chevron_left आदि पर्व अध्याय ११९
वैशम्पाय़न उवाच:
ततः क्षत्ता च राजा च भीष्मश्च सह वन्धुभिः |
१ क
वैशम्पाय़न उवाच:
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमय़ं तदा ||
१ ख
वैशम्पाय़न उवाच:
कुरूंश्च विप्रमुख्यांश्च भोजय़ित्वा सहस्रशः |
२ क
वैशम्पाय़न उवाच:
रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ||
२ ख
वैशम्पाय़न उवाच:
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् |
३ क
वैशम्पाय़न उवाच:
आदाय़ विविशुः पौराः पुरं वारणसाह्वय़म् ||
३ ख
वैशम्पाय़न उवाच:
सततं स्मान्वतप्यन्त तमेव भरतर्षभम् |
४ क
वैशम्पाय़न उवाच:
पौरजानपदाः सर्वे मृतं स्वमिव वान्धवम् ||
४ ख
वैशम्पाय़न उवाच:
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् |
५ क
वैशम्पाय़न उवाच:
संमूढां दुःखशोकार्तां व्यासो मातरमव्रवीत् ||
५ ख
वैशम्पाय़न उवाच:
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः |
६ क
वैशम्पाय़न उवाच:
श्वः श्वः पापीय़दिवसाः पृथिवी गतय़ौवना ||
६ ख
वैशम्पाय़न उवाच:
वहुमाय़ासमाकीर्णो नानादोषसमाकुलः |
७ क
वैशम्पाय़न उवाच:
लुप्तधर्मक्रिय़ाचारो घोरः कालो भविष्यति ||
७ ख
वैशम्पाय़न उवाच:
गच्छ त्वं त्यागमास्थाय़ युक्ता वस तपोवने |
८ क
वैशम्पाय़न उवाच:
मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षय़मात्मनः ||
८ ख
वैशम्पाय़न उवाच:
तथेति समनुज्ञाय़ सा प्रविश्याव्रवीत्स्नुषाम् |
९ क
वैशम्पाय़न उवाच:
अम्विके तव पुत्रस्य दुर्नय़ात्किल भारताः |
९ ख
वैशम्पाय़न उवाच:
सानुवन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ||
९ ग
वैशम्पाय़न उवाच:
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् |
१० क
वैशम्पाय़न उवाच:
वनमादाय़ भद्रं ते गच्छावो यदि मन्यसे ||
१० ख
वैशम्पाय़न उवाच:
तथेत्युक्ते अम्विकय़ा भीष्ममामन्त्र्य सुव्रता |
११ क
वैशम्पाय़न उवाच:
वनं यय़ौ सत्यवती स्नुषाभ्यां सह भारत ||
११ ख
वैशम्पाय़न उवाच:
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम |
१२ क
वैशम्पाय़न उवाच:
देहं त्यक्त्वा महाराज गतिमिष्टां यय़ुस्तदा ||
१२ ख
वैशम्पाय़न उवाच:
अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा |
१३ क
वैशम्पाय़न उवाच:
अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ||
१३ ख
वैशम्पाय़न उवाच:
धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि |
१४ क
वैशम्पाय़न उवाच:
वालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ||
१४ ख
वैशम्पाय़न उवाच:
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे |
१५ क
वैशम्पाय़न उवाच:
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ||
१५ ख
वैशम्पाय़न उवाच:
हर्षादेतान्क्रीडमानान्गृह्य काकनिलीय़ने |
१६ क
वैशम्पाय़न उवाच:
शिरःसु च निगृह्यैनान्योधय़ामास पाण्डवः ||
१६ ख
वैशम्पाय़न उवाच:
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् |
१७ क
वैशम्पाय़न उवाच:
एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ||
१७ ख
वैशम्पाय़न उवाच:
पादेषु च निगृह्यैनान्विनिहत्य वलाद्वली |
१८ क
वैशम्पाय़न उवाच:
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ||
१८ ख
वैशम्पाय़न उवाच:
दश वालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः |
१९ क
वैशम्पाय़न उवाच:
आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ||
१९ ख
वैशम्पाय़न उवाच:
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा |
२० क
वैशम्पाय़न उवाच:
तदा पादप्रहारेण भीमः कम्पय़ते द्रुमम् ||
२० ख
वैशम्पाय़न उवाच:
प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः |
२१ क
वैशम्पाय़न उवाच:
सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ||
२१ ख
वैशम्पाय़न उवाच:
न ते निय़ुद्धे न जवे न योग्यासु कदाचन |
२२ क
वैशम्पाय़न उवाच:
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ||
२२ ख
वैशम्पाय़न उवाच:
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः |
२३ क
वैशम्पाय़न उवाच:
अप्रिय़ेऽतिष्ठदत्यन्तं वाल्यान्न द्रोहचेतसा ||
२३ ख
वैशम्पाय़न उवाच:
ततो वलमतिख्यातं धार्तराष्ट्रः प्रतापवान् |
२४ क
वैशम्पाय़न उवाच:
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शय़त् ||
२४ ख
वैशम्पाय़न उवाच:
तस्य धर्मादपेतस्य पापानि परिपश्यतः |
२५ क
वैशम्पाय़न उवाच:
मोहादैश्वर्यलोभाच्च पापा मतिरजाय़त ||
२५ ख
वैशम्पाय़न उवाच:
अय़ं वलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः |
२६ क
वैशम्पाय़न उवाच:
मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ||
२६ ख
वैशम्पाय़न उवाच:
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् |
२७ क
वैशम्पाय़न उवाच:
प्रसह्य वन्धने वद्ध्वा प्रशासिष्ये वसुन्धराम् ||
२७ ख
वैशम्पाय़न उवाच:
एवं स निश्चय़ं पापः कृत्वा दुर्योधनस्तदा |
२८ क
वैशम्पाय़न उवाच:
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ||
२८ ख
वैशम्पाय़न उवाच:
ततो जलविहारार्थं कारय़ामास भारत |
२९ क
वैशम्पाय़न उवाच:
चेलकम्वलवेश्मानि विचित्राणि महान्ति च ||
२९ ख
वैशम्पाय़न उवाच:
प्रमाणकोट्यामुद्देशं स्थलं किञ्चिदुपेत्य च |
३० क
वैशम्पाय़न उवाच:
क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलङ्कृताः |
३० ख
वैशम्पाय़न उवाच:
सर्वकामसमृद्धं तदन्नं वुभुजिरे शनैः ||
३० ग
वैशम्पाय़न उवाच:
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः |
३१ क
वैशम्पाय़न उवाच:
विहारावसथेष्वेव वीरा वासमरोचय़न् ||
३१ ख
वैशम्पाय़न उवाच:
खिन्नस्तु वलवान्भीमो व्याय़ामाभ्यधिकस्तदा |
३२ क
वैशम्पाय़न उवाच:
वाहय़ित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः |
३२ ख
वैशम्पाय़न उवाच:
प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ||
३२ ग
वैशम्पाय़न उवाच:
शीतं वासं समासाद्य श्रान्तो मदविमोहितः |
३३ क
वैशम्पाय़न उवाच:
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ||
३३ ख
वैशम्पाय़न उवाच:
ततो वद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः |
३४ क
वैशम्पाय़न उवाच:
गम्भीरं भीमवेगं च स्थलाज्जलमपातय़त् ||
३४ ख
वैशम्पाय़न उवाच:
ततः प्रवुद्धः कौन्तेय़ः सर्वं सञ्छिद्य वन्धनम् |
३५ क
वैशम्पाय़न उवाच:
उदतिष्ठज्जलाद्भूय़ो भीमः प्रहरतां वरः ||
३५ ख
वैशम्पाय़न उवाच:
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः |
३६ क
वैशम्पाय़न उवाच:
कुपितैर्दंशय़ामास सर्वेष्वेवाङ्गमर्मसु ||
३६ ख
वैशम्पाय़न उवाच:
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः |
३७ क
वैशम्पाय़न उवाच:
त्वचं नैवास्य विभिदुः सारत्वात्पृथुवक्षसः ||
३७ ख
वैशम्पाय़न उवाच:
प्रतिवुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथय़त् |
३८ क
वैशम्पाय़न उवाच:
सारथिं चास्य दय़ितमपहस्तेन जघ्निवान् ||
३८ ख
वैशम्पाय़न उवाच:
भोजने भीमसेनस्य पुनः प्राक्षेपय़द्विषम् |
३९ क
वैशम्पाय़न उवाच:
कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ||
३९ ख
वैशम्पाय़न उवाच:
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया |
४० क
वैशम्पाय़न उवाच:
तच्चापि भुक्त्वाजरय़दविकारो वृकोदरः ||
४० ख
वैशम्पाय़न उवाच:
विकारं न ह्यजनय़त्सुतीक्ष्णमपि तद्विषम् |
४१ क
वैशम्पाय़न उवाच:
भीमसंहननो भीमस्तदप्यजरय़त्ततः ||
४१ ख
वैशम्पाय़न उवाच:
एवं दुर्योधनः कर्णः शकुनिश्चापि सौवलः |
४२ क
वैशम्पाय़न उवाच:
अनेकैरभ्युपाय़ैस्ताञ्जिघांसन्ति स्म पाण्डवान् ||
४२ ख
वैशम्पाय़न उवाच:
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिन्दमाः |
४३ क
वैशम्पाय़न उवाच:
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ||
४३ ख