chevron_left आदि पर्व अध्याय १२
रुरुरु उवाच:
कथं हिंसितवान्सर्पान्क्षत्रिय़ो जनमेजय़ः |
१ क
रुरुरु उवाच:
सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ||
१ ख
रुरुरु उवाच:
किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे |
२ क
रुरुरु उवाच:
आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ||
२ ख
ऋषिरु उवाच:
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् |
३ क
ऋषिरु उवाच:
व्राह्मणानां कथय़तामित्युक्त्वान्तरधीय़त ||
३ ख
सूत उवाच:
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः |
४ क
सूत उवाच:
तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ||
४ ख
सूत उवाच:
लव्धसञ्ज्ञो रुरुश्चाय़ात्तच्चाचख्यौ पितुस्तदा |
५ क
सूत उवाच:
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदय़त् ||
५ ख