सञ्जय़ उवाच:
नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसय़ोरिव ||
४८ ख
सञ्जय़ उवाच:
सन्तापय़न्तावन्योन्यं दीप्तैः शरगभस्तिभिः |
४९ क
सञ्जय़ उवाच:
लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव ||
४९ ख
सञ्जय़ उवाच:
ततोऽविध्यद्भ्रुवोर्मध्ये नाराचेनार्जुनो भृशम् |
५० क
सञ्जय़ उवाच:
स तेन विवभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः ||
५० ख
सञ्जय़ उवाच:
अथ कृष्णौ शरशतैरश्वत्थाम्नार्दितौ भृशम् |
५१ क
सञ्जय़ उवाच:
सरश्मिजालनिकरौ युगान्तार्काविवासतुः ||
५१ ख
सञ्जय़ उवाच:
ततोऽर्जुनः सर्वतोधारमस्त्र; मवासृजद्वासुदेवाभिगुप्तः |
५२ क
सञ्जय़ उवाच:
द्रौणाय़निं चाभ्यहनत्पृषत्कै; र्वज्राग्निवैवस्वतदण्डकल्पैः ||
५२ ख
सञ्जय़ उवाच:
स केशवं चार्जुनं चातितेजा; विव्याध मर्मस्वतिरौद्रकर्मा |
५३ क
सञ्जय़ उवाच:
वाणैः सुमुक्तैरतितीव्रवेगै; र्यैराहतो मृत्युरपि व्यथेत ||
५३ ख
सञ्जय़ उवाच:
द्रौणेरिषूनर्जुनः संनिवार्य; व्याय़च्छतस्तद्द्विगुणैः सुपुङ्खैः |
५४ क
सञ्जय़ उवाच:
तं साश्वसूतध्वजमेकवीर; मावृत्य संशप्तकसैन्यमार्छत् ||
५४ ख
सञ्जय़ उवाच:
धनूंषि वाणानिषुधीर्धनुर्ज्याः; पाणीन्भुजान्पाणिगतं च शस्त्रम् |
५५ क
सञ्जय़ उवाच:
छत्राणि केतूंस्तुरगानथैषां; वस्त्राणि माल्यान्यथ भूषणानि ||
५५ ख
सञ्जय़ उवाच:
चर्माणि वर्माणि मनोरथांश्च; प्रिय़ाणि सर्वाणि शिरांसि चैव |
५६ क
सञ्जय़ उवाच:
चिच्छेद पार्थो द्विषतां प्रमुक्तै; र्वाणैः स्थितानामपराङ्मुखानाम् ||
५६ ख
सञ्जय़ उवाच:
सुकल्पिताः स्यन्दनवाजिनागाः; समास्थिताः कृतय़त्नैर्नृवीरैः |
५७ क
सञ्जय़ उवाच:
पार्थेरितैर्वाणगणैर्निरस्ता; स्तैरेव सार्धं नृवरैर्निपेतुः ||
५७ ख
सञ्जय़ उवाच:
पद्मार्कपूर्णेन्दुसमाननानि; किरीटमालामुकुटोत्कटानि |
५८ क
सञ्जय़ उवाच:
भल्लार्धचन्द्रक्षुरहिंसितानि; प्रपेतुरुर्व्यां नृशिरांस्यजस्रम् ||
५८ ख
सञ्जय़ उवाच:
अथ द्विपैर्देवपतिद्विपाभै; र्देवारिदर्पोल्वणमन्युदर्पैः |
५९ क
सञ्जय़ उवाच:
कलिङ्गवङ्गाङ्गनिषादवीरा; जिघांसवः पाण्डवमभ्यधावन् ||
५९ ख
सञ्जय़ उवाच:
तेषां द्विपानां विचकर्त पार्थो; वर्माणि मर्माणि करान्निय़न्तॄन् |
६० क
सञ्जय़ उवाच:
ध्वजाः पताकाश्च ततः प्रपेतु; र्वज्राहतानीव गिरेः शिरांसि ||
६० ख
सञ्जय़ उवाच:
तेषु प्ररुग्णेषु गुरोस्तनूजं; वाणैः किरीटी नवसूर्यवर्णैः |
६१ क
सञ्जय़ उवाच:
प्रच्छादय़ामास महाभ्रजालै; र्वाय़ुः समुद्युक्तमिवांशुमन्तम् ||
६१ ख
सञ्जय़ उवाच:
ततोऽर्जुनेषूनिषुभिर्निरस्य; द्रौणिः शरैरर्जुनवासुदेवौ |
६२ क
सञ्जय़ उवाच:
प्रच्छादय़ित्व दिवि चन्द्रसूर्यौ; ननाद सोऽम्भोद इवातपान्ते ||
६२ ख
सञ्जय़ उवाच:
तमर्जुनस्तांश्च पुनस्त्वदीय़ा; नभ्यर्दितस्तैरविकृत्तशस्त्रैः |
६३ क
सञ्जय़ उवाच:
वाणान्धकारं सहसैव कृत्वा; विव्याध सर्वानिषुभिः सुपुङ्खैः ||
६३ ख
सञ्जय़ उवाच:
नाप्याददत्सन्दधन्नैव मुञ्च; न्वाणान्रणेऽदृश्यत सव्यसाची |
६४ क
सञ्जय़ उवाच:
हतांश्च नागांस्तुरगान्पदाती; न्संस्यूतदेहान्ददृशू रथांश्च ||
६४ ख
सञ्जय़ उवाच:
सन्धाय़ नाराचवरान्दशाशु; द्रौणिस्त्वरन्नेकमिवोत्ससर्ज |
६५ क
सञ्जय़ उवाच:
तेषां च पञ्चार्जुनमभ्यविध्य; न्पञ्चाच्युतं निर्विभिदुः सुमुक्ताः ||
६५ ख
सञ्जय़ उवाच:
तैराहतौ सर्वमनुष्यमुख्या; वसृक्क्षरन्तौ धनदेन्द्रकल्पौ |
६६ क
सञ्जय़ उवाच:
समाप्तविद्येन यथाभिभूतौ; हतौ स्विदेतौ किमु मेनिरेऽन्ये ||
६६ ख
सञ्जय़ उवाच:
अथार्जुनं प्राह दशार्हनाथः; प्रमाद्यसे किं जहि योधमेतम् |
६७ क
सञ्जय़ उवाच:
कुर्याद्धि दोषं समुपेक्षितोऽसौ; कष्टो भवेद्व्याधिरिवाक्रिय़ावान् ||
६७ ख
सञ्जय़ उवाच:
तथेति चोक्त्वाच्युतमप्रमादी; द्रौणिं प्रय़त्नादिषुभिस्ततक्ष |
६८ क
सञ्जय़ उवाच:
छित्त्वाश्वरश्मींस्तुरगानविध्य; त्ते तं रणादूहुरतीव दूरम् ||
६८ ख
सञ्जय़ उवाच:
आवृत्य नेय़ेष पुनस्तु युद्धं; पार्थेन सार्धं मतिमान्विमृश्य |
६९ क
सञ्जय़ उवाच:
जानञ्जय़ं निय़तं वृष्णिवीरे; धनञ्जय़े चाङ्गिरसां वरिष्ठः ||
६९ ख
सञ्जय़ उवाच:
प्रतीपकाय़े तु रणादश्वत्थाम्नि हृते हय़ैः |
७० क
सञ्जय़ उवाच:
मन्त्रौषधिक्रिय़ादानैर्व्याधौ देहादिवाहृते ||
७० ख
सञ्जय़ उवाच:
संशप्तकानभिमुखौ प्रय़ातौ केशवार्जुनौ |
७१ क
सञ्जय़ उवाच:
वातोद्धूतपताकेन स्यन्दनेनौघनादिना ||
७१ ख