chevron_left उद्योग पर्व अध्याय ११९
नारद उवाच:
अथ प्रचलितः स्थानादासनाच्च परिच्युतः |
१ क
नारद उवाच:
कम्पितेनैव मनसा धर्षितः शोकवह्निना ||
१ ख
नारद उवाच:
म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः |
२ क
नारद उवाच:
विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्वरः ||
२ ख
नारद उवाच:
अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः |
३ क
नारद उवाच:
शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् ||
३ ख
नारद उवाच:
किं मय़ा मनसा ध्यातमशुभं धर्मदूषणम् |
४ क
नारद उवाच:
येनाहं चलितः स्थानादिति राजा व्यचिन्तय़त् ||
४ ख
नारद उवाच:
ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा |
५ क
नारद उवाच:
अपश्यन्त निरालम्वं यय़ातिं तं परिच्युतम् ||
५ ख
नारद उवाच:
अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः |
६ क
नारद उवाच:
यय़ातिमव्रवीद्राजन्देवराजस्य शासनात् ||
६ ख
नारद उवाच:
अतीव मदमत्तस्त्वं न कञ्चिन्नावमन्यसे |
७ क
नारद उवाच:
मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज |
७ ख
नारद उवाच:
न च प्रज्ञाय़से गच्छ पतस्वेति तमव्रवीत् ||
७ ग
नारद उवाच:
पतेय़ं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः |
८ क
नारद उवाच:
पतिष्यंश्चिन्तय़ामास गतिं गतिमतां वरः ||
८ ख
नारद उवाच:
एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान् |
९ क
नारद उवाच:
चतुरोऽपश्यत नृपस्तेषां मध्ये पपात सः ||
९ ख
नारद उवाच:
प्रतर्दनो वसुमनाः शिविरौशीनरोऽष्टकः |
१० क
नारद उवाच:
वाजपेय़ेन यज्ञेन तर्पय़न्ति सुरेश्वरम् ||
१० ख
नारद उवाच:
तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम् |
११ क
नारद उवाच:
यय़ातिरुपजिघ्रन्वै निपपात महीं प्रति ||
११ ख
नारद उवाच:
भूमौ स्वर्गे च सम्वद्धां नदीं धूममय़ीं नृपः |
१२ क
नारद उवाच:
स गङ्गामिव गच्छन्तीमालम्व्य जगतीपतिः ||
१२ ख
नारद उवाच:
श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिवन्धुषु |
१३ क
नारद उवाच:
मध्ये निपतितो राजा लोकपालोपमेषु च ||
१३ ख
नारद उवाच:
चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु |
१४ क
नारद उवाच:
पपात मध्ये राजर्षिर्ययातिः पुण्यसङ्क्षय़े ||
१४ ख
नारद उवाच:
तमाहुः पार्थिवाः सर्वे प्रतिमानमिव श्रिय़ः |
१५ क
नारद उवाच:
को भवान्कस्य वा वन्धुर्देशस्य नगरस्य वा ||
१५ ख
नारद उवाच:
यक्षो वाप्यथ वा देवो गन्धर्वो राक्षसोऽपि वा |
१६ क
नारद उवाच:
न हि मानुषरूपोऽसि को वार्थः काङ्क्षितस्त्वय़ा ||
१६ ख
यय़ातिरु उवाच:
यय़ातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः |
१७ क
यय़ातिरु उवाच:
पतेय़ं सत्स्विति ध्याय़न्भवत्सु पतितस्ततः ||
१७ ख
राजान ऊचुः:
सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ |
१८ क
राजान ऊचुः:
सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम् ||
१८ ख
यय़ातिरु उवाच:
नाहं प्रतिग्रहधनो व्राह्मणः क्षत्रिय़ो ह्यहम् |
१९ क
यय़ातिरु उवाच:
न च मे प्रवणा वुद्धिः परपुण्यविनाशने ||
१९ ख
नारद उवाच:
एतस्मिन्नेव काले तु मृगचर्याक्रमागताम् |
२० क
नारद उवाच:
माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमव्रुवन् ||
२० ख
नारद उवाच:
किमागमनकृत्यं ते किं कुर्वः शासनं तव |
२१ क
नारद उवाच:
आज्ञाप्या हि वय़ं सर्वे तव पुत्रास्तपोधने ||
२१ ख
नारद उवाच:
तेषां तद्भाषितं श्रुत्वा माधवी परय़ा मुदा |
२२ क
नारद उवाच:
पितरं समुपागच्छद्ययातिं सा ववन्द च ||
२२ ख
नारद उवाच:
दृष्ट्वा मूर्ध्ना नतान्पुत्रांस्तापसी वाक्यमव्रवीत् |
२३ क
नारद उवाच:
दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः |
२३ ख
नारद उवाच:
इमे त्वां तारय़िष्यन्ति दिष्टमेतत्पुरातनम् ||
२३ ग
नारद उवाच:
अहं ते दुहिता राजन्माधवी मृगचारिणी |
२४ क
नारद उवाच:
मय़ाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् ||
२४ ख
नारद उवाच:
यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः |
२५ क
नारद उवाच:
तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप ||
२५ ख
नारद उवाच:
ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा |
२६ क
नारद उवाच:
अभिवाद्य नमस्कृत्य मातामहमथाव्रुवन् ||
२६ ख
नारद उवाच:
उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् |
२७ क
नारद उवाच:
मातामहं नृपतय़स्तारय़न्तो दिवश्च्युतम् ||
२७ ख
नारद उवाच:
अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम् |
२८ क
नारद उवाच:
तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् ||
२८ ख