युधिष्ठिर उवाच:
अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे |
१ क
युधिष्ठिर उवाच:
कां योनिं प्रतिपन्नास्ते तन्मे व्रूहि पितामह ||
१ ख
युधिष्ठिर उवाच:
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे |
२ क
युधिष्ठिर उवाच:
जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम् ||
२ ख
युधिष्ठिर उवाच:
समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे |
३ क
युधिष्ठिर उवाच:
कारणं तत्र मे व्रूहि सर्वज्ञो ह्यसि मे मतः ||
३ ख
भीष्म उवाच:
समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे |
४ क
भीष्म उवाच:
संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते ||
४ ख
भीष्म उवाच:
निरता येन भावेन तत्र मे शृणु कारणम् |
५ क
भीष्म उवाच:
सम्यक्चाय़मनुप्रश्नस्त्वय़ोक्तश्च युधिष्ठिर ||
५ ख
भीष्म उवाच:
अत्र ते वर्तय़िष्यामि पुरावृत्तमिदं नृप |
६ क
भीष्म उवाच:
द्वैपाय़नस्य संवादं कीटस्य च युधिष्ठिर ||
६ ख
भीष्म उवाच:
व्रह्मभूतश्चरन्विप्रः कृष्णद्वैपाय़नः पुरा |
७ क
भीष्म उवाच:
ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ||
७ ख
भीष्म उवाच:
गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् |
८ क
भीष्म उवाच:
सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमव्रवीत् ||
८ ख
भीष्म उवाच:
कीट सन्त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे |
९ क
भीष्म उवाच:
क्व धावसि तदाचक्ष्व कुतस्ते भय़मागतम् ||
९ ख
कीट उवाच:
शकटस्यास्य महतो घोषं श्रुत्वा भय़ं मम |
१० क
कीट उवाच:
आगतं वै महावुद्धे स्वन एष हि दारुणः |
१० ख
कीट उवाच:
श्रूय़ते न स मां हन्यादिति तस्मादपाक्रमे ||
१० ग
कीट उवाच:
श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम् |
११ क
कीट उवाच:
वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो |
११ ख
कीट उवाच:
नृणां च संवाहय़तां श्रूय़ते विविधः स्वनः ||
११ ग
कीट उवाच:
सोढुमस्मद्विधेनैष न शक्यः कीटय़ोनिना |
१२ क
कीट उवाच:
तस्मादपक्रमाम्येष भय़ादस्मात्सुदारुणात् ||
१२ ख
कीट उवाच:
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् |
१३ क
कीट उवाच:
अतो भीतः पलाय़ामि गच्छेय़ं नासुखं सुखात् ||
१३ ख
भीष्म उवाच:
इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव |
१४ क
भीष्म उवाच:
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ||
१४ ख
भीष्म उवाच:
शव्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्वहून् |
१५ क
भीष्म उवाच:
नाभिजानासि कीट त्वं श्रेय़ो मरणमेव ते ||
१५ ख
कीट उवाच:
सर्वत्र निरतो जीव इतीहापि सुखं मम |
१६ क
कीट उवाच:
चेतय़ामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ||
१६ ख
कीट उवाच:
इहापि विषय़ः सर्वो यथादेहं प्रवर्तितः |
१७ क
कीट उवाच:
मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः ||
१७ ख
कीट उवाच:
अहमासं मनुष्यो वै शूद्रो वहुधनः पुरा |
१८ क
कीट उवाच:
अव्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः ||
१८ ख
कीट उवाच:
वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः |
१९ क
कीट उवाच:
मिथःकृतोऽपनिधनः परस्वहरणे रतः ||
१९ ख
कीट उवाच:
भृत्यातिथिजनश्चापि गृहे पर्युषितो मय़ा |
२० क
कीट उवाच:
मात्सर्यात्स्वादुकामेन नृशंसेन वुभूषता ||
२० ख
कीट उवाच:
देवार्थं पितृय़ज्ञार्थमन्नं श्रद्धाकृतं मय़ा |
२१ क
कीट उवाच:
न दत्तमर्थकामेन देय़मन्नं पुनाति ह ||
२१ ख
कीट उवाच:
गुप्तं शरणमाश्रित्य भय़ेषु शरणागताः |
२२ क
कीट उवाच:
अकस्मान्नो भय़ात्त्यक्ता न च त्राताभय़ैषिणः ||
२२ ख
कीट उवाच:
धनं धान्यं प्रिय़ान्दारान्यानं वासस्तथाद्भुतम् |
२३ क
कीट उवाच:
श्रिय़ं दृष्ट्वा मनुष्याणामसूय़ामि निरर्थकम् ||
२३ ख
कीट उवाच:
ईर्ष्युः परसुखं दृष्ट्वा आतताय़्यवुभूषकः |
२४ क
कीट उवाच:
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ||
२४ ख
कीट उवाच:
नृशंसगुणभूय़िष्ठं पुरा कर्म कृतं मय़ा |
२५ क
कीट उवाच:
स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रिय़मिवात्मजम् ||
२५ ख
कीट उवाच:
शुभानामपि जानामि कृतानां कर्मणां फलम् |
२६ क
कीट उवाच:
माता च पूजिता वृद्धा व्राह्मणश्चार्चितो मय़ा ||
२६ ख
कीट उवाच:
सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः |
२७ क
कीट उवाच:
अतिथिः पूजितो व्रह्मंस्तेन मां नाजहात्स्मृतिः ||
२७ ख
कीट उवाच:
कर्मणा तेन चैवाहं सुखाशामिह लक्षय़े |
२८ क
कीट उवाच:
तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेय़स्तपोधन ||
२८ ख