chevron_left अनुशासन पर्व अध्याय ११९
व्यास उवाच:
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे |
१ क
व्यास उवाच:
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ||
१ ख
व्यास उवाच:
अहं हि दर्शनादेव तारय़ामि तपोवलात् |
२ क
व्यास उवाच:
तपोवलाद्धि वलवद्वलमन्यन्न विद्यते ||
२ ख
व्यास उवाच:
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् |
३ क
व्यास उवाच:
अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे ||
३ ख
व्यास उवाच:
कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये |
४ क
व्यास उवाच:
धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः ||
४ ख
व्यास उवाच:
वाग्वुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः |
५ क
व्यास उवाच:
किं हीय़ते मनुष्यस्य मन्दस्यापि हि जीवतः ||
५ ख
व्यास उवाच:
जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः |
६ क
व्यास उवाच:
व्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ||
६ ख
व्यास उवाच:
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे |
७ क
व्यास उवाच:
तत्र तेऽहं विनेष्यामि व्रह्मत्वं यत्र चेच्छसि ||
७ ख
व्यास उवाच:
स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत |
८ क
व्यास उवाच:
तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु ||
८ ख
व्यास उवाच:
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् |
९ क
व्यास उवाच:
श्वपाकवैश्यशूद्राणां क्षत्रिय़ाणां च योनिषु ||
९ ख
व्यास उवाच:
स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना |
१० क
व्यास उवाच:
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः ||
१० ख
कीट उवाच:
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः |
११ क
कीट उवाच:
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ||
११ ख
कीट उवाच:
वहन्ति मामतिवलाः कुञ्जरा हेममालिनः |
१२ क
कीट उवाच:
स्यन्दनेषु च काम्वोजा युक्ताः परमवाजिनः ||
१२ ख
कीट उवाच:
उष्ट्राश्वतरय़ुक्तानि यानानि च वहन्ति माम् |
१३ क
कीट उवाच:
सवान्धवः सहामात्यश्चाश्नामि पिशितौदनम् ||
१३ ख
कीट उवाच:
गृहेषु सुनिवासेषु सुखेषु शय़नेषु च |
१४ क
कीट उवाच:
परार्ध्येषु महाभाग स्वपामीह सुपूजितः ||
१४ ख
कीट उवाच:
सर्वेष्वपररात्रेषु सूतमागधवन्दिनः |
१५ क
कीट उवाच:
स्तुवन्ति मां यथा देवं महेन्द्रं प्रिय़वादिनः ||
१५ ख
कीट उवाच:
प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः |
१६ क
कीट उवाच:
यदहं कीटतां प्राप्य सम्प्राप्तो राजपुत्रताम् ||
१६ ख
कीट उवाच:
नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् |
१७ क
कीट उवाच:
त्वत्तपोवलनिर्दिष्टमिदं ह्यधिगतं मय़ा ||
१७ ख
व्यास उवाच:
अर्चितोऽहं त्वय़ा राजन्वाग्भिरद्य यदृच्छय़ा |
१८ क
व्यास उवाच:
अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता ||
१८ ख
व्यास उवाच:
न तु नाशोऽस्ति पापस्य यत्त्वय़ोपचितं पुरा |
१९ क
व्यास उवाच:
शूद्रेणार्थप्रधानेन नृशंसेनातताय़िना ||
१९ ख
व्यास उवाच:
मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा |
२० क
व्यास उवाच:
तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा ||
२० ख
व्यास उवाच:
इतस्त्वं राजपुत्रत्वाद्व्राह्मण्यं समवाप्स्यसि |
२१ क
व्यास उवाच:
गोव्राह्मणकृते प्राणान्हुत्वात्मीय़ान्रणाजिरे ||
२१ ख
व्यास उवाच:
राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान् |
२२ क
व्यास उवाच:
अथ मोदिष्यसे स्वर्गे व्रह्मभूतोऽव्ययः सुखी ||
२२ ख
व्यास उवाच:
तिर्यग्योन्याः शूद्रतामभ्युपैति; शूद्रो वैश्यत्वं क्षत्रिय़त्वं च वैश्यः |
२३ क
व्यास उवाच:
वृत्तश्लाघी क्षत्रिय़ो व्राह्मणत्वं; स्वर्गं पुण्यं व्राह्मणः साधुवृत्तः ||
२३ ख