शूद्राश्चैव सहस्रशः |
१४ क
वैशम्पाय़न उवाच:
रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् ||
१४ ख
वैशम्पाय़न उवाच:
अय़मस्मानपाहाय़ दुःखे चाधाय़ शाश्वते |
१५ क
वैशम्पाय़न उवाच:
कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ||
१५ ख
वैशम्पाय़न उवाच:
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च |
१६ क
वैशम्पाय़न उवाच:
रमणीय़े वनोद्देशे गङ्गातीरे समे शुभे ||
१६ ख
वैशम्पाय़न उवाच:
न्यासय़ामासुरथ तां शिविकां सत्यवादिनः |
१७ क
वैशम्पाय़न उवाच:
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ||
१७ ख
वैशम्पाय़न उवाच:
ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् |
१८ क
वैशम्पाय़न उवाच:
शुचिकालीय़कादिग्धं मुख्यस्नानाधिवासितम् |
१८ ख
वैशम्पाय़न उवाच:
पर्यषिञ्चज्जलेनाशु शातकुम्भमय़ैर्घटैः ||
१८ ग
वैशम्पाय़न उवाच:
चन्दनेन च मुख्येन शुक्लेन समलेपय़न् |
१९ क
वैशम्पाय़न उवाच:
कालागुरुविमिश्रेण तथा तुङ्गरसेन च ||
१९ ख
वैशम्पाय़न उवाच:
अथैनं देशजैः शुक्लैर्वासोभिः समय़ोजय़न् |
२० क
वैशम्पाय़न उवाच:
आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः |
२० ख
वैशम्पाय़न उवाच:
शुशुभे पुरुषव्याघ्रो महार्हशय़नोचितः ||
२० ग
वैशम्पाय़न उवाच:
याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः |
२१ क
वैशम्पाय़न उवाच:
घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ||
२१ ख
वैशम्पाय़न उवाच:
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना |
२२ क
वैशम्पाय़न उवाच:
अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहय़न् ||
२२ ख
वैशम्पाय़न उवाच:
ततस्तय़ोः शरीरे ते दृष्ट्वा मोहवशं गता |
२३ क
वैशम्पाय़न उवाच:
हाहा पुत्रेति कौसल्या पपात सहसा भुवि ||
२३ ख
वैशम्पाय़न उवाच:
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः |
२४ क
वैशम्पाय़न उवाच:
रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ||
२४ ख
वैशम्पाय़न उवाच:
क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः |
२५ क
वैशम्पाय़न उवाच:
मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ||
२५ ख
वैशम्पाय़न उवाच:
तथा भीष्मः शान्तनवो विदुरश्च महामतिः |
२६ क
वैशम्पाय़न उवाच:
सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ||
२६ ख
वैशम्पाय़न उवाच:
ततो भीष्मोऽथ विदुरो राजा च सह वन्धुभिः |
२७ क
वैशम्पाय़न उवाच:
उदकं चक्रिरे तस्य सर्वाश्च कुरुय़ोषितः ||
२७ ख
वैशम्पाय़न उवाच:
कृतोदकांस्तानादाय़ पाण्डवाञ्शोककर्शितान् |
२८ क
वैशम्पाय़न उवाच:
सर्वाः प्रकृतय़ो राजञ्शोचन्त्यः पर्यवारय़न् ||
२८ ख
वैशम्पाय़न उवाच:
यथैव पाण्डवा भूमौ सुषुपुः सह वान्धवैः |
२९ क
वैशम्पाय़न उवाच:
तथैव नागरा राजञ्शिश्यिरे व्राह्मणादय़ः ||
२९ ख
वैशम्पाय़न उवाच:
तदनानन्दमस्वस्थमाकुमारमहृष्टवत् |
३० क
वैशम्पाय़न उवाच:
वभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ||
३० ख