chevron_left वन पर्व अध्याय ११८
वैशम्पाय़न उवाच:
गच्छन्स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा |
१ क
वैशम्पाय़न उवाच:
सर्वाणि विप्रैरुपशोभितानि; क्वचित्क्वचिद्भारत सागरस्य ||
१ ख
वैशम्पाय़न उवाच:
स वृत्तवांस्तेषु कृताभिषेकः; सहानुजः पार्थिवपुत्रपौत्रः |
२ क
वैशम्पाय़न उवाच:
समुद्रगां पुण्यतमां प्रशस्तां; जगाम पारिक्षित पाण्डुपुत्रः ||
२ ख
वैशम्पाय़न उवाच:
तत्रापि चाप्लुत्य महानुभावः; सन्तर्पय़ामास पितॄन्सुरांश्च |
३ क
वैशम्पाय़न उवाच:
द्विजातिमुख्येषु धनं विसृज्य; गोदावरिं सागरगामगच्छत् ||
३ ख
वैशम्पाय़न उवाच:
ततो विपाप्मा द्रविडेषु राज; न्समुद्रमासाद्य च लोकपुण्यम् |
४ क
वैशम्पाय़न उवाच:
अगस्त्यतीर्थं च पवित्रपुण्यं; नारीतीर्थान्यथ वीरो ददर्श ||
४ ख
वैशम्पाय़न उवाच:
तत्रार्जुनस्याग्र्यधनुर्धरस्य; निशम्य तत्कर्म परैरसह्यम् |
५ क
वैशम्पाय़न उवाच:
सम्पूज्यमानः परमर्षिसङ्घैः; परां मुदं पाण्डुसुतः स लेभे ||
५ ख
वैशम्पाय़न उवाच:
स तेषु तीर्थेष्वभिषिक्तगात्रः; कृष्णासहाय़ः सहितोऽनुजैश्च |
६ क
वैशम्पाय़न उवाच:
सम्पूजय़न्विक्रममर्जुनस्य; रेमे महीपालपतिः पृथिव्याम् ||
६ ख
वैशम्पाय़न उवाच:
ततः सहस्राणि गवां प्रदाय़; तीर्थेषु तेष्वम्वुधरोत्तमस्य |
७ क
वैशम्पाय़न उवाच:
हृष्टः सह भ्रातृभिरर्जुनस्य; सङ्कीर्तय़ामास गवां प्रदानम् ||
७ ख
वैशम्पाय़न उवाच:
स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि वहूनि राजन् |
८ क
वैशम्पाय़न उवाच:
क्रमेण गच्छन्परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श ||
८ ख
वैशम्पाय़न उवाच:
तत्रोदधेः कञ्चिदतीत्य देशं; ख्यातं पृथिव्यां वनमाससाद |
९ क
वैशम्पाय़न उवाच:
तप्तं सुरैर्यत्र तपः पुरस्ता; दिष्टं तथा पुण्यतमैर्नरेन्द्रैः ||
९ ख
वैशम्पाय़न उवाच:
स तत्र तामग्र्यधनुर्धरस्य; वेदीं ददर्शाय़तपीनवाहुः |
१० क
वैशम्पाय़न उवाच:
ऋचीकपुत्रस्य तपस्विसङ्घैः; समावृतां पुण्यकृदर्चनीय़ाम् ||
१० ख
वैशम्पाय़न उवाच:
ततो वसूनां वसुधाधिपः स; मरुद्गणानां च तथाश्विनोश्च |
११ क
वैशम्पाय़न उवाच:
वैवस्वतादित्यधनेश्वराणा; मिन्द्रस्य विष्णोः सवितुर्विभोश्च ||
११ ख
वैशम्पाय़न उवाच:
भगस्य चन्द्रस्य दिवाकरस्य; पतेरपां साध्यगणस्य चैव |
१२ क
वैशम्पाय़न उवाच:
धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन्सगणस्य चैव ||
१२ ख
वैशम्पाय़न उवाच:
सरस्वत्याः सिद्धगणस्य चैव; पूष्णश्च ये चाप्यमरास्तथान्ये |
१३ क
वैशम्पाय़न उवाच:
पुण्यानि चाप्याय़तनानि तेषां; ददर्श राजा सुमनोहराणि ||
१३ ख
वैशम्पाय़न उवाच:
तेषूपवासान्विविधानुपोष्य; दत्त्वा च रत्नानि महाधनानि |
१४ क
वैशम्पाय़न उवाच:
तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकमाजगाम ||
१४ ख
वैशम्पाय़न उवाच:
स तेन तीर्थेन तु सागरस्य; पुनः प्रय़ातः सह सोदरीय़ैः |
१५ क
वैशम्पाय़न उवाच:
द्विजैः पृथिव्यां प्रथितं महद्भि; स्तीर्थं प्रभासं समुपाजगाम ||
१५ ख
वैशम्पाय़न उवाच:
तत्राभिषिक्तः पृथुलोहिताक्षः; सहानुजैर्देवगणान्पितॄंश्च |
१६ क
वैशम्पाय़न उवाच:
सन्तर्पय़ामास तथैव कृष्णा; ते चापि विप्राः सह लोमशेन ||
१६ ख
वैशम्पाय़न उवाच:
स द्वादशाहं जलवाय़ुभक्षः; कुर्वन्क्षपाहःसु तदाभिषेकम् |
१७ क
वैशम्पाय़न उवाच:
समन्ततोऽग्नीनुपदीपय़ित्वा; तेपे तपो धर्मभृतां वरिष्ठः ||
१७ ख
वैशम्पाय़न उवाच:
तमुग्रमास्थाय़ तपश्चरन्तं; शुश्राव रामश्च जनार्दनश्च |
१८ क
वैशम्पाय़न उवाच:
तौ सर्ववृष्णिप्रवरौ ससैन्यौ; युधिष्ठिरं जग्मतुराजमीढम् ||
१८ ख
वैशम्पाय़न उवाच:
ते वृष्णय़ः पाण्डुसुतान्समीक्ष्य; भूमौ शय़ानान्मलदिग्धगात्रान् |
१९ क
वैशम्पाय़न उवाच:
अनर्हतीं द्रौपदीं चापि दृष्ट्वा; सुदुःखिताश्चुक्रुशुरार्तनादम् ||
१९ ख
वैशम्पाय़न उवाच:
ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्वं च शिनेश्च पौत्रम् |
२० क
वैशम्पाय़न उवाच:
अन्यांश्च वृष्णीनुपगम्य पूजां; चक्रे यथाधर्ममदीनसत्त्वः ||
२० ख
वैशम्पाय़न उवाच:
ते चापि सर्वान्प्रतिपूज्य पार्थां; स्तैः सत्कृताः पाण्डुसुतैस्तथैव |
२१ क
वैशम्पाय़न उवाच:
युधिष्ठिरं सम्परिवार्य राज; न्नुपाविशन्देवगणा यथेन्द्रम् ||
२१ ख
वैशम्पाय़न उवाच:
तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः |
२२ क
वैशम्पाय़न उवाच:
अस्त्रार्थमिन्द्रस्य गतं च पार्थं; कृष्णे शशंसामरराजपुत्रम् ||
२२ ख
वैशम्पाय़न उवाच:
श्रुत्वा तु ते तस्य वचः प्रतीता; स्तांश्चापि दृष्ट्वा सुकृशानतीव |
२३ क
वैशम्पाय़न उवाच:
नेत्रोद्भवं संमुमुचुर्दशार्हा; दुःखार्तिजं वारि महानुभावाः ||
२३ ख