सञ्जय़ उवाच:
स वाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः |
१ क
सञ्जय़ उवाच:
आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः ||
१ ख
सञ्जय़ उवाच:
प्रहरिष्यन्हृतो वाहुरदृश्येन किरीटिना |
२ क
सञ्जय़ उवाच:
वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः ||
२ ख
सञ्जय़ उवाच:
स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः |
३ क
सञ्जय़ उवाच:
उत्सृज्य सात्यकिं क्रोधाद्गर्हय़ामास पाण्डवम् ||
३ ख
सञ्जय़ उवाच:
नृशंसं वत कौन्तेय़ कर्मेदं कृतवानसि |
४ क
सञ्जय़ उवाच:
अपश्यतो विषक्तस्य यन्मे वाहुमचिच्छिदः ||
४ ख
सञ्जय़ उवाच:
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् |
५ क
सञ्जय़ उवाच:
किं कुर्वाणो मय़ा सङ्ख्ये हतो भूरिश्रवा इति ||
५ ख
सञ्जय़ उवाच:
इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना |
६ क
सञ्जय़ उवाच:
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ||
६ ख
सञ्जय़ उवाच:
ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः |
७ क
सञ्जय़ उवाच:
अय़ुध्यमानस्य कथं रणे प्रहृतवानसि ||
७ ख
सञ्जय़ उवाच:
न प्रमत्ताय़ भीताय़ विरथाय़ प्रय़ाचते |
८ क
सञ्जय़ उवाच:
व्यसने वर्तमानाय़ प्रहरन्ति मनस्विनः ||
८ ख
सञ्जय़ उवाच:
इदं तु नीचाचरितमसत्पुरुषसेवितम् |
९ क
सञ्जय़ उवाच:
कथमाचरितं पार्थ त्वय़ा कर्म सुदुष्करम् ||
९ ख
सञ्जय़ उवाच:
आर्येण सुकरं ह्याहुरार्यकर्म धनञ्जय़ |
१० क
सञ्जय़ उवाच:
अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि ||
१० ख
सञ्जय़ उवाच:
येषु येषु नरः पार्थ यत्र यत्र च वर्तते |
११ क
सञ्जय़ उवाच:
आशु तच्छीलतामेति तदिदं त्वय़ि दृश्यते ||
११ ख
सञ्जय़ उवाच:
कथं हि राजवंश्यस्त्वं कौरवेय़ो विशेषतः |
१२ क
सञ्जय़ उवाच:
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः ||
१२ ख
सञ्जय़ उवाच:
इदं तु यदतिक्षुद्रं वार्ष्णेय़ार्थे कृतं त्वय़ा |
१३ क
सञ्जय़ उवाच:
वासुदेवमतं नूनं नैतत्त्वय़्युपपद्यते ||
१३ ख
सञ्जय़ उवाच:
को हि नाम प्रमत्ताय़ परेण सह युध्यते |
१४ क
सञ्जय़ उवाच:
ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् ||
१४ ख
सञ्जय़ उवाच:
व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः |
१५ क
सञ्जय़ उवाच:
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः ||
१५ ख
सञ्जय़ उवाच:
एवमुक्त्वा महावाहुर्यूपकेतुर्महाय़शाः |
१६ क
सञ्जय़ उवाच:
युय़ुधानं परित्यज्य रणे प्राय़मुपाविशत् ||
१६ ख
सञ्जय़ उवाच:
शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः |
१७ क
सञ्जय़ उवाच:
यिय़ासुर्व्रह्मलोकाय़ प्राणान्प्राणेष्वथाजुहोत् ||
१७ ख
सञ्जय़ उवाच:
सूर्ये चक्षुः समाधाय़ प्रसन्नं सलिले मनः |
१८ क
सञ्जय़ उवाच:
ध्याय़न्महोपनिषदं योगय़ुक्तोऽभवन्मुनिः ||
१८ ख
सञ्जय़ उवाच:
ततः स सर्वसेनाय़ां जनः कृष्णधनञ्जय़ौ |
१९ क
सञ्जय़ उवाच:
गर्हय़ामास तं चापि शशंस पुरुषर्षभम् ||
१९ ख
सञ्जय़ उवाच:
निन्द्यमानौ तथा कृष्णौ नोचतुः किञ्चिदप्रिय़म् |
२० क
सञ्जय़ उवाच:
प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः ||
२० ख
सञ्जय़ उवाच:
तांस्तथा वादिनो राजन्पुत्रांस्तव धनञ्जय़ः |
२१ क
सञ्जय़ उवाच:
अमृष्यमाणो मनसा तेषां तस्य च भाषितम् ||
२१ ख
सञ्जय़ उवाच:
असङ्क्रुद्धमना वाचा स्मारय़न्निव भारत |
२२ क
सञ्जय़ उवाच:
उवाच पाण्डुतनय़ः साक्षेपमिव फल्गुनः ||
२२ ख
सञ्जय़ उवाच:
मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् |
२३ क
सञ्जय़ उवाच:
न शक्यो मामको हन्तुं यो मे स्याद्वाणगोचरे ||
२३ ख
सञ्जय़ उवाच:
यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि |
२४ क
सञ्जय़ उवाच:
न हि धर्ममविज्ञाय़ युक्तं गर्हय़ितुं परम् ||
२४ ख
सञ्जय़ उवाच:
आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः |
२५ क
सञ्जय़ उवाच:
यदहं वाहुमच्छैत्सं न स धर्मो विगर्हितः ||
२५ ख
सञ्जय़ उवाच:
न्यस्तशस्त्रस्य वालस्य विरथस्य विवर्मणः |
२६ क
सञ्जय़ उवाच:
अभिमन्योर्वधं तात धार्मिकः को न पूजय़ेत् ||
२६ ख
सञ्जय़ उवाच:
एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत् |
२७ क
सञ्जय़ उवाच:
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् ||
२७ ख
सञ्जय़ उवाच:
एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः |
२८ क
सञ्जय़ उवाच:
यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः ||
२८ ख
अर्जुन उवाच:
या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे |
२९ क
अर्जुन उवाच:
नकुले सहदेवे च सा मे त्वय़ि शलाग्रज ||
२९ ख
अर्जुन उवाच:
मय़ा तु समनुज्ञातः कृष्णेन च महात्मना |
३० क
अर्जुन उवाच:
गच्छ पुण्यकृताँल्लोकाञ्शिविरौशीनरो यथा ||
३० ख
सञ्जय़ उवाच:
तत उत्थाय़ शैनेय़ो विमुक्तः सौमदत्तिना |
३१ क
सञ्जय़ उवाच:
खड्गमादाय़ चिच्छित्सुः शिरस्तस्य महात्मनः ||
३१ ख
सञ्जय़ उवाच:
निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम् |
३२ क
सञ्जय़ उवाच:
इय़ेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् ||
३२ ख
सञ्जय़ उवाच:
निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् |
३३ क
सञ्जय़ उवाच:
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ||
३३ ख
सञ्जय़ उवाच:
वार्यमाणः स कृष्णेन पार्थेन च महात्मना |
३४ क
सञ्जय़ उवाच:
भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च ||
३४ ख
सञ्जय़ उवाच:
कर्णेन वृषसेनेन सैन्धवेन तथैव च |
३५ क
सञ्जय़ उवाच:
विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम् ||
३५ ख
सञ्जय़ उवाच:
प्राय़ोपविष्टाय़ रणे पार्थेन छिन्नवाहवे |
३६ क
सञ्जय़ उवाच:
सात्यकिः कौरवेन्द्राय़ खड्गेनापाहरच्छिरः ||
३६ ख
सञ्जय़ उवाच:
नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा |
३७ क
सञ्जय़ उवाच:
अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् ||
३७ ख
सञ्जय़ उवाच:
सहस्राक्षसमं तत्र सिद्धचारणमानवाः |
३८ क
सञ्जय़ उवाच:
भूरिश्रवसमालोक्य युद्धे प्राय़गतं हतम् ||
३८ ख
सञ्जय़ उवाच:
अपूजय़न्त तं देवा विस्मितास्तस्य कर्मभिः |
३९ क
सञ्जय़ उवाच:
पक्षवादांश्च वहुशः प्रावदंस्तस्य सैनिकाः ||
३९ ख
सञ्जय़ उवाच:
न वार्ष्णेय़स्यापराधो भवितव्यं हि तत्तथा |
४० क
सञ्जय़ उवाच:
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखकरो नृणाम् ||
४० ख
सञ्जय़ उवाच:
हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा |
४१ क
सञ्जय़ उवाच:
विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे ||
४१ ख
सात्यकिरु उवाच:
न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ |
४२ क
सात्यकिरु उवाच:
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः ||
४२ ख
सात्यकिरु उवाच:
यदा वालः सुभद्राय़ाः सुतः शस्त्रविनाकृतः |
४३ क
सात्यकिरु उवाच:
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः ||
४३ ख
सात्यकिरु उवाच:
मय़ा त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि |
४४ क
सात्यकिरु उवाच:
यो मां निष्पिष्य सङ्ग्रामे जीवन्हन्यात्पदा रुषा |
४४ ख
सात्यकिरु उवाच:
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ||
४४ ग
सात्यकिरु उवाच:
चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः |
४५ क
सात्यकिरु उवाच:
मन्यध्वं मृतमित्येवमेतद्वो वुद्धिलाघवम् |
४५ ख
सात्यकिरु उवाच:
युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गवाः ||
४५ ग
सात्यकिरु उवाच:
यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता |
४६ क
सात्यकिरु उवाच:
सखड्गोऽस्य हृतो वाहुरेतेनैवास्मि वञ्चितः ||
४६ ख
सात्यकिरु उवाच:
भवितव्यं च यद्भावि दैवं चेष्टय़तीव च |
४७ क
सात्यकिरु उवाच:
सोऽय़ं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् ||
४७ ख
सात्यकिरु उवाच:
अपि चाय़ं पुरा गीतः श्लोको वाल्मीकिना भुवि |
४८ क
सात्यकिरु उवाच:
पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ||
४८ ख
सञ्जय़ उवाच:
एवमुक्ते महाराज सर्वे कौरवपाण्डवाः |
४९ क
सञ्जय़ उवाच:
न स्म किञ्चिदभाषन्त मनसा समपूजय़न् ||
४९ ख