धृतराष्ट्र उवाच:
अजितो द्रोणराधेय़विकर्णकृतवर्मभिः |
१ क
धृतराष्ट्र उवाच:
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ||
१ ख
धृतराष्ट्र उवाच:
स कथं कौरवेय़ेण समरेष्वनिवारितः |
२ क
धृतराष्ट्र उवाच:
निगृह्य भूरिश्रवसा वलाद्भुवि निपातितः ||
२ ख
सञ्जय़ उवाच:
शृणु राजन्निहोत्पत्तिं शैनेय़स्य यथा पुरा |
३ क
सञ्जय़ उवाच:
यथा च भूरिश्रवसो यत्र ते संशय़ो नृप ||
३ ख
सञ्जय़ उवाच:
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु वुधः स्मृतः |
४ क
सञ्जय़ उवाच:
वुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः ||
४ ख
सञ्जय़ उवाच:
पुरूरवस आय़ुस्तु आय़ुषो नहुषः स्मृतः |
५ क
सञ्जय़ उवाच:
नहुषस्य यय़ातिस्तु राजर्षिर्देवसंमितः ||
५ ख
सञ्जय़ उवाच:
यय़ातेर्देवय़ान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः |
६ क
सञ्जय़ उवाच:
यदोरभूदन्ववाय़े देवमीढ इति श्रुतः ||
६ ख
सञ्जय़ उवाच:
यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतः |
७ क
सञ्जय़ उवाच:
शूरस्य शौरिर्नृवरो वसुदेवो महाय़शाः ||
७ ख
सञ्जय़ उवाच:
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि |
८ क
सञ्जय़ उवाच:
तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः ||
८ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु देवकस्य महात्मनः |
९ क
सञ्जय़ उवाच:
दुहितुः स्वय़ंवरे राजन्सर्वक्षत्रसमागमे ||
९ ख
सञ्जय़ उवाच:
तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान् |
१० क
सञ्जय़ उवाच:
निर्जित्य पार्थिवान्सर्वान्रथमारोपय़च्छिनिः ||
१० ख
सञ्जय़ उवाच:
तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः |
११ क
सञ्जय़ उवाच:
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ||
११ ख
सञ्जय़ उवाच:
तय़ोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् |
१२ क
सञ्जय़ उवाच:
वाहुय़ुद्धं सुवलिनोः शक्रप्रह्रादय़ोरिव ||
१२ ख
सञ्जय़ उवाच:
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः |
१३ क
सञ्जय़ उवाच:
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ||
१३ ख
सञ्जय़ उवाच:
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः |
१४ क
सञ्जय़ उवाच:
कृपय़ा च पुनस्तेन जीवेति स विसर्जितः ||
१४ ख
सञ्जय़ उवाच:
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष |
१५ क
सञ्जय़ उवाच:
प्रसादय़न्महादेवममर्षवशमास्थितः ||
१५ ख
सञ्जय़ उवाच:
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः |
१६ क
सञ्जय़ उवाच:
वरेण छन्दय़ामास स तु वव्रे वरं नृपः ||
१६ ख
सञ्जय़ उवाच:
पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम् |
१७ क
सञ्जय़ उवाच:
मध्ये राजसहस्राणां पदा हन्याच्च संय़ुगे ||
१७ ख
सञ्जय़ उवाच:
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव |
१८ क
सञ्जय़ उवाच:
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीय़त ||
१८ ख
सञ्जय़ उवाच:
स तेन वरदानेन लव्धवान्भूरिदक्षिणम् |
१९ क
सञ्जय़ उवाच:
न्यपातय़च्च समरे सौमदत्तिः शिनेः सुतम् ||
१९ ख
सञ्जय़ उवाच:
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि |
२० क
सञ्जय़ उवाच:
न हि शक्या रणे जेतुं सात्वता मनुजर्षभ ||
२० ख
सञ्जय़ उवाच:
लव्धलक्ष्याश्च सङ्ग्रामे वहवश्चित्रय़ोधिनः |
२१ क
सञ्जय़ उवाच:
देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः |
२१ ख
सञ्जय़ उवाच:
स्ववीर्यविजय़े युक्ता नैते परपरिग्रहाः ||
२१ ग
सञ्जय़ उवाच:
न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो |
२२ क
सञ्जय़ उवाच:
भूतं भव्यं भविष्यच्च वलेन भरतर्षभ ||
२२ ख
सञ्जय़ उवाच:
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः |
२३ क
सञ्जय़ उवाच:
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः |
२३ ख
सञ्जय़ उवाच:
जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे ||
२३ ग
सञ्जय़ उवाच:
व्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः |
२४ क
सञ्जय़ उवाच:
एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि ||
२४ ख
सञ्जय़ उवाच:
अर्थवन्तो न चोत्सिक्ता व्रह्मण्याः सत्यवादिनः |
२५ क
सञ्जय़ उवाच:
समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ||
२५ ख
सञ्जय़ उवाच:
नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः |
२६ क
सञ्जय़ उवाच:
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ||
२६ ख
सञ्जय़ उवाच:
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालय़म् |
२७ क
सञ्जय़ उवाच:
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ||
२७ ख
सञ्जय़ उवाच:
एतत्ते सर्वमाख्यातं यत्र ते संशय़ो विभो |
२८ क
सञ्जय़ उवाच:
कुरुराज नरश्रेष्ठ तव ह्यपनय़ो महान् ||
२८ ख