chevron_left उद्योग पर्व अध्याय ११८
नारद उवाच:
स तु राजा पुनस्तस्याः कर्तुकामः स्वय़ंवरम् |
१ क
नारद उवाच:
उपगम्याश्रमपदं गङ्गाय़मुनसङ्गमे ||
१ ख
नारद उवाच:
गृहीतमाल्यदामां तां रथमारोप्य माधवीम् |
२ क
नारद उवाच:
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ||
२ ख
नारद उवाच:
नागय़क्षमनुष्याणां पतत्रिमृगपक्षिणाम् |
३ क
नारद उवाच:
शैलद्रुमवनौकानामासीत्तत्र समागमः ||
३ ख
नारद उवाच:
नानापुरुषदेशानामीश्वरैश्च समाकुलम् |
४ क
नारद उवाच:
ऋषिभिर्व्रह्मकल्पैश्च समन्तादावृतं वनम् ||
४ ख
नारद उवाच:
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी |
५ क
नारद उवाच:
वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम् ||
५ ख
नारद उवाच:
अवतीर्य रथात्कन्या नमस्कृत्वा च वन्धुषु |
६ क
नारद उवाच:
उपगम्य वनं पुण्यं तपस्तेपे यय़ातिजा ||
६ ख
नारद उवाच:
उपवासैश्च विविधैर्दीक्षाभिर्निय़मैस्तथा |
७ क
नारद उवाच:
आत्मनो लघुतां कृत्वा वभूव मृगचारिणी ||
७ ख
नारद उवाच:
वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च |
८ क
नारद उवाच:
चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च ||
८ ख
नारद उवाच:
स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च |
९ क
नारद उवाच:
पिवन्ती वारिमुख्यानि शीतानि विमलानि च ||
९ ख
नारद उवाच:
वनेषु मृगराजेषु सिंहविप्रोषितेषु च |
१० क
नारद उवाच:
दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च ||
१० ख
नारद उवाच:
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी |
११ क
नारद उवाच:
चचार विपुलं धर्मं व्रह्मचर्येण संवृता ||
११ ख
नारद उवाच:
यय़ातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः |
१२ क
नारद उवाच:
वहुवर्षसहस्राय़ुरय़ुजत्कालधर्मणा ||
१२ ख
नारद उवाच:
पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमौ |
१३ क
नारद उवाच:
ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः ||
१३ ख
नारद उवाच:
महीय़ते नरपतिर्ययातिः स्वर्गमास्थितः |
१४ क
नारद उवाच:
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः ||
१४ ख
नारद उवाच:
वहुवर्षसहस्राख्ये काले वहुगुणे गते |
१५ क
नारद उवाच:
राजर्षिषु निषण्णेषु महीय़ःसु महर्षिषु ||
१५ ख
नारद उवाच:
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा |
१६ क
नारद उवाच:
यय़ातिर्मूढविज्ञानो विस्मय़ाविष्टचेतनः ||
१६ ख
नारद उवाच:
ततस्तं वुवुधे देवः शक्रो वलनिषूदनः |
१७ क
नारद उवाच:
ते च राजर्षय़ः सर्वे धिग्धिगित्येवमव्रुवन् ||
१७ ख
नारद उवाच:
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् |
१८ क
नारद उवाच:
को न्वय़ं कस्य वा राज्ञः कथं वा स्वर्गमागतः ||
१८ ख
नारद उवाच:
कर्मणा केन सिद्धोऽय़ं क्व वानेन तपश्चितम् |
१९ क
नारद उवाच:
कथं वा ज्ञाय़ते स्वर्गे केन वा ज्ञाय़तेऽप्युत ||
१९ ख
नारद उवाच:
एवं विचारय़न्तस्ते राजानः स्वर्गवासिनः |
२० क
नारद उवाच:
दृष्ट्वा पप्रच्छुरन्योन्यं यय़ातिं नृपतिं प्रति ||
२० ख
नारद उवाच:
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः |
२१ क
नारद उवाच:
पृष्टा आसनपालाश्च न जानीमेत्यथाव्रुवन् ||
२१ ख
नारद उवाच:
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् |
२२ क
नारद उवाच:
स मुहूर्तादथ नृपो हतौजा अभवत्तदा ||
२२ ख