वैशम्पाय़न उवाच:
तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः |
१ क
वैशम्पाय़न उवाच:
कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः ||
१ ख
वैशम्पाय़न उवाच:
राजन्नधीता वेदास्ते शास्त्राणि विविधानि च |
२ क
वैशम्पाय़न उवाच:
श्रुतानि च पुराणानि राजधर्माश्च केवलाः ||
२ ख
वैशम्पाय़न उवाच:
एवं विद्वान्महाप्राज्ञ नाकार्षीर्वचनं तदा |
३ क
वैशम्पाय़न उवाच:
पाण्डवानधिकाञ्जानन्वले शौर्ये च कौरव ||
३ ख
वैशम्पाय़न उवाच:
राजा हि यः स्थिरप्रज्ञः स्वय़ं दोषानवेक्षते |
४ क
वैशम्पाय़न उवाच:
देशकालविभागं च परं श्रेय़ः स विन्दति ||
४ ख
वैशम्पाय़न उवाच:
उच्यमानं च यः श्रेय़ो गृह्णीते नो हिताहिते |
५ क
वैशम्पाय़न उवाच:
आपदं समनुप्राप्य स शोचत्यनय़े स्थितः ||
५ ख
वैशम्पाय़न उवाच:
ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत |
६ क
वैशम्पाय़न उवाच:
राजंस्त्वं ह्यविधेय़ात्मा दुर्योधनवशे स्थितः ||
६ ख
वैशम्पाय़न उवाच:
आत्मापराधादाय़स्तस्तत्किं भीमं जिघांससि |
७ क
वैशम्पाय़न उवाच:
तस्मात्संय़च्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम् ||
७ ख
वैशम्पाय़न उवाच:
यस्तु तां स्पर्धय़ा क्षुद्रः पाञ्चालीमानय़त्सभाम् |
८ क
वैशम्पाय़न उवाच:
स हतो भीमसेनेन वैरं प्रतिचिकीर्षता ||
८ ख
वैशम्पाय़न उवाच:
आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः |
९ क
वैशम्पाय़न उवाच:
यदनागसि पाण्डूनां परित्यागः परन्तप ||
९ ख
वैशम्पाय़न उवाच:
एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप |
१० क
वैशम्पाय़न उवाच:
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः ||
१० ख
वैशम्पाय़न उवाच:
एवमेतन्महावाहो यथा वदसि माधव |
११ क
वैशम्पाय़न उवाच:
पुत्रस्नेहस्तु धर्मात्मन्धैर्यान्मां समचालय़त् ||
११ ख
वैशम्पाय़न उवाच:
दिष्ट्या तु पुरुषव्याघ्रो वलवान्सत्यविक्रमः |
१२ क
वैशम्पाय़न उवाच:
त्वद्गुप्तो नागमत्कृष्ण भीमो वाह्वन्तरं मम ||
१२ ख
वैशम्पाय़न उवाच:
इदानीं त्वहमेकाग्रो गतमन्युर्गतज्वरः |
१३ क
वैशम्पाय़न उवाच:
मध्यमं पाण्डवं वीरं स्प्रष्टुमिच्छामि केशव ||
१३ ख
वैशम्पाय़न उवाच:
हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च |
१४ क
वैशम्पाय़न उवाच:
पाण्डुपुत्रेषु मे शर्म प्रीतिश्चाप्यवतिष्ठते ||
१४ ख
वैशम्पाय़न उवाच:
ततः स भीमं च धनञ्जय़ं च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ |
१५ क
वैशम्पाय़न उवाच:
पस्पर्श गात्रैः प्ररुदन्सुगात्रा; नाश्वास्य कल्याणमुवाच चैनान् ||
१५ ख